________________
१७०
नल-ऋषिभाषितानिसन्निधानस्य क्षुरप्रादेरिया कण्ठपाशे छेदं कृत्वा सपदि निपतेत्, तत उल्लम्बनवेदनां पतनपीडां चानुभवन् दुःखार्त्तः सन् विलपेत्। अत्र यथा स्वयमेवात्मानमुल्लम्ब्य निपात्य च वेदनाधिसहने प्रतिभग्नतायां दुर्मतितैव, तथा प्रस्तुतेऽपि द्रष्टव्यम्। इतश्चास्य दुर्मतितेत्याहपावं जे उ पकुव्वंति, जीवा साताणुगामिणो। वडती पावकं तेसिं, अणग्गाहिस्स वा अणं।।१५-१९।।
ये तु, सातमेव - सुखमेवोपादेयं मत्वा तदनुगच्छन्ति तन्मार्गणपरा अटन्ति- इति सातानुगामिनो जीवाः, तदधिगमाय पापम् - परपीडोत्पादनम्, तज्जन्यमशुभकर्म वा, तत् प्रकर्षण - स्वसुखमात्रसापेक्षतया परप्राणिपरितापादिलक्षणसङ्क्लेशातिशयेन, कुर्वन्ति - विदधन्ति, तेषां पापकम् - पापानुबन्धित्वेन कुत्सितं पापम्, वर्धते, किरिया अदितॄगंतफला सव्वा - इति वचनात्।
अत्र निदर्शनमाह- वा - यथा ऋणग्राहिण ऋणं वर्धते, लोकप्रसिद्धमेतत्। अत आलोचनीयः परिणामः। परिणामसुन्दरं हि सुन्दरतया विदामिष्टम्, यतः
अणुबद्धमपस्संता, पच्चुप्पण्णगवेसका। ते पच्छा दुक्खमच्छंति, गलुच्छिन्ना झसा जहा।।
॥१५-२०॥ कुकर्मानन्तरं तत्प्रत्ययिककर्मविपाकेनावश्यं प्राप्यमाणतया कुकर्मणो-ऽनु-पश्चाद्भागे बद्धमिव- अनुबद्धम् - दुःख१. विशेषावश्यकभाष्ये । ।१६२३ ।। अवश्यं कर्मलक्षणफलजननीत्यर्थः ।।
- आर्षोपनिषद्मित्यर्थः, तदपश्यन्तः, मोहान्धतया तदनिरीक्षमाणाः, तत् प्रति गजनिमीलिकामवलम्बमाना वा। ___ अत्रैव विशेषणगर्भ हेतुमाह- यतः प्रत्युत्पन्नम् - अर्वाग्भागव्यवस्थिततया पुरो वर्तमानमात्रं निरनुबन्धसुखसाधनम्, तदेव गवेषयन्ति तत्प्राप्त्येकबद्धलक्षतया मार्गयन्तीति प्रत्युत्पन्नगवेषकाः, त एवम्भूताः पश्चात् विपाककाले, दुःखम् - कष्टमात्रं यथा स्यात्तथा, आसते - दारुणावस्थां गता अवतिष्ठन्ते।
एतदेव निदर्शनेन स्पष्टयति - यथा गल:-मत्स्यग्रहणयन्त्रम्, तेनोच्छिन्नाः - संविद्धतालुप्रदेशाः, झषाः - मीनाः। यथा हि ते गलयन्त्रारोपितमांसशकलमात्रगवेषकतया तदनुबद्धमुच्छेदादिदुःखसन्दोहमपश्यन्तस्तालुवेधादिमरणान्ता दुस्सहा वेदना विषहन्ते, तथाऽन्येऽप्येतादृशा इत्यभिप्रायः। एवं च
आता कडाण कम्माणं, आता भुंजति जं फलं। तम्हा आतस्स अट्ठाए, पावमादाय वज्जए।। १५-२१।।
यत् - यस्मात्, आता - इति लुप्ततृतीयान्तत्त्वादात्मना, कृतानाम् - प्राग्विहितानाम्, कर्मणाम् - शुभाशुभानाम्, आत्मा स्वयमेव फलम् - परिणामं भुञ्जति - वेदयति। तस्मात् - अनन्तरोक्तहेतोः, आत्मनोऽर्थाय सुखलक्षण - तत्प्रयोजननिष्पत्तये, पापम् - अशुभकर्म, आदाय-बद्धवाऽपि वर्जयेत् - तपसा क्षपयेत्। अन्यथा वेदनमन्तरेण मुक्तिविरहात्, तथा चार्षम् - पावाणं च खलु भो ! कडाणं कम्माणं पुल्लिं दुच्चिण्णाणं १.हेती यत्तद्यतस्ततः।। अभिधानचिन्तामणी- १५३७ ।।
Ashopnisad_2.p65
2nd Proof