________________
ऋषिभाषितानि
१७१
दुष्पडिक्कंताणं वेयइत्ता मोक्खो, नत्थि अवेयइत्ता, तवसा वा झोसइत्ता - इति' ।
आदायेत्यभिधानात्तद्विधानप्रसङ्ग इति चेत् ? न, अप्राप्ते विधिरिति न्यायाद्वर्जन एव विधितात्पर्यावगमात् पापबन्धस्य तु सर्वसंसारिणां प्रागेव सिद्धतया प्राप्तत्वात्, 'पावघाते हतं दुक्ख'इत्यादिपूर्वापरवचनविमर्शेन पापादाने तात्पर्यासम्भवाच्च । ततोप्राप्ते पापवर्जन एव विधिर्बोध्यः । प्रकारान्तरेण पापवर्जनमुपदेष्टि
संते जम्मे पसूयंति, वाहि- सोग - जरादओ । नासंते डहते वण्ही, तरुच्छेत्ता ण छिंदति । । १५ - २२ ।। जन्मनि सति शरीरितया जीवपर्यायप्रादुर्भावे विद्यमान एव, व्याधिः - रोगः, शोकः - इष्टवियोगादिसमुद्भूतः खेदः, जरा- वृद्धावस्था, एता आदौ येषामाक्रोशवधमरणादीनां ते व्याधिशोकजरादयः, एते च दुःखतया प्रसिद्धाः । तत्र व्याधिदुःखं, यथा - जीवो वाहिविलुत्तो, सफरो इव निज्जले तडफड । सयलो वि जणो पिच्छइ, को सक्को वेयणाविगमे ? - इति । शोको यथा रमणीविरहेण वह्निना, बहुबाप्पानिलदीपितेन यत्। त्रिदशैर्दिवि दुःखमाप्यते, घटते तत्र कथं सुखस्थितिः इति । वलिसन्ततमस्थिशेषितं, शिथिलस्नायुधृतं कलेवरम् । स्वयमेव पुमान् जुगुप्सते, किमु कान्ता कमनीयविग्रहा ? ।। नदीकूलं भित्त्वा कुवलयवदुत्पाट्य सुतरून्,
जरा यथा
-
-
-
-
१. दशवैकालिके ।।२ । । चू. १।। २. वैराग्यशतके ।। २० ।। ३ अध्यात्मसारे । ।७१९ ।। ४. वियोगिनीवृत्तम् ।
Ashopnisad_2.p65 2nd Proof
• आर्षोपनिषद् - मदोन्मत्तान् हत्वा करचरणदन्तैः प्रतिगजान्। जरां प्राप्यानाय तरुणजनविद्वेषजननीं, स एवायं नागः सहति कलभेभ्यः परिभवम् - इति ।
१७२
तदेषां सर्वेषामपि प्रसूतिर्जन्मनि सत्येवेत्याह- सति जन्मनि प्रसूयन्ते इति । तस्मादजन्मनि यतितव्यम्, उक्तं च - मृत्योर्बिभेषि किं बाल !, स च भीतं न मुञ्चति । अजातं नैव गृह्णाति, कुरु यनमजन्मनि इति । जरादिशीतस्य जन्मानुकूलवर्त्तिता बुधानां शोच्या, त्रपावहा च स्वस्य तदाह जरामरणदौर्गत्यव्याधयस्तावदासताम्। मन्ये जन्मैव धीरस्य, भूयो भूयस्त्रपावहम् - इति ।
-
स्यादेतत्, यद्यजन्मन्यपि व्याध्यादिसद्भावः स्यात्तदा तदर्थाभियोगवैफल्यम्, न च तत्र तत्सद्भावे बाधकमुत्पश्याम इति चेत् ? न, अस्त्येव बाधकमित्याशयेन निदर्शनमेवाह- वह्निः - अग्निः, असतः - अविद्यमानान् पदार्थान्, न नैव, दहति प्लोषति । दृष्टान्तान्तरमाह - तरुच्छेत्ता वृक्षछेदको रथकारप्रभृतिः, न छिनत्ति, असतः पादपानिति गम्यते । असतो दाहादिक्रियागोचरत्वासम्भवात् । यत एवं ततः
-
दुक्खं जरा य मच्चू य, सोगो माणावमाणणा । जन्मघाते हता होंती, पुण्फघाते जहा फलं । । १५ - २३ ।।
दुःखम् - रोगादिलक्षणम्, जरा-वार्द्धक्यम्, मृत्युः- मरणम्, चौ समुच्चये, शोकः-शोचनम्, मानापमानना - सत्कारादय आक्रोशादयश्च एते सर्वेऽपि जन्मघाते एकान्तिकात्यन्ति
१. शिखरिणिवृत्तम् । उद्धृतमिदं दशवैकालिकचूर्णी ।। पृ.२३० ।।