Book Title: Rushibhashitani Part 1
Author(s): 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 108
________________ ऋषिभाषितानि १७१ दुष्पडिक्कंताणं वेयइत्ता मोक्खो, नत्थि अवेयइत्ता, तवसा वा झोसइत्ता - इति' । आदायेत्यभिधानात्तद्विधानप्रसङ्ग इति चेत् ? न, अप्राप्ते विधिरिति न्यायाद्वर्जन एव विधितात्पर्यावगमात् पापबन्धस्य तु सर्वसंसारिणां प्रागेव सिद्धतया प्राप्तत्वात्, 'पावघाते हतं दुक्ख'इत्यादिपूर्वापरवचनविमर्शेन पापादाने तात्पर्यासम्भवाच्च । ततोप्राप्ते पापवर्जन एव विधिर्बोध्यः । प्रकारान्तरेण पापवर्जनमुपदेष्टि संते जम्मे पसूयंति, वाहि- सोग - जरादओ । नासंते डहते वण्ही, तरुच्छेत्ता ण छिंदति । । १५ - २२ ।। जन्मनि सति शरीरितया जीवपर्यायप्रादुर्भावे विद्यमान एव, व्याधिः - रोगः, शोकः - इष्टवियोगादिसमुद्भूतः खेदः, जरा- वृद्धावस्था, एता आदौ येषामाक्रोशवधमरणादीनां ते व्याधिशोकजरादयः, एते च दुःखतया प्रसिद्धाः । तत्र व्याधिदुःखं, यथा - जीवो वाहिविलुत्तो, सफरो इव निज्जले तडफड । सयलो वि जणो पिच्छइ, को सक्को वेयणाविगमे ? - इति । शोको यथा रमणीविरहेण वह्निना, बहुबाप्पानिलदीपितेन यत्। त्रिदशैर्दिवि दुःखमाप्यते, घटते तत्र कथं सुखस्थितिः इति । वलिसन्ततमस्थिशेषितं, शिथिलस्नायुधृतं कलेवरम् । स्वयमेव पुमान् जुगुप्सते, किमु कान्ता कमनीयविग्रहा ? ।। नदीकूलं भित्त्वा कुवलयवदुत्पाट्य सुतरून्, जरा यथा - - - - १. दशवैकालिके ।।२ । । चू. १।। २. वैराग्यशतके ।। २० ।। ३ अध्यात्मसारे । ।७१९ ।। ४. वियोगिनीवृत्तम् । Ashopnisad_2.p65 2nd Proof • आर्षोपनिषद् - मदोन्मत्तान् हत्वा करचरणदन्तैः प्रतिगजान्। जरां प्राप्यानाय तरुणजनविद्वेषजननीं, स एवायं नागः सहति कलभेभ्यः परिभवम् - इति । १७२ तदेषां सर्वेषामपि प्रसूतिर्जन्मनि सत्येवेत्याह- सति जन्मनि प्रसूयन्ते इति । तस्मादजन्मनि यतितव्यम्, उक्तं च - मृत्योर्बिभेषि किं बाल !, स च भीतं न मुञ्चति । अजातं नैव गृह्णाति, कुरु यनमजन्मनि इति । जरादिशीतस्य जन्मानुकूलवर्त्तिता बुधानां शोच्या, त्रपावहा च स्वस्य तदाह जरामरणदौर्गत्यव्याधयस्तावदासताम्। मन्ये जन्मैव धीरस्य, भूयो भूयस्त्रपावहम् - इति । - स्यादेतत्, यद्यजन्मन्यपि व्याध्यादिसद्भावः स्यात्तदा तदर्थाभियोगवैफल्यम्, न च तत्र तत्सद्भावे बाधकमुत्पश्याम इति चेत् ? न, अस्त्येव बाधकमित्याशयेन निदर्शनमेवाह- वह्निः - अग्निः, असतः - अविद्यमानान् पदार्थान्, न नैव, दहति प्लोषति । दृष्टान्तान्तरमाह - तरुच्छेत्ता वृक्षछेदको रथकारप्रभृतिः, न छिनत्ति, असतः पादपानिति गम्यते । असतो दाहादिक्रियागोचरत्वासम्भवात् । यत एवं ततः - दुक्खं जरा य मच्चू य, सोगो माणावमाणणा । जन्मघाते हता होंती, पुण्फघाते जहा फलं । । १५ - २३ ।। दुःखम् - रोगादिलक्षणम्, जरा-वार्द्धक्यम्, मृत्युः- मरणम्, चौ समुच्चये, शोकः-शोचनम्, मानापमानना - सत्कारादय आक्रोशादयश्च एते सर्वेऽपि जन्मघाते एकान्तिकात्यन्ति १. शिखरिणिवृत्तम् । उद्धृतमिदं दशवैकालिकचूर्णी ।। पृ.२३० ।।

Loading...

Page Navigation
1 ... 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141