Book Title: Rushibhashitani Part 1
Author(s):
Publisher: Jinshasan Aradhana Trust
View full book text
________________
- ऋषिभाषितानि
जेण बंधं च मोक्खं च, जीवाणं गतिरागतिं । आयाभावं च जाणाति, सा विज्जा दुक्खमोयणी ।। ।। १७-२।।
-
१८५.
बन्धम् -
इसिणा बुड़तं । कृत्स्नकर्मविमुक्तिम्, जीवानां
विदुणा अरहता ज्ञानावरणादिकर्मबन्धम्, मोक्षं गतिम् - अनागतभवम्, आगतिम् अतीतभवम्, आत्मभावम् सर्वोपाधिशुद्धात्मस्वरूपम्, चकाराः सर्वेऽपि समुच्चये । तदेतत् सर्वं येन - यद्विद्योपयोगेन, जानाति सा विद्या दुःखमोचनी संसारचारकान्मुक्तेर्हेतुः ।
यद्वा येनेत्यनिर्दिष्टविषयमुद्दिश्य नपुंसकलिङ्गेन जात्यभिधानमिति न स्त्रीलिङ्गापत्तिः, यदुक्तम्- जाव णं न वियाणेज्जा ताव जाइ त्ति आलवे - इति । जातिः सर्वसाधारणेति तात्पर्यम् । एतच्च लोकव्यवहारेऽपि सिद्धम्, यथोच्यते किं ते जातम् ? मम ज्वरो जातोऽस्तीति । तथा चानुशासनम् अनिर्ज्ञातेऽर्थे गुणसन्देहे च नपुंसकलिङ्गं प्रयुज्यते - इति ।
-
इत्थं च सर्वदुःखमुक्त्यवन्ध्यबीजतया विद्यैव महाविद्या, तदितराणां तत्त्वस्यैवानुपपत्तेश्च । यदाह सा विद्या या विमुक्त्य इति । एतेनाभव्यमुक्तिप्रसङ्गोद्भावनं निरस्तम् ।
क एवमाहेत्याह - विदुनार्हतर्षिणोदितम् । सज्ज्ञानमाहात्म्य एव दृष्टान्तमाह
१. दशवैकालिके ।।७-२१ ।। २ पातञ्जलमहाभाष्ये ।।१-२-६९ ।। ३ विद्यात्वस्य । ४. महाभारते ।
Ashopnisad_2.p65 2nd Proof
• आर्षोपनिषद् - सम्मं रोगपरिणाणं, ततो तस्स विनिच्छयं । रोगोसहपरिण्णाणं, जोगो रोगतिगिच्छितं । ।१७-३।।
यथा सम्यग् - तन्निदानाद्यवगमपुरस्सरम्, रोगस्य - ज्वरादेः, परिज्ञानम् - तदव्यभिचारिलक्षणदर्शनेन तदवबोधः, ततस्तस्यपरिज्ञानस्यैव विनिश्चयः चरकाद्यनेकचिकित्साशास्त्रविमर्शेन सम्प्रदायेनानुभवेन च निर्णयः । ततस्तस्य रोगस्य प्रतिकृत्यर्थमौषधं भेषजम् - रोगौषधम्, तस्य परिज्ञानम् - शास्त्राद्यनुभावेन सम्यगवगमः। तदेतज्ज्ञानत्रितयस्य योगः - कुशलवैद्येन क्रियमाणः रोगापहारानुगुणः प्रयोगः, रोगचिकित्सितम् रोगप्रतिक्रियां विधत्ते, रोगिणं नीरुजीकुरुत एवेति यावत् । अत्रोपनयमाह। सम्म कम्मपरिणाणं, ततो तस्स विमोक्खणं । कम्ममोक्खपरिण्णाणं, करणं च विमोक्खणं । । १७ - ४ ।।
१८६
-
-
-
-
तथा सम्यक् - गुरूपासनापूर्वकम्, अन्यथा सम्यक्त्वायोगात्, निःशेषानुयोगानां तदधीनत्वात्, उक्तं च - गुर्वायत्ता यस्मा - च्छास्त्रारम्भा भवन्ति सर्वेऽपि । तस्माद्गुर्वाराधनपरेण हितकाङ्क्षिणा भाव्यम् - इति'। कर्मपरिज्ञानम् - कर्मप्रवादाभिधात् पूर्वात् तदुद्धृतशास्त्राद्वा कर्मणो ज्ञानावरणादिप्रकृत्यादेरवबोधः । ततस्तस्य
कर्मणः, विमोक्षणम् - कृत्स्नतयाऽऽत्मप्रदेशेभ्यः परिशटनम्, तत् प्रत्यभिलाष इति गम्यते । यद्वाऽत्र ततो तस्स विनिच्छयं - इति पाठः सम्भाव्यते, तस्य - कर्मपरिज्ञानस्य विनिश्चयः - अतिसूक्ष्मसुयुक्तिचिन्तनेन निर्णयः, अनिश्चितस्याज्ञातप्रायत्वात्, तदाह -
१. प्रशमरती । । ६९ ।।

Page Navigation
1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141