________________
Re-ऋषिभाषितानि दर्शिनाम्। दृष्टात्मनां निवासस्तु विविक्तात्मैव निश्चलः - इति । एतदेव प्रकारान्तरेणोदितम् - मुक्ताग्रहो विनिवसन् सजने वने वा, मुक्तिश्रियं निरूपमामुपयाति भव्यः - इति । प्रमाणं चात्र पारमर्षम् - न मुणीऽरण्णवासेण - इति । ज्ञानादिप्रयोज्ये मुनित्वेऽरण्यादिनिवासोऽप्रयोजक इति हृदयम्। अनूदितं च - नाणेण य मुणी होइ - इति । ___यद्वा ग्राम इति गृहम्, तदवयवत्वेन कथञ्चित्तदभिन्नत्वात्, उपलक्षणाद्वा तद्ग्रहः, तत्रापि तपोऽरण्येऽपि च, यथोक्तम् - वनेऽपि दोषाः प्रभवन्ति रागिणां, गृहेऽपि पञ्चेन्द्रियनिग्रहस्तपः। अकुत्सिते वर्त्मनि यः प्रवर्त्तते, निवृत्तरागस्य गृहं तपोवनम् - इति । एतदभिधानं मिथ्याचारनिवर्तनार्थं संयमसामग्र्यसम्पादनाय च विज्ञेयम्, न तु सति सामर्थे गृहावस्थानायालम्बनम्, तादृशालम्बनस्य प्रमादपर्यवसितत्वेन तत्र मुक्तिसाधकत्वासम्भवात्।
एवं च यदि परिणामविशुद्धिरेव न, तदोभयत्रापि तपोविरह एवेत्यात्मसमुत्कर्षस्तु सर्वथा त्याज्यः। स हि व्यक्त एव दुष्परिणामपिशुनः, यदाह - अप्पपसंसणकरणं तिव्वकसायाण लिंगाणि - इति । ततोऽयमेवोभयभ्रंशज्ञापकः।
तत्र यतिधर्मभ्रंशः, आत्मसम्भावनया तद्रिक्ततायोगात्, उक्तं च- सुट्ठ वि उज्जममाणं पंचेव करिति रित्तयं समणं। अप्पथुई परनिंदा जिब्भोवत्था कसाया य - इति । गृहिधर्मभ्रंशस्तु तत्रैव
१५४ -
आर्षोपनिषद् - सम्भाव्यमानानां देवगुरुभक्त्यादियोगानामभावात्। उपलक्षणमेतत्, तेन गुणमात्रभ्रंशोऽपि बोध्यः, यथोक्तम्- अप्पसंसा पुरिसस्स होइ चिंधं सुनिग्गुणत्तस्स - इति ।
इतश्चोभयभ्रंशः, इहलोकपरलोकभ्रष्टत्वादित्याह- अभिनिश्रयेत् - विषयतयाश्रयीकृत्य पश्येत्। किमित्याह- इमं लोकम् - कुशीलत्वादिदोषदूषिततया प्रत्यक्षं वर्तमानभवम्। तथा प्रकर्षण - कन्दर्पादिभावनाफलप्रतिपादकागमचक्षुर्बलेन, निश्रयेत् - विषयतयाऽऽलम्ब्य पश्येत्। किमित्याह- परलोकम् - दुर्गतिदुःखनिचितं प्रेत्यभवम्। फलितमाह - उभयतोऽपि लोकोऽप्रतिष्ठितः सुखांशमात्रव्यवस्थानविरहितः, उक्तं च - इमे वि से नत्थि परे वि लोए दुहओ वि से झिज्जइ तत्थ लोए - इति । तदेषा वेशविडम्बिनो मुमुक्षुतामोक्षप्रसूता विडम्बना। ___ अत्राह कश्चित् - अहमुभयलोकनिष्पिपासः, यदि भवमोक्षयोरपि निष्कामतैव श्रेयसी, तदेहलोकादेस्तु का वार्तेति। तदाहमोक्षे भवे च सर्वत्र निःस्पृहो मुनिसत्तमः - इति ।
अत्र स्वानुभवकथनेनोत्तरयति - अकामकः - भवादृश उभयलोकनिष्पिपासः, बाहुक इत्यात्मनिर्देशः, मृत इति - अकाम-कत्वविशिष्टपर्यायतया ममाभावः सञ्जात इत्याशयः। प्रशस्त-कामानां दशाविशेष उपादेयत्वात्, यथोक्तम् - दुक्खखओ कम्मक्खओ समाहिमरणं च बोहिलाभो । संपज्जउ मह एयं तुह
१. समाधितन्त्रे । ७३ ।। २. इष्टोपदेशे। ५१ ।। ३. उत्तराध्ययने ।।२५-२९ ।। ४. उत्तराध्ययने ।।२५-३०।। ५. पुरुषार्थसिद्धयुपाये ।। ६. उपदेशमालायाम् । १७२ ।।
१. आराधनापताकायाम् ।।२१५ ।। २. उत्तराध्ययने । ।२०-४९ ।। ३. योगशतके ।।२०।। वृत्तावुद्धृतम् ।