Book Title: Rushibhashitani Part 1
Author(s): 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 99
________________ Re-ऋषिभाषितानि दर्शिनाम्। दृष्टात्मनां निवासस्तु विविक्तात्मैव निश्चलः - इति । एतदेव प्रकारान्तरेणोदितम् - मुक्ताग्रहो विनिवसन् सजने वने वा, मुक्तिश्रियं निरूपमामुपयाति भव्यः - इति । प्रमाणं चात्र पारमर्षम् - न मुणीऽरण्णवासेण - इति । ज्ञानादिप्रयोज्ये मुनित्वेऽरण्यादिनिवासोऽप्रयोजक इति हृदयम्। अनूदितं च - नाणेण य मुणी होइ - इति । ___यद्वा ग्राम इति गृहम्, तदवयवत्वेन कथञ्चित्तदभिन्नत्वात्, उपलक्षणाद्वा तद्ग्रहः, तत्रापि तपोऽरण्येऽपि च, यथोक्तम् - वनेऽपि दोषाः प्रभवन्ति रागिणां, गृहेऽपि पञ्चेन्द्रियनिग्रहस्तपः। अकुत्सिते वर्त्मनि यः प्रवर्त्तते, निवृत्तरागस्य गृहं तपोवनम् - इति । एतदभिधानं मिथ्याचारनिवर्तनार्थं संयमसामग्र्यसम्पादनाय च विज्ञेयम्, न तु सति सामर्थे गृहावस्थानायालम्बनम्, तादृशालम्बनस्य प्रमादपर्यवसितत्वेन तत्र मुक्तिसाधकत्वासम्भवात्। एवं च यदि परिणामविशुद्धिरेव न, तदोभयत्रापि तपोविरह एवेत्यात्मसमुत्कर्षस्तु सर्वथा त्याज्यः। स हि व्यक्त एव दुष्परिणामपिशुनः, यदाह - अप्पपसंसणकरणं तिव्वकसायाण लिंगाणि - इति । ततोऽयमेवोभयभ्रंशज्ञापकः। तत्र यतिधर्मभ्रंशः, आत्मसम्भावनया तद्रिक्ततायोगात्, उक्तं च- सुट्ठ वि उज्जममाणं पंचेव करिति रित्तयं समणं। अप्पथुई परनिंदा जिब्भोवत्था कसाया य - इति । गृहिधर्मभ्रंशस्तु तत्रैव १५४ - आर्षोपनिषद् - सम्भाव्यमानानां देवगुरुभक्त्यादियोगानामभावात्। उपलक्षणमेतत्, तेन गुणमात्रभ्रंशोऽपि बोध्यः, यथोक्तम्- अप्पसंसा पुरिसस्स होइ चिंधं सुनिग्गुणत्तस्स - इति । इतश्चोभयभ्रंशः, इहलोकपरलोकभ्रष्टत्वादित्याह- अभिनिश्रयेत् - विषयतयाश्रयीकृत्य पश्येत्। किमित्याह- इमं लोकम् - कुशीलत्वादिदोषदूषिततया प्रत्यक्षं वर्तमानभवम्। तथा प्रकर्षण - कन्दर्पादिभावनाफलप्रतिपादकागमचक्षुर्बलेन, निश्रयेत् - विषयतयाऽऽलम्ब्य पश्येत्। किमित्याह- परलोकम् - दुर्गतिदुःखनिचितं प्रेत्यभवम्। फलितमाह - उभयतोऽपि लोकोऽप्रतिष्ठितः सुखांशमात्रव्यवस्थानविरहितः, उक्तं च - इमे वि से नत्थि परे वि लोए दुहओ वि से झिज्जइ तत्थ लोए - इति । तदेषा वेशविडम्बिनो मुमुक्षुतामोक्षप्रसूता विडम्बना। ___ अत्राह कश्चित् - अहमुभयलोकनिष्पिपासः, यदि भवमोक्षयोरपि निष्कामतैव श्रेयसी, तदेहलोकादेस्तु का वार्तेति। तदाहमोक्षे भवे च सर्वत्र निःस्पृहो मुनिसत्तमः - इति । अत्र स्वानुभवकथनेनोत्तरयति - अकामकः - भवादृश उभयलोकनिष्पिपासः, बाहुक इत्यात्मनिर्देशः, मृत इति - अकाम-कत्वविशिष्टपर्यायतया ममाभावः सञ्जात इत्याशयः। प्रशस्त-कामानां दशाविशेष उपादेयत्वात्, यथोक्तम् - दुक्खखओ कम्मक्खओ समाहिमरणं च बोहिलाभो । संपज्जउ मह एयं तुह १. समाधितन्त्रे । ७३ ।। २. इष्टोपदेशे। ५१ ।। ३. उत्तराध्ययने ।।२५-२९ ।। ४. उत्तराध्ययने ।।२५-३०।। ५. पुरुषार्थसिद्धयुपाये ।। ६. उपदेशमालायाम् । १७२ ।। १. आराधनापताकायाम् ।।२१५ ।। २. उत्तराध्ययने । ।२०-४९ ।। ३. योगशतके ।।२०।। वृत्तावुद्धृतम् ।

Loading...

Page Navigation
1 ... 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141