________________
Re-ऋषिभाषितानि -
१५५ नाह पणामकरणेणं - इति । सर्वत्र निःस्पृहतायास्त्वभ्यासदशायामसम्भव इति विशेषविषयतया तत्सूत्रं समाधेयम्, एतच्च तत्रैव 'मुनिसत्तम' इत्यनेन ध्वनितमित्यलं प्रपञ्चेन। ____ ततोऽसौ बाहुकोऽर्हतर्षिराचष्टे - अचरमावर्तादिवर्तितया यत्प्रागहमकामोऽभवम्, न साम्प्रतमहं तादृशः, यतो यः कश्चित् अकामकः - निर्जरानभिलाषी, तपश्चरति, स सत्प्रणिधानशून्यतया सम्मूर्छिमसङ्काशो वृथैव कायकष्टं विषहते, सत्प्रणिधानं तु सर्वत्रावश्यकम्, उक्तं च - एतच्चेह प्रवरं कृषिकर्मणि सलिलवज्ज्ञेय - मिति । ज्ञापकश्चात्रागमः - वेएज्ज निज्जरापेही - इति। अतो निष्प्रणिधानः सोऽकामकः, अवश एव कालगतः बालमरणेन मृत्युमुपगतः, यथोक्तम्- बालाणं अकामं तु मरणं असई भवे - इति । अकामता च भयभीतत्वेन मृत्यूद्विग्नत्वात्, उक्तं च - तओ से मरणंतमि बाले संतसइ भया। अकाममरणं मरइ धुत्ते व कलिणा जिए - इति । एवं चासौ मृतः सन् नरकं प्राप्तो भवति। अकामकस्य मुक्त्यभिलाषादिशून्यतया संवेगनिर्वेदरहितस्य प्रायः श्रामण्यविराधनासम्भवात्, तद्विराधनायाश्च नरकादि-हेतुत्वात्, यदागमः - संधावई नरग तिरिक्खजोणिं मोणं विराहेत्तु असाहुरूवे - इति । न च कथं संयतस्यापि नरक इति वाच्यम्, दुर्गृहीतशस्त्रादिवद्विराधनस्य प्रत्यपायफलत्वात्। तदाह- दुर्गृहीतं यथा काण्डं हस्तमेवावकृन्तति।
१५६
- आर्थोपनिषद् - श्रामण्यं दुष्परामृष्टं नरकानुपकर्षति - इति । तथा चार्षम् - विसं तु पीयं जह कालकूड हणाइ सत्थं जह कुग्गहीयं। एसो वि धम्मो विसओववन्नो हणाइ वेयाल इवाविवन्नो - इति । अत एवाहुराचार्याः - नाज्ञाविराधनतोऽन्योऽनर्थः - इति । अतो युक्तमुक्तं नरकं पत्ते - इति।।
यस्तु विषयसुखस्पृहारहिततयाऽकामः, तमुद्दिश्याहअकामए पब्वइए अकामते चरते तवं। अकामए कालगए सिद्धिं पत्ते अकामए।।१४-३।।
अकामकः - इच्छामदनकामरहितः, प्रव्रजितः - दीक्षितः, अकामकः - ऐहिकपूजाद्यभीप्साविनिर्मुक्तः, चरति तपः अनशनादिव्युत्सर्गान्तमनुष्ठानम्, नो इहलोगट्ठयाए तवमहिट्ठिज्जा - इत्यागमवचोऽनुस्मरन्, अत्रापि सर्वत्र विषयसुखवाञ्छनौवैहिकाद्यनिषेधोऽवगन्तव्यः। कामः - अनशनसमये लोककृतसत्कारादिप्रसक्तस्य जीविताशंसा, अनशनादिदुःखनिर्विण्णस्य मरणाशंसा च, ताभ्यां रहितः - अकामकः, जीवियं नाभिकंखेज्जा मरणं नावि पत्थए। दुहओ वि न सज्जिज्जा जीविए मरणे तहा - इत्यादि - प्रवचनपरिणतिसम्पन्नतया निष्काम इत्यर्थः। स एवम्भूतः कालगतः - निर्वाणमापन्न: सन् अकामकः प्राप्तप्राप्तव्यतया काममात्रविरहितः, सिद्धिम् - मुक्तिगतिम्, प्राप्तः - उपगतो भवति। तदितरमाह१. पञ्चवस्तुकवृत्तौ ।। २. उत्तराध्ययने ।।२०-४४ ।। ३. पञ्चसूत्रवृत्तौ ।।३।। ४. ०अर्थतपोनिषेधो वक्तव्य इति चेत् ? न, सविशेषणे हीत्यादिनीत्या ऐहिकाद्यर्थलक्षणविशेषण एव निषेधसक्रमात् ।
१. प्रार्थनासूत्रे ।।४।। २. षोडशके ।।१४-२।। ३. उत्तराध्ययने ।। २-३९।। ४. उत्तराध्ययने ।।५-३ ।। ५. उत्तराध्ययने ।।५-१६।। ६. उत्तराध्ययने । ।२०-४६ ।।