________________
नल-ऋषिभाषितानि -
-१७३ कजन्मविनाशे कृते सति, हताः - विनष्टा भवन्ति। अत्राप्युदाहरणमाह- यथा पुष्पघाते - कुसुमविनाशे कृते सति फलं हतं भवति। अतस्तद्धेतोरेवेत्यादिन्यायान् मूलोन्मूलन एव यतितव्यम्। अपरथा तु व्यक्तैव क्लीबवृत्तितेति निदर्शयति
पत्थरेणाऽऽहतो कीवो, खिणं डसइ पत्थरं। मिगारि ऊ सरं पप्प, सरुप्पत्तिं विमग्गति।।१५-२४।।
केनचित् प्रस्तरेण - शिलाशकलेन, आहतः - कृतप्रहारः, क्लीबः - प्रतिप्रहारकातरो विचारालसो वा यः कश्चित्, पक्षिविशेषो वा, क्षिप्रम् - तूर्णमेव, प्रस्तरम् - तमेव शिलाशकलम्, दशति - स्वदन्तप्रहारगोचरीकुरुते। मृगारिस्तु - सिंहस्तु शरम् - स्वस्मिन् प्रहारसाधनं तीरम्, प्राप्य - शरीरदेशे समासन्नस्थाने वाऽधिगम्य, शरस्योत्पत्तिर्यस्मात्तत्-शरोत्पत्ति, कुत एतत् तीरमागतमिति तदुद्भवस्थानं तत्प्रयोक्तारमिति यावत्, विमार्गयति - निपुणमन्वेषयति। शरस्य निमित्तमात्रतया तत्राभियोगस्याफलत्वात्, तदुद्भवनिरासेनैवापायनिराससम्भवाच्च। तदेतद् दृष्टान्तम्, साम्प्रतमुपनयमाह
तहा बालो दुही वत्थु, बाहिरं जिंदती भिसं। दुक्खुप्पत्तिविणासं तु, मिगार व्व ण पप्पति।।
॥१५-२५॥ तथा दुःखनिमित्तमात्राभियुक्ताभियोगतया तदुत्पत्तिविचार
१७४
- आर्षोपनिषद् - शून्यत्वेन बाल इव बालः - अज्ञो जीवः, दुःखी - यत्किञ्चिनिमित्तेन दुःखितः सन् बाह्यं वस्तु दुःखनिमित्तमात्रं दंशमशकादि, भृशं निन्दति - कथं ममाकृतापराधस्यैते मशकादयः पीडामुत्पादयन्तीति धिगस्तु - इत्यादिना तानत्यन्तं परिवदति। तु - किन्तु, मृगारिरिव - अनन्तरोक्तसिंहवत्, दुःखस्योत्पत्तिर्यस्मात् तत् दुःखोत्पत्ति - पापकर्म, तद्विनाशं तु न प्राप्नोति, अलक्षितलक्ष्यस्य तद्वेधासम्भवात्। ततोऽविनाशितनिमित्तस्य बालस्य यद् भवति तदुल्लेखालङ्कारेण स्पष्टयतिवणं वण्हिं कसाए य, अणं जं वा वि दुट्टितं। आमगं च उव्वहंता, दुक्खं पावंति पीवरं।। १५-२६।।
व्रणम् - क्षतम्, वह्निम् - कृशानुम्, कषायान् - क्रोधादीन्, तदुदयार्जितपापकर्माणि वा, च: समुच्चये, ऋणम् - उद्धारम्, आमकम् - रोगं च, यद्वाऽन्यदप्येतादृशं दुःस्थितम् - अनवस्थिततयोपेक्षादिना वृद्ध्यादिशीलम्, तदुद्वहन्तः किमेतस्येषन्मात्रव्रणस्य चिकित्सयेत्यादि - विमर्शेनोपेक्षाविषयीकृत्यैवमेव धारयन्तः, पीवरम्-कष्टजननसामग्रंणात्यन्तमुपचितम्, दुःखम्तत्तद्विपाकोपनीतासुखम्, प्राप्नुवन्ति। तथाहि व्रणमप्रतिकृततयाऽतीव संवृद्धं हस्ताद्यवयवछेदमावहति। वलिरुपेक्षितो गृहप्रदीपनादिविनाशमवतारयति। ऋणं कलावृद्ध्याऽभिवृद्धं सत् सर्वस्ववञ्चितत्वदासत्वादिकमनर्थं विधत्ते। कषाया अप्यनुद्धृताः सन्तोऽनन्तानुबन्धितया परिणम्यानन्तसंसारहेतवो भवन्ति। तस्मात्१. ज्ञाताधर्मकथाङ्गे । ।१-९ ।।
१. तद्धेतोरेवास्तु किं तेनेति न्यायात्। २. अत्रार्थे कीव - इति देश्यशब्द:प्रश्नव्याकरणागे ।।१।।
Ashopnisad_2.p65
2nd Proof