________________
- १७९
नर-ऋषिभाषितानि___ केनैवमुदितमित्याह- सोरियायणेनार्हतर्षिणोदितम्। नन्वतिदुष्करतयाऽशक्यप्रायमिदम्, दुःसहा विषयास्तावदित्युक्तेः । अतः - तं कहमिति तत् कथं सम्भवतीति प्रश्नः, अत्रोत्तरयति
मणुण्णेसु सद्देसु सोयविसयपत्तेसु णो सज्जेज्जा णो रज्जेज्जा णो गिज्झेज्जा णो मुझेज्जा णो विणिघायमावज्जेज्जा। मण्णुण्णेसु सद्देसु सोत्तविसयपत्तेसु सज्जमाणे रज्जमाणे गिज्झमाणे मुज्झमाणे आसेवमाणे विष्यवहतो पावकम्मस्स आदाणाए भवति। तम्हा मणुण्णाऽमणुण्णेसु सद्देसु सोयविसयपत्तेसु णो सज्जेज्जा णो रज्जेज्जा णो गिज्झेज्जा णो मुझेज्जा णो आसेवमाणे वि(प्पवहतो... भवेज्जा)। एवं रूवेसु गंधेसु रसेसु फासेसु। एवं विवरीएसु णो दूसेज्जा ॥१६-२॥
मनसा सुन्दरतया ज्ञायन्त इति मनोज्ञाः-इष्टाः, तेषु शब्देषु, श्रोत्रे - कर्णाख्येन्द्रिये विषयतया प्राप्तेषु नो सज्येत्-नैवाभिलाषं कुर्यात्, इषच्छूतेषु स्पष्टतरश्रुतये, नो रज्येत्-नैव रागं कुर्यात् १. योगसारे ।।४-८ ।। २. क - गिज्झमाणे अज्झोवमाणे विप्पणिहतो पा० अज्झोवाणो । ज-ख- गिज्जमाणो सुज्जमाणो असोवमाणो विप्पमहतो पा०। ग - गिज्झमाणे सुमणो आसेवमाणे विप्पवहतो पा० णो सुमणे अण्णेऽवि। घ-झ- गिज्झमाणे मुज्झमाणे आसेवमाणे विप्पवहतो पा० वि(प्पवहतो... भवेज्जा) च - गिज्झमाणे सुमणो आसेवमाणे विप्पवहतो पा० णो सुमणो अपणे अवि। प- न गिज्झमाणे असोवमाणे विप्पवहतो पा० सुणो अणोवि । अत्र स्थाने हस्तप्रतिषु प्रायः सङ्क्षपेण णोगि णोमु णोअ णोवि - इति लिखितं वर्तते यदवगमविरहेणान्यथा विभज्य पाश्चात्यादर्शपु मुद्रितप्रतिषु च पाठवैचित्र्यमुपलभ्यत इत्याशके ।
१८०
आर्षोपनिषद्-50 स्पष्टतया श्रुतेष्वहो सुन्दरा एते - इत्यादिलक्षणां प्रीतिमुपेयात्। नो गृध्येत् - नैव तदेकाध्यवसिततयाऽभिष्वङ्गप्रकर्षमुपेयात्। नो मुह्येत् - नैव तद्वशितयाऽऽत्महिताहितानभिज्ञो भवेत्। किमुक्तं भवति - नो - नैव, ज्ञानवैराग्यात्मकात्मपरिणामस्य विशेषण अभिलाषातिशयेन, नितराम् - सानुबन्धदुर्विपाकत्वेनात्यन्तम्, घातम् - हिंसनमापद्येत - उपगच्छेत्।
उक्तनिषेधहेतुमाह- मनोज्ञेषु शब्देषु श्रोत्रविषयतया प्राप्तेषु सज्यन् रज्यन् गृध्यन् मुह्यन्, अत एव तान् आसमन्तात् - तीव्रसङ्क्लेशेन सेवमानः - स्वोपभोगविषयीकुर्वन्, विशेषेणसङ्गादिजनितसङ्क्लेशेन, प्रकर्षतः सानुबन्धभावतः, वहतः - आत्मप्रदेशेष्वाश्रवतः पापकर्मण आदानाय भवति, विषयसङ्गादिविकृतात्मैव पापकर्मादानहेतुर्भवतीत्यर्थः। तस्मान्मनोज्ञामनोज्ञेषु शब्देषु श्रोत्रविषयतया प्राप्तेषु नो सज्येदित्यादि प्राग्वत्। नवरममनोज्ञेषु शब्देषु श्रोत्रविषयप्राप्तेषु सङ्गादिनिषेधस्तद्वेषस्यापीतररागविजृम्भिततया तत्प्राप्तौ मनोज्ञशब्दस्मृत्यादिकृतरागनिषेधपरो ज्ञातव्यः, पुरुषान्तरापेक्षया वाऽमनोज्ञेषु सङ्गादिनिषेधोऽवगन्तव्यः, यदाह- एकस्य विषयो यः स्यात्, स्वाभिप्रायेण पुष्टिकृत् । अन्यस्य द्वेष्यतामेति, स एव मतिभेदतः- इति । स्वस्यैव वा कालान्तरे रुचिविपर्यासादेर्मनोज्ञेतरविपर्यासो द्रष्टव्यः, यथोक्तम्तानेवार्थान् द्विषतस्तानेवार्थान् प्रलीयमानस्य। निश्चयतोऽस्यानिष्टं न विद्यते किञ्चिदिष्टं वा - इति । १. अध्यात्मसारे ।।९-४ ।। २. प्रशमरतौ । ५२ ।।
Ashopnisad 2.p65
2nd Proof