Book Title: Rushibhashitani Part 1
Author(s): 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 107
________________ १७० नल-ऋषिभाषितानिसन्निधानस्य क्षुरप्रादेरिया कण्ठपाशे छेदं कृत्वा सपदि निपतेत्, तत उल्लम्बनवेदनां पतनपीडां चानुभवन् दुःखार्त्तः सन् विलपेत्। अत्र यथा स्वयमेवात्मानमुल्लम्ब्य निपात्य च वेदनाधिसहने प्रतिभग्नतायां दुर्मतितैव, तथा प्रस्तुतेऽपि द्रष्टव्यम्। इतश्चास्य दुर्मतितेत्याहपावं जे उ पकुव्वंति, जीवा साताणुगामिणो। वडती पावकं तेसिं, अणग्गाहिस्स वा अणं।।१५-१९।। ये तु, सातमेव - सुखमेवोपादेयं मत्वा तदनुगच्छन्ति तन्मार्गणपरा अटन्ति- इति सातानुगामिनो जीवाः, तदधिगमाय पापम् - परपीडोत्पादनम्, तज्जन्यमशुभकर्म वा, तत् प्रकर्षण - स्वसुखमात्रसापेक्षतया परप्राणिपरितापादिलक्षणसङ्क्लेशातिशयेन, कुर्वन्ति - विदधन्ति, तेषां पापकम् - पापानुबन्धित्वेन कुत्सितं पापम्, वर्धते, किरिया अदितॄगंतफला सव्वा - इति वचनात्। अत्र निदर्शनमाह- वा - यथा ऋणग्राहिण ऋणं वर्धते, लोकप्रसिद्धमेतत्। अत आलोचनीयः परिणामः। परिणामसुन्दरं हि सुन्दरतया विदामिष्टम्, यतः अणुबद्धमपस्संता, पच्चुप्पण्णगवेसका। ते पच्छा दुक्खमच्छंति, गलुच्छिन्ना झसा जहा।। ॥१५-२०॥ कुकर्मानन्तरं तत्प्रत्ययिककर्मविपाकेनावश्यं प्राप्यमाणतया कुकर्मणो-ऽनु-पश्चाद्भागे बद्धमिव- अनुबद्धम् - दुःख१. विशेषावश्यकभाष्ये । ।१६२३ ।। अवश्यं कर्मलक्षणफलजननीत्यर्थः ।। - आर्षोपनिषद्मित्यर्थः, तदपश्यन्तः, मोहान्धतया तदनिरीक्षमाणाः, तत् प्रति गजनिमीलिकामवलम्बमाना वा। ___ अत्रैव विशेषणगर्भ हेतुमाह- यतः प्रत्युत्पन्नम् - अर्वाग्भागव्यवस्थिततया पुरो वर्तमानमात्रं निरनुबन्धसुखसाधनम्, तदेव गवेषयन्ति तत्प्राप्त्येकबद्धलक्षतया मार्गयन्तीति प्रत्युत्पन्नगवेषकाः, त एवम्भूताः पश्चात् विपाककाले, दुःखम् - कष्टमात्रं यथा स्यात्तथा, आसते - दारुणावस्थां गता अवतिष्ठन्ते। एतदेव निदर्शनेन स्पष्टयति - यथा गल:-मत्स्यग्रहणयन्त्रम्, तेनोच्छिन्नाः - संविद्धतालुप्रदेशाः, झषाः - मीनाः। यथा हि ते गलयन्त्रारोपितमांसशकलमात्रगवेषकतया तदनुबद्धमुच्छेदादिदुःखसन्दोहमपश्यन्तस्तालुवेधादिमरणान्ता दुस्सहा वेदना विषहन्ते, तथाऽन्येऽप्येतादृशा इत्यभिप्रायः। एवं च आता कडाण कम्माणं, आता भुंजति जं फलं। तम्हा आतस्स अट्ठाए, पावमादाय वज्जए।। १५-२१।। यत् - यस्मात्, आता - इति लुप्ततृतीयान्तत्त्वादात्मना, कृतानाम् - प्राग्विहितानाम्, कर्मणाम् - शुभाशुभानाम्, आत्मा स्वयमेव फलम् - परिणामं भुञ्जति - वेदयति। तस्मात् - अनन्तरोक्तहेतोः, आत्मनोऽर्थाय सुखलक्षण - तत्प्रयोजननिष्पत्तये, पापम् - अशुभकर्म, आदाय-बद्धवाऽपि वर्जयेत् - तपसा क्षपयेत्। अन्यथा वेदनमन्तरेण मुक्तिविरहात्, तथा चार्षम् - पावाणं च खलु भो ! कडाणं कम्माणं पुल्लिं दुच्चिण्णाणं १.हेती यत्तद्यतस्ततः।। अभिधानचिन्तामणी- १५३७ ।। Ashopnisad_2.p65 2nd Proof

Loading...

Page Navigation
1 ... 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141