Book Title: Rushibhashitani Part 1
Author(s):
Publisher: Jinshasan Aradhana Trust
View full book text
________________
नल-ऋषिभाषितानि
-१६५ आहारत्थी जहा बालो, वण्ही सप्पं च गेण्हती। तहा मूढो सुहऽत्थी तु, पावमण्णं पकुव्वती।।१५-१४।।
यथाऽऽहारार्थी-भोजनप्रयोजनः, बालः - शिशुः, वह्निम् - जाज्वल्यमानमनलम्, सर्पं च - आशीविषं च गृह्णाति - मत्प्रयोजनसाधकमिदमिति मत्वोपादत्ते, तथा मूढः - पापघाते हतं दुःखमिति सिद्धान्तानभिज्ञः, सुखार्थी - दुःखापनोदप्रयुक्तसुखाभिलाषी, तुः - आश्चर्ये, अन्यम् - यत्फलमिदं दुःखं ततोऽन्यत्, पापम् - असातवेदनीयादि कर्म, प्रकर्षण हिंसादिपरिणतिलक्षणसङ्क्लेशातिशयेन कुर्वति - निकाचनादिकरणविषयीविधत्ते।
अयमाशयः - यथा हि बालः क्षुधादुःखनिवृत्त्यर्थं वह्निसोपादानं कुर्वाणो दाहदंशादिदुःखमेवादत्ते, तथैव सुखार्थितया परपीडादिपापं कुर्वाणोऽपि स्वप्रयोजनविपरीतमेव विचेष्टत इत्यत्र जीवितार्थं कालकूटभक्षणन्यायापातः। इदं पुनर्विपरीततरमित्याह
पावं परस्स कुव्वंतो, हसती मोहमोहितो। मच्छो गलं गसंतो वा, विणिघातं ण पस्सती।।
॥१५-१५॥ मोहः - सुखदुःखनिदानानभिज्ञता, तेन मोहितः - विनष्टविवेकप्रज्ञः, परस्य - स्वभिन्नजीवस्य, पापम्- पीडोत्पादनम्, फले हेतूपचारात्, कुर्वाणः - परितापादिना विदधन्, हसति - अन्तस्तोषं हासेनाभिव्यनक्ति। उक्तं च - येनापत्रपते साधरसाधस्तेन
-आर्षोपनिषद्-50 तुष्यति - इति, न चानुबद्धमपायं पश्यतीति द्वितीया मन्दस्य बालता। एतदेव प्रतिवस्तूपमयाऽऽह- वा - यथा, मत्स्यः - मत्सः, गलम् - मीनग्रहणयन्त्रम्, यत्र झषप्रलोभनाय मांसशकलमारोप्यते, तद् ग्रसन् विनिघातम् - अनन्तरमेव तालुवेधादिहेतुकं स्वसमापनम्, न पश्यति - प्रत्युत्पन्नैकदर्शितया न मतिनेत्रविषयीकुरुते। एतदेवाह
पच्चुप्पण्णरसे गिद्धो, मोहमल्लपणोल्लितो। दित्तं पावति उक्कंथं, वारिमज्ञ व वारणा(णे)।।
॥१५-१६।। प्रत्युत्पन्नरसे - सम्प्राप्तमांसशकलास्वादोद्भूतवर्तमानसुखसंवेदने, गृद्धः-सजाताऽऽसक्त्यतिशयः, तमेव विशेषयतिमोहः - वेदमोहनीयलक्षणमुदितं सङ्क्लिष्टं कर्म,स एव गुणसहस्रनिपातनान् मल्ल इव मल्लः, तेन प्रणोदितःअहितानुबन्धि कार्य प्रति प्रकर्षेण प्रेरितः, दीप्ताम् - अतिशयिताम्, उत्कण्ठाम् - इष्टलाभाय कालासहनरूपामुत्सुकताम्, प्राप्नोति - अधिगच्छति। अत्रार्थ उदाहरणमाह- वारि - हस्तिग्रहणस्थानम्, वारी करिधरणट्ठाणं - इत्युक्तेः । तन्मध्ये वारण इव - हस्तिवत्। स यथा वारिगृहीतो स्वमोक्षाय भृशमुत्कण्ठायते, तथा प्रत्युत्पन्नरसगृद्धस्तत्परिभोगायेति। गजो हि तदुत्कण्ठितस्तथा प्रयतते, यथा वारियन्त्रानुभावेन तद्ग्रहो दुर्मोक्षतामुपयाति, बन्धादिदुःखं चासौ विषहते, एवं प्रत्युत्पन्नरसाऽऽसक्तोऽपि १. पाइअलच्छीनाममालायाम्।
Ashopnisad 2.p65
2nd Proof

Page Navigation
1 ... 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141