________________
Re-ऋषिभाषितानि -
-१५१ ऋषिभाषितसूत्रे समुल्लिखिता वक्ष्यन्ते च।एषां महापुरुषत्वाभिधानं राजर्षितया, स्वमतेन च यदैभिस्तापसादितां सन्त्यज्य श्रामण्यमङ्गीकृतं तदैषां महापुरुषता। कुतीर्थिका हि कस्मिन् भावे ज्ञानमुत्पद्यत इत्यजानानाः शीतोदकादि भुक्त्वा नम्याद्याः सिद्धा इत्येव ब्रुवते। एतदेव सूत्रेऽपि तत्थ मंदे विसीदति - इत्यनेन निर्दिष्टम्। तथा हि येऽस्नान - तपःसंयमादिगुणान् धारयितुमसमर्थाः, ते तदालम्बनेन शीतोदकादिसङ्गात् संसार एव पतन्ति । ___ वस्तुतस्तु केवलज्ञानोत्पत्तेः किञ्चित्कालादर्वागपि पञ्चेन्द्रियवधादिरौद्रपरिणामसम्भवः, प्रसन्नचन्द्रराजर्षिवत्। न चास्य तत्सङ्क्लेशेन सिद्धिगमनाभिधानमौचितीमञ्चति, तदनौचित्येऽविगानात्। एवं शीतोदकादिभुजां सिद्धिरित्यत्राप्यतीतनयापेक्षयैव सिद्धिगामिनां तद्व्यपदेशः सङ्गतिमङ्गतीति कृतमतिचर्चितेन।
मुक्त्यसाधकतयाऽप्रमाणमनुष्ठानमप्याचरन्तः केचिदात्मानमुत्कृष्टं मन्यन्ते। तदेषा द्वितीया मन्दस्य बालतेति तान् प्रत्युपदेष्टि
अप्पणिया ३खलु भो ! अप्पाणं समुक्कसिय ण भवति बद्धचिंधे णरवती, अप्पणिया खलु भो ! य अप्पाणं समुक्कसिय समुक्कसिय ण भवति बद्धचिंधे सेट्ठी। एवं चेव अणुयोये जाणह खलु भो ! समणा ! माहणा !, गामे अदुवा रणे, अदुवा गामे णो वि रणे,
१५२
आर्षोपनिषद् - अभिणिस्सए इमं लोयं परलोयं पणिस्सए, दुहओ वि लोके अपतिट्ठिते। अकामए बाहुए मते त्ति। अकामए चरए तवं, अकामए कालगए णरकं पत्ते।।१४-२।।
आत्मना खलु भोः ! आत्मानं बाह्याडम्बरेण समुत्कृष्य उन्नम्य, न भवति बद्धचिह्नः- मस्तकादौ निबद्धमुकुटादिराजचिह्नो नरपतिः - राजा। साम्राज्याज्ञैश्वर्यादिसाध्यत्वान्नृपतित्वस्य। यथोक्तम् - किं लिंगविड्डरीधारणेण ? कज्जम्मि अट्ठिए ठाणे। राया न होइ सयमेव, धारयं चामराडोवे - इति। एवं चात्मना खलु भोः ! आत्मानं समुत्कृष्य समुत्कृष्य न भवति बद्धचिह्नः श्रीपट्टादिनाऽलङ्कृतः, श्रेष्ठी - महेभ्यः।
अत्रात्मश्लाघाबद्धचिह्नतादिमात्रेण नरपतिर्न भवेत्, आत्मश्लाघादिमात्रेण बद्धचिह्नतादिविशिष्टो नरपतिर्न भवेदित्युभयरीत्यार्थयोजनं कर्तव्यम्। ___ एवमेव - उक्तप्रकारेणैव, अनुयोगे - प्रस्तुतार्थयोजनविषये, जानीत - अवगच्छत, यथा मुकुटमात्रतो राजा न भवति, तथा वेशमात्रेण भावमुनिरपि न भवतीति। खलु भोः ! श्रमणाः ! ब्राह्मणाः! ग्रामेऽथवाऽरण्ये, अथवा ग्रामेऽपि न, अरण्येऽपि न।
अयं भावः- यदि सदनुष्ठानपक्षपातादिरूपा परिणामविशुद्धिस्तदा ग्रामेऽपि युक्तयोगताऽरण्येऽपि। वस्तुतः स्वरूपव्यवस्थितत्वादस्य, यदाह- ग्रामोऽरण्यमिति द्वेधा निवासोऽनात्म
१. सूत्रकृताङ्गचूर्णी ।।१-३-४ ।। १-५ ।। २. उपदेशमालायाम् ।।४३६।। ३. क.ख.घ.झ.त. - समुक्कसिय । ग.च.ज.ध.द. - समुक्कसिया ।