________________
70 ऋषिभाषितानि
एवं मनोज्ञरूपादिष्वपि चक्षुरादिविषयप्राप्तेषु भावनीयमित्यतिदेष्टि एवं रूपेषु गन्धेषु रसेषु स्पर्शेषु । एवं विपरीतेषु अमनोज्ञेषु शब्दादिषु श्रोत्रादिविषयप्राप्तेषु, नो नैव, दूषयेत् अहोऽतिकर्कशोऽयं स्वर इत्यादिना तान् दूषणं दद्यात्, यद्वा तेषु द्वेषकरणेनात्मपरिणामं मलिनीकुर्यादित्यर्थः ।
स्यादेतत्, सर्वोऽपि सुखप्रियस्तदुपायाभिमुखतया विषयानुपादत्त इत्यनिष्टोपदेशोऽयमिति चेत् ? न सुखप्रियत्वेनैव तत्प्रतिबन्धकविगमोपदेशस्य तदिष्टत्वसम्भवात्, एष च पावकम्मरस आदाणाए इत्यनेनैवाभिहित इत्यालोचनीयम् । वस्तुतस्तु शिवसुखस्यैव परमार्थसुखतया तत्प्राप्त्युपायोपदेशत्वेनास्येष्टत्वमेव, विषयसङ्गादेरेव दुःखात्मसंसारहेतुत्वाच्चेत्याह
दुदंता इंदिया पंच, संसाराए सरीरिणं ।
=
ते च्चेव णियमिया संता, णेज्जाणाए भवंति हि ।। ।।१६-३।। दुर्दान्तानि - अत्युच्छृंखलतया दमयितुमशक्यानि पञ्चस्पर्शादीनि पञ्चसङ्ख्यानि इन्द्रियाणि हृषीकाणि, शरीरिणाम् जीवानाम्, संसाराय भवन्ति । तान्येव नियमितानि - विषयेभ्यः प्रत्याहृत्य समितिषु नियोजितानि सन्ति हि - अवश्यमेव, निर्वाणाय - मोक्षाय भवन्ति । प्रमाणं चात्र पारमर्षम् अप्पा खलु सययं रक्खियव्वो, सव्विंदिएहिं
-
-
-
१८१
१. उपदेशः। २. उत्तराध्ययनवृत्तावयमर्थः । ३ प्राकृत उभयलिङ्गमिन्द्रियपदमिति ध्येयम् ।
Ashopnisad_2.p65 2nd Proof
१८२
• आर्षोपनिषद् - N सुसमाहिएहिं । अरक्खिओ जाइपहं उवेइ, सुरक्खिओ सव्वदुहाण मुच्चइ - इति' । अत्र बीजमाह
दुदंते इंदिए पंच, राग-दोसपरंगमे ।
कूर्मपक्षे
कुम्मो विव सअंगाई, सए देहम्मि साहरे । । १६ -४॥ दुर्दान्तानि पञ्चेन्द्रियाणि रागद्वेषयोः परां कक्षां सङ्क्लेशातिशयापादनेन गमयन्तीति रागद्वेषपराङ्गमानि, एतेनैतेषां भवहेतुतोक्ता, भवबीजाङ्कुरजनना रागाद्याः - इति वचनात् । तस्मात् कूर्म्म इव - कच्छपवत्, स्वाङ्गानि - मुखपादलक्षणानि, आत्मपक्षे विषयप्रवृत्तिजनितोपयोगलक्षणानि, स्वके निजे, देहे कूर्मपक्षे कवचावच्छिन्नशरीरभागे, आत्मपक्षे - आत्मन्येव, पार्थिवशरीरस्य तदीयताऽयोगात्, अत्यन्तं भिन्नत्वात् । अत आत्मैवात्मशरीरम् संहरेत् संहृतानि कुर्यात् । यथाभिहितम् - प्रच्याव्य विषयेभ्योऽहं, मां मयैव मयि स्थितम् । बोधात्मानं प्रपन्नोऽस्मि, परमानन्दनिर्वृतम् - इति ।
यद्वेन्द्रियाण्येवात्मपक्षेऽङ्गानि कथञ्चित्तदभिन्नत्वात्, उक्तं च - यदा संहरते चायं कूर्मोऽङ्गानीव सर्वतः । इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता - इति ।
न चेन्द्रियनाश एव कर्तव्यः, तत एवैकान्तिकप्रत्याहारसम्भवादिति वाच्यम्, एकेन्द्रियाणामपि तदापत्तेः, रागादिहानस्यैव परमार्थप्रत्याहारत्वाच्च, उक्तं च - न सक्का रूवमद १. दशवैकालिके ।। चू. २ ।। २. महादेवस्तोत्रे ।। ४४ ।। ३ दृश्यतामध्यात्मसारे । ।१८३८ । । नियमसारे । । ९६ ।। ४. समाधितन्त्रे । । ३२ ।। ५. अध्यात्मसारे । ।१६-६७ ।। भगवद्गीतायाम् ।।२-५८ ।।
-
-