Book Title: Rushibhashitani Part 1
Author(s): 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 116
________________ नल-ऋषिभाषितानि -१८७ विज्जा निच्छयसारा - इति। कर्मणो मोक्षः-आत्मसकाशात् - पृथग्भावः, यतस्तत् कर्ममोक्षम् - चारित्रम्, चयरित्तकरं चरित्तं - इति वचनात्। तस्य परिज्ञानम् - तत्सम्यगाराधनप्रयोजकावबोधः, स्वयं गीतार्थत्वात्, तनिश्रितत्वाद्वा, तृतीयप्रकारविरहात्, यदाह - गीयत्थो य विहारो, बीयो गीयत्थनिस्सितो भणिओ। एत्तो तइयविहारो, नाणुन्नाओ जिणवरेहिं - इति । अत्रापि मुख्यं परिज्ञानं गीतार्थानामेव, अगीतार्थानां तु तत्पारतन्त्र्यलक्षणं गौणमिति ध्येयम्। तदाह - गीतार्थपारतन्त्र्येण, ज्ञानमज्ञानिनां मतम्। विना चक्षुष्मदाधारमन्धः पथि कथं व्रजेत् - इति । ततः करणम् - परिज्ञातस्य सर्वथाऽवितथतयाऽऽचरणम्। चः - समुच्चये। ततश्च विमोक्षणम् - एकान्तिकात्यन्तिककर्मवियोगः, ज्ञानक्रियासमुच्चयस्य मुक्तेरवन्ध्यहेतुत्वात्, तदुक्तम् - नाणेण य करणेण य दोहि वि दुक्खखयं होइ - इति । निदर्शनान्तरमाह मम्मं ससल्लजीवं च, पुरिसं वा मोहघातिणं। सल्लुद्धरणजोगं च, जो जाणइ स सल्लहा।। १७-५।। मर्म - यत्र विद्धो मरणादिव्यथामाप्नुयात्तच्छरीरदेशम्, सशल्यजीवम् - शल्यसहितं सशरीरमात्मानम्, चः - समुच्चये, पुरुषं वा - वैद्यादिकम्, मोहः - विषकण्टकवेधोत्थितमूर्छा, शल्योद्धारादिविषयाज्ञता वा, तं घातयति - सच्चि१. उत्तराध्ययने ।।२८-३३ ।। २. ओधनियुक्तौ ।। १२१ ।। व्यवहारभाष्ये ।।२२१।। प्रवचनसारोद्धारे । ७७० ।। पञ्चाशके ।।११-३२ ।।, ।।१४-२०।। पञ्चवस्तके।।११८०।। बृहत्कल्पभाष्ये ।।६८८।। ३. द्वात्रिंशद्वात्रिंशिकायाम् ( यशो.) ||३- १७।। ४. मरणविभक्तिप्रकीर्णके ।।१४७।। १८८ आर्षोपनिषद् - कित्सकत्वेनापनयतीति मोहघाती, तम्, एतच्च पुरुषविशेषणम्। तथा शल्योद्धरणयोगम् - कण्टकादेः पादादिसकाशान्निष्काशने प्रत्यलं व्यापारम्, चः - समुच्चये, यो जानाति स शल्यहा - शल्योद्धारेण ज्वरादिजननतच्छक्तिप्रतिहन्ता भवति। मर्मादिज्ञाता, कुशलवैद्यज्ञाता वा शल्योद्धारसमर्थो भवतीति हृदयम्। कुशलत्वेन वैद्यं जानातीत्यतः श्रद्धातिशयेन तदुक्तमङ्गीकुरुत इति कुशलवैद्यज्ञाता। एतदुपनयस्तु गीतार्थतनिश्रितविहारोक्तेरुक्त एव। शेषोपनयमाह बंधणं मोयणं चेव, तहा फलपरंपरं। जीवाण जो विजाणाति, कम्माणं तु स कम्महा।। ॥१७-६॥ जीवानां कर्मणां बन्धनम् - कर्मबन्धनिबन्धनं मिथ्यात्वादि, मोचनम् - कर्मनिर्जरासाधनं बाह्याभ्यन्तरतपः। चैव - तथा - समुच्चये। फलपरम्पराम् - बन्धनमोचनयोरेवानन्तरपरम्परफलसन्ततिम्, यो विजानाति - भावनाज्ञानानुभावेन संवेत्ति, स तु - स एव, कर्महा - कृत्स्नकर्मप्रतिहन्ता भवति। भावनाज्ञानमेव स्फुटयति सावज्जजोगं णिहिलं विदित्ता, तं चेव सम्म परिजाणिऊणं। तीतस्स जिंदाए समुत्थितप्पा, सावज्जवुत्तिं तु ण सद्दहेज्जा।।१७-७।। सावद्ययोगम् - सपापानुष्ठानम्, निखिलम् प्राणातिपातादिभेदविज्ञानसहितम्, विदित्वा-विज्ञाय, एतेन ज्ञपरिज्ञोदिता। Ashopnisad_2.p65 2nd Proof

Loading...

Page Navigation
1 ... 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141