Book Title: Rushibhashitani Part 1
Author(s): 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 101
________________ ऋषिभाषितानि सकामए पव्वइए, सकामए चरते तवं सकामए कालगते णरगे पत्ते । सकामए चरते तवं, सकामए कालगते - सिद्धिं पत्ते सकामए । । १४-४॥ १५७ सकामकः - विषयाशंसासहितः, प्रव्रजितः सन् सकामकः ऐहिकाद्याशंसाकलङ्कितः, तपः- शरीरसन्तापकमनुष्ठानम्, चरति - आसेवते । एतेन कर्मणां तापनात्तपः इति मुख्यतपस्त्वमस्य निरस्तम्। न चैवमनेन निर्जरानुपपत्तिप्रसङ्ग इति वाच्यम्, निर्जराभावेऽपि परमार्थतोऽस्य बन्धात्मकत्वात्, निरनुबन्धत्वात्, यदाह - सिद्ध्यन्तरं न सन्धत्ते, या साऽवश्यं पतत्यधः । तच्छक्त्याऽप्यनुविद्धैव, पातोऽसौ तत्त्वतो मतः इति । अज्ञानतपोनिर्जराया निरनुबन्धताऽप्यागमसिद्धा, सकृद्दिव्यगतिमात्रफलत्वोक्तेः, तदुक्तम् – ते णं भंते ! देवा परलोगस्साराहगा ? णो इणट्ठे समट्ठे - इति । - अत्र तपः क्रियासामान्येऽपि फलविशेषः, आशयविशेषात्, अन्वाह - अभिसन्धेः फलं भिन्नमनुष्ठाने समेऽपि हि । परमोऽतः स एवेह वारीव कृषिकर्मणि - इति । तथा कामः - लोकसत्कारादिमूर्च्छया जीवितवाञ्छा, तदभावरोगादिना मरणमनोरथश्च तदन्यतरेण सहितः सकामकः, स कालगत: - बालमरणेन मृतः सन् नरकान् प्राप्तः पुनः पुनर्नरकादिदुःखभाग् भवति, शल्यादिनिभत्वात् कामानाम्, उक्तं १. योगबिन्दी । । २३४ ।। २ औपपातिके। सू. ३८ ।। ३. योगदृष्टिसमुच्चये । ।११८ ।। १५८ आर्षोपनिषद् च - सल्लं कामा विसं कामा, कामा आसीविसोवमा । कामे य पत्थेमाणा अकामा जंति दुग्गइं - इति । निर्जराभिलाषलक्षणस्तु काम एव साध्यसाधक इत्याह - सकामकः - अकामकामितया सकामः, अकामश्च मोक्षाभिलाषः, तत्र सकलाभिलाषनिवृत्तेः, तं कामयत इत्यकामकामी, स्वभावभिन्ने निःस्पृह इत्यर्थः, यथोक्तम् स्वभावलाभात् किमपि प्राप्तव्यं नावशिष्यते । इत्यात्मैश्वर्यसम्पन्नो निःस्पृहो जायते मुनिरिति । एवम्भूतस्तपश्चरति । तथा सकाम इव सकाम:, मरणभयाभावात् , कालगतः परिनिर्वाणमुपयातः सन्, सकामकः - लोकाग्रव्यवस्थितां सिद्धिगतिं प्रति गमनक्रियापरिणतत्वेन सकाम इव सकामः, सकामस्यैव लोके गमनादिक्रियादर्शनादिति भावः । वस्तुतस्तु सर्वथा कृतकृत्यतया निष्काम एवासौ । सिद्धिं - मुक्तिगतिं प्राप्तः - उपगतो भवति । तन्मुक्तिरप्यणिमादिसिद्धिक्रमेण सम्भवतीत्याह एवं से सिद्धे बुद्धे विरए विपावे दंते दविए अलंताई पुरवि इच्चत्थं हव्वमागच्छति त्ति बेमि । । एवमित्यादि प्राग्वत्। इति चतुर्दशे बाहुकनामाध्ययन आर्षोपनिषद् । - 9 उत्तराध्ययने । । ९-५३ ।। २. ज्ञानसारे । । १२-१ ।। ३ उत्तराध्ययने ।।५-३१३२ ।। वृत्तौ ।

Loading...

Page Navigation
1 ... 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141