Book Title: Rushibhashitani Part 1
Author(s): 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 113
________________ 70 ऋषिभाषितानि एवं मनोज्ञरूपादिष्वपि चक्षुरादिविषयप्राप्तेषु भावनीयमित्यतिदेष्टि एवं रूपेषु गन्धेषु रसेषु स्पर्शेषु । एवं विपरीतेषु अमनोज्ञेषु शब्दादिषु श्रोत्रादिविषयप्राप्तेषु, नो नैव, दूषयेत् अहोऽतिकर्कशोऽयं स्वर इत्यादिना तान् दूषणं दद्यात्, यद्वा तेषु द्वेषकरणेनात्मपरिणामं मलिनीकुर्यादित्यर्थः । स्यादेतत्, सर्वोऽपि सुखप्रियस्तदुपायाभिमुखतया विषयानुपादत्त इत्यनिष्टोपदेशोऽयमिति चेत् ? न सुखप्रियत्वेनैव तत्प्रतिबन्धकविगमोपदेशस्य तदिष्टत्वसम्भवात्, एष च पावकम्मरस आदाणाए इत्यनेनैवाभिहित इत्यालोचनीयम् । वस्तुतस्तु शिवसुखस्यैव परमार्थसुखतया तत्प्राप्त्युपायोपदेशत्वेनास्येष्टत्वमेव, विषयसङ्गादेरेव दुःखात्मसंसारहेतुत्वाच्चेत्याह दुदंता इंदिया पंच, संसाराए सरीरिणं । = ते च्चेव णियमिया संता, णेज्जाणाए भवंति हि ।। ।।१६-३।। दुर्दान्तानि - अत्युच्छृंखलतया दमयितुमशक्यानि पञ्चस्पर्शादीनि पञ्चसङ्ख्यानि इन्द्रियाणि हृषीकाणि, शरीरिणाम् जीवानाम्, संसाराय भवन्ति । तान्येव नियमितानि - विषयेभ्यः प्रत्याहृत्य समितिषु नियोजितानि सन्ति हि - अवश्यमेव, निर्वाणाय - मोक्षाय भवन्ति । प्रमाणं चात्र पारमर्षम् अप्पा खलु सययं रक्खियव्वो, सव्विंदिएहिं - - - १८१ १. उपदेशः। २. उत्तराध्ययनवृत्तावयमर्थः । ३ प्राकृत उभयलिङ्गमिन्द्रियपदमिति ध्येयम् । Ashopnisad_2.p65 2nd Proof १८२ • आर्षोपनिषद् - N सुसमाहिएहिं । अरक्खिओ जाइपहं उवेइ, सुरक्खिओ सव्वदुहाण मुच्चइ - इति' । अत्र बीजमाह दुदंते इंदिए पंच, राग-दोसपरंगमे । कूर्मपक्षे कुम्मो विव सअंगाई, सए देहम्मि साहरे । । १६ -४॥ दुर्दान्तानि पञ्चेन्द्रियाणि रागद्वेषयोः परां कक्षां सङ्क्लेशातिशयापादनेन गमयन्तीति रागद्वेषपराङ्गमानि, एतेनैतेषां भवहेतुतोक्ता, भवबीजाङ्कुरजनना रागाद्याः - इति वचनात् । तस्मात् कूर्म्म इव - कच्छपवत्, स्वाङ्गानि - मुखपादलक्षणानि, आत्मपक्षे विषयप्रवृत्तिजनितोपयोगलक्षणानि, स्वके निजे, देहे कूर्मपक्षे कवचावच्छिन्नशरीरभागे, आत्मपक्षे - आत्मन्येव, पार्थिवशरीरस्य तदीयताऽयोगात्, अत्यन्तं भिन्नत्वात् । अत आत्मैवात्मशरीरम् संहरेत् संहृतानि कुर्यात् । यथाभिहितम् - प्रच्याव्य विषयेभ्योऽहं, मां मयैव मयि स्थितम् । बोधात्मानं प्रपन्नोऽस्मि, परमानन्दनिर्वृतम् - इति । यद्वेन्द्रियाण्येवात्मपक्षेऽङ्गानि कथञ्चित्तदभिन्नत्वात्, उक्तं च - यदा संहरते चायं कूर्मोऽङ्गानीव सर्वतः । इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता - इति । न चेन्द्रियनाश एव कर्तव्यः, तत एवैकान्तिकप्रत्याहारसम्भवादिति वाच्यम्, एकेन्द्रियाणामपि तदापत्तेः, रागादिहानस्यैव परमार्थप्रत्याहारत्वाच्च, उक्तं च - न सक्का रूवमद १. दशवैकालिके ।। चू. २ ।। २. महादेवस्तोत्रे ।। ४४ ।। ३ दृश्यतामध्यात्मसारे । ।१८३८ । । नियमसारे । । ९६ ।। ४. समाधितन्त्रे । । ३२ ।। ५. अध्यात्मसारे । ।१६-६७ ।। भगवद्गीतायाम् ।।२-५८ ।। - -

Loading...

Page Navigation
1 ... 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141