Book Title: Rushibhashitani Part 1
Author(s): 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 109
________________ नल-ऋषिभाषितानि - -१७३ कजन्मविनाशे कृते सति, हताः - विनष्टा भवन्ति। अत्राप्युदाहरणमाह- यथा पुष्पघाते - कुसुमविनाशे कृते सति फलं हतं भवति। अतस्तद्धेतोरेवेत्यादिन्यायान् मूलोन्मूलन एव यतितव्यम्। अपरथा तु व्यक्तैव क्लीबवृत्तितेति निदर्शयति पत्थरेणाऽऽहतो कीवो, खिणं डसइ पत्थरं। मिगारि ऊ सरं पप्प, सरुप्पत्तिं विमग्गति।।१५-२४।। केनचित् प्रस्तरेण - शिलाशकलेन, आहतः - कृतप्रहारः, क्लीबः - प्रतिप्रहारकातरो विचारालसो वा यः कश्चित्, पक्षिविशेषो वा, क्षिप्रम् - तूर्णमेव, प्रस्तरम् - तमेव शिलाशकलम्, दशति - स्वदन्तप्रहारगोचरीकुरुते। मृगारिस्तु - सिंहस्तु शरम् - स्वस्मिन् प्रहारसाधनं तीरम्, प्राप्य - शरीरदेशे समासन्नस्थाने वाऽधिगम्य, शरस्योत्पत्तिर्यस्मात्तत्-शरोत्पत्ति, कुत एतत् तीरमागतमिति तदुद्भवस्थानं तत्प्रयोक्तारमिति यावत्, विमार्गयति - निपुणमन्वेषयति। शरस्य निमित्तमात्रतया तत्राभियोगस्याफलत्वात्, तदुद्भवनिरासेनैवापायनिराससम्भवाच्च। तदेतद् दृष्टान्तम्, साम्प्रतमुपनयमाह तहा बालो दुही वत्थु, बाहिरं जिंदती भिसं। दुक्खुप्पत्तिविणासं तु, मिगार व्व ण पप्पति।। ॥१५-२५॥ तथा दुःखनिमित्तमात्राभियुक्ताभियोगतया तदुत्पत्तिविचार १७४ - आर्षोपनिषद् - शून्यत्वेन बाल इव बालः - अज्ञो जीवः, दुःखी - यत्किञ्चिनिमित्तेन दुःखितः सन् बाह्यं वस्तु दुःखनिमित्तमात्रं दंशमशकादि, भृशं निन्दति - कथं ममाकृतापराधस्यैते मशकादयः पीडामुत्पादयन्तीति धिगस्तु - इत्यादिना तानत्यन्तं परिवदति। तु - किन्तु, मृगारिरिव - अनन्तरोक्तसिंहवत्, दुःखस्योत्पत्तिर्यस्मात् तत् दुःखोत्पत्ति - पापकर्म, तद्विनाशं तु न प्राप्नोति, अलक्षितलक्ष्यस्य तद्वेधासम्भवात्। ततोऽविनाशितनिमित्तस्य बालस्य यद् भवति तदुल्लेखालङ्कारेण स्पष्टयतिवणं वण्हिं कसाए य, अणं जं वा वि दुट्टितं। आमगं च उव्वहंता, दुक्खं पावंति पीवरं।। १५-२६।। व्रणम् - क्षतम्, वह्निम् - कृशानुम्, कषायान् - क्रोधादीन्, तदुदयार्जितपापकर्माणि वा, च: समुच्चये, ऋणम् - उद्धारम्, आमकम् - रोगं च, यद्वाऽन्यदप्येतादृशं दुःस्थितम् - अनवस्थिततयोपेक्षादिना वृद्ध्यादिशीलम्, तदुद्वहन्तः किमेतस्येषन्मात्रव्रणस्य चिकित्सयेत्यादि - विमर्शेनोपेक्षाविषयीकृत्यैवमेव धारयन्तः, पीवरम्-कष्टजननसामग्रंणात्यन्तमुपचितम्, दुःखम्तत्तद्विपाकोपनीतासुखम्, प्राप्नुवन्ति। तथाहि व्रणमप्रतिकृततयाऽतीव संवृद्धं हस्ताद्यवयवछेदमावहति। वलिरुपेक्षितो गृहप्रदीपनादिविनाशमवतारयति। ऋणं कलावृद्ध्याऽभिवृद्धं सत् सर्वस्ववञ्चितत्वदासत्वादिकमनर्थं विधत्ते। कषाया अप्यनुद्धृताः सन्तोऽनन्तानुबन्धितया परिणम्यानन्तसंसारहेतवो भवन्ति। तस्मात्१. ज्ञाताधर्मकथाङ्गे । ।१-९ ।। १. तद्धेतोरेवास्तु किं तेनेति न्यायात्। २. अत्रार्थे कीव - इति देश्यशब्द:प्रश्नव्याकरणागे ।।१।। Ashopnisad_2.p65 2nd Proof

Loading...

Page Navigation
1 ... 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141