________________
ऋषिभाषितानि
सकामए पव्वइए, सकामए चरते तवं सकामए कालगते णरगे पत्ते । सकामए चरते तवं, सकामए कालगते - सिद्धिं पत्ते सकामए । । १४-४॥
१५७
सकामकः - विषयाशंसासहितः, प्रव्रजितः सन् सकामकः ऐहिकाद्याशंसाकलङ्कितः, तपः- शरीरसन्तापकमनुष्ठानम्, चरति - आसेवते । एतेन कर्मणां तापनात्तपः इति मुख्यतपस्त्वमस्य निरस्तम्। न चैवमनेन निर्जरानुपपत्तिप्रसङ्ग इति वाच्यम्, निर्जराभावेऽपि परमार्थतोऽस्य बन्धात्मकत्वात्, निरनुबन्धत्वात्, यदाह - सिद्ध्यन्तरं न सन्धत्ते, या साऽवश्यं पतत्यधः । तच्छक्त्याऽप्यनुविद्धैव, पातोऽसौ तत्त्वतो मतः इति । अज्ञानतपोनिर्जराया निरनुबन्धताऽप्यागमसिद्धा, सकृद्दिव्यगतिमात्रफलत्वोक्तेः, तदुक्तम् – ते णं भंते ! देवा परलोगस्साराहगा ? णो इणट्ठे समट्ठे - इति ।
-
अत्र तपः क्रियासामान्येऽपि फलविशेषः, आशयविशेषात्, अन्वाह - अभिसन्धेः फलं भिन्नमनुष्ठाने समेऽपि हि । परमोऽतः स एवेह वारीव कृषिकर्मणि - इति ।
तथा कामः -
लोकसत्कारादिमूर्च्छया जीवितवाञ्छा, तदभावरोगादिना मरणमनोरथश्च तदन्यतरेण सहितः सकामकः, स कालगत: - बालमरणेन मृतः सन् नरकान् प्राप्तः पुनः पुनर्नरकादिदुःखभाग् भवति, शल्यादिनिभत्वात् कामानाम्, उक्तं
१. योगबिन्दी । । २३४ ।। २ औपपातिके। सू. ३८ ।। ३. योगदृष्टिसमुच्चये । ।११८ ।।
१५८
आर्षोपनिषद्
च - सल्लं कामा विसं कामा, कामा आसीविसोवमा । कामे य पत्थेमाणा अकामा जंति दुग्गइं - इति । निर्जराभिलाषलक्षणस्तु
काम एव साध्यसाधक इत्याह -
सकामकः - अकामकामितया सकामः, अकामश्च मोक्षाभिलाषः, तत्र सकलाभिलाषनिवृत्तेः, तं कामयत इत्यकामकामी, स्वभावभिन्ने निःस्पृह इत्यर्थः, यथोक्तम् स्वभावलाभात् किमपि प्राप्तव्यं नावशिष्यते । इत्यात्मैश्वर्यसम्पन्नो निःस्पृहो जायते मुनिरिति । एवम्भूतस्तपश्चरति । तथा सकाम इव सकाम:, मरणभयाभावात् , कालगतः परिनिर्वाणमुपयातः सन्, सकामकः - लोकाग्रव्यवस्थितां सिद्धिगतिं प्रति गमनक्रियापरिणतत्वेन सकाम इव सकामः, सकामस्यैव लोके गमनादिक्रियादर्शनादिति भावः । वस्तुतस्तु सर्वथा कृतकृत्यतया निष्काम एवासौ । सिद्धिं - मुक्तिगतिं प्राप्तः - उपगतो भवति । तन्मुक्तिरप्यणिमादिसिद्धिक्रमेण सम्भवतीत्याह
एवं से सिद्धे बुद्धे विरए विपावे दंते दविए अलंताई पुरवि इच्चत्थं हव्वमागच्छति त्ति बेमि । । एवमित्यादि प्राग्वत्।
इति चतुर्दशे बाहुकनामाध्ययन आर्षोपनिषद् ।
-
9
उत्तराध्ययने । । ९-५३ ।। २. ज्ञानसारे । । १२-१ ।। ३ उत्तराध्ययने ।।५-३१३२ ।। वृत्तौ ।