Book Title: Rushibhashitani Part 1
Author(s):
Publisher: Jinshasan Aradhana Trust
View full book text
________________
नल-ऋषिभाषितानि -
-१८९ तमेव - सावधयोगमेव, सम्यक त्रिविधं त्रिविधम्, उक्तं च - भावपडिक्कमणं पुण तिविहं तिविहेण नेयवं - इति । परिज्ञाय - प्रत्याख्याय, एतेन प्रत्याख्यानपरिज्ञाऽऽवेदिता। ततोऽतीतस्य प्राक्कृतसावद्यस्य, निन्दायाम् - परिवादे, सम्यक्-भावसारम्, एतेन कुम्भकारमिथ्यादुष्कृतदानकल्पा निन्दा निषिद्धा । उत्थितः - अभ्युद्यत आत्मा यस्य स उत्थितात्मा।
तदिदमुक्तम् - सव्वं सावज्ज जोगं पच्चक्खामि जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए काएणं न करेमि कारवेमि करतं पि अन्नं न समणुजाणामि तस्स भंते पडिक्कमामि निंदामि गरहामि अप्पाणं वोसिरामि इति । तथा अइयं निन्दामि - इत्यादि।
सोऽयं, कदापि सावद्यवृत्तिम् - सपापानुष्ठानवर्त्तिताम्, न तु नैव, श्रद्दधीत - अभिलाषगोचरीकुर्यात् । ततश्च
सज्जायझाणोवगतो जितप्पा, संसारवासं बहुधा विदित्ता। सावज्जवुत्तीकरणेऽठितप्पा, णिरवज्जवित्ती उ समाहरेज्जा ।।१७-८।।
स्वाध्यायः-वाचनापृच्छनादिः, ध्यानम्-धर्मशुक्लात्मकम्, त उपगतः-तदुपयुक्ततया बद्धस्थितिः। जितात्मा - इन्द्रियादिविजेता, आत्मजय एव तत्सर्ववशीकारभावात्, तथा चार्षम् - पंचिंदियाणि कोहं माणं मायं तहेव लोभं च। दुज्जयं चेव अपाणं सव्वमप्पे जिए जियं - इति । अत एवागमः - जो एगं नामे से बहुं
१९०
-आर्षोपनिषद्-50 नामे - इति । अन्वाहुः परेऽपि - एकं च जेय्यमत्तानं, अत्तानं दमयन्ति पण्डिता इति । युक्तमेतत्, निश्चयेन तस्यैव शरणादिभूतत्वात् यदाह - अप्पा जियप्पा सरणं गइ य - इति ।
स संसारवासम् - चतुरशीतियोनिलक्षभीषणभवावर्त्तवर्त्तिताम्, बहुधा - कायस्थित्याकर्षद्रव्यादिपुद्गलपरावर्तादिप्रभूतप्रकारैर्विदित्वा- श्रुतादिचक्षुषोपलभ्य, अत एव तभीतः सन् तद्धेतौ सावद्यवृत्तिकरणेऽस्थितात्मा - अव्यापृतमनःप्रभृतियोगः, निरवद्या - प्राणिद्रोहादिपापविरहिता, वृत्तिः-प्राणधारणक्रिया यस्य सः निरवद्यवृत्तिः, तु सावद्यवृत्तिभिन्नपक्षद्योतकः, समाहरेत् - संयमयोगान् निर्वाहयेत्।
यद्वा सुपां सुपो भवन्तीति द्वितीयार्थे प्रथमा, ततः निरवद्यवृत्तिं तु - निरवद्यामेव वृत्तिम्, समाहरेत् - धारयेदित्यर्थः। यतः
परकीयसव्वसावज्जं जोगं इह अज्ज दुच्चरियं णायरे अपरिसेसं, हिरवज्जे ठितस्स णो कप्पति पुणरवि सावज्जं सेवित्तए।।१७-९।।
परकीयम् - प्राणिद्रोहाद्यात्मकतया कथञ्चित् परसम्बन्धि, सर्वसावद्ययोगम्, इह-निरवद्यवृत्तौ वर्तमानः, अद्यः-साम्प्रतम्, प्रतिपन्नगुणमनुस्मरन्, अपरिशेषम् - कृत्स्नम्, दुश्चरितम्दुष्टमनोवाक्कायवृत्तम्, नाचरेत्। अत्रैव हेतुमाह- निरवद्ये १. आचाराङ्गे।।१-३-४ ।। १२६।। २. धम्मपदे ।।८-४ ।। ३. मज्झिमनिकाये ।।२३६-४ ।। ४. गौतमकुलके। ५. क-ग-घ-च-झ-त-न-प-णिरवज्जवित्ति। ख-ज-थणिरवज्जवत्ती। ६. ख-ज-थ- अज्झमग्रं। प-क- अद्यमद्यं । ग- अज्झं। न-अज्झ। चज-त-घ- इह अज्ज।
१. आवश्यकनियुक्ती ।।१२६५ ।। २. सामायिकसूत्रे। ३. पाक्षिकसूत्रे ।। ४. सद्धा निओऽभिलासो - चैत्यवन्दनमहाभाष्ये ।।४१७।। ५. उत्तराध्ययने ।।९-३६।।
Ashopnisad 2.p65
2nd Proof

Page Navigation
1 ... 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141