Book Title: Rushibhashitani Part 1
Author(s): 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 102
________________ 70 ऋषिभाषितानि ॥ अथ पञ्चदशमाध्यायः ।। अनन्तराध्ययने सकामादेर्दुःखाद्यभिहितम्, अत्रापि त प्रकारान्तरेणाचष्टे सायादुक्खेण अभिभूते दुक्खी दुक्खं उदीरेति, असातादुक्खेण अभिभूए दुक्खी दुक्खं उदीरेति ? सातादुक्खेण अभिभूए दुक्खी दुक्खं उदीरेति, णो असातादुक्खेण अभिभूते दुक्खी दुक्खं उदीरेति १५९ ।।१५-१ ।। साता - पदैकदेशे पदसमुदायोपचारात् सुखस्पृहा, सैव दुःखम्, दुःखं सऊसुयत्तणं इत्युक्तेः । अन्वाह च - अविक्खा अणाणंदे - इति । तेनाभिभूतः कष्टितः, किमुक्तं भवति दुःखी, स दुःखमुदीरयति - दुःखावहकार्यकरणेनानुदितमसातवेदनीयं कर्म उदयावलिकां प्रापयति । अथवाऽसातादुःखम्, सुखस्पृहाविहीनं दुःखमात्रम् - असातवेदनीयविपाकोदयलक्षणम्, तेनाभिभूतो यावदुदीरयतीति प्रश्नः । अत्र पूर्वपक्षकक्षीकारेणोत्तरः सुगमः । उक्तरीत्या सुखस्पृहाया एव दुःखावहत्वाच्च, तदाह- दुःखद्विट् सुखलिप्सुर्मोहान्धत्वाददृष्टगुणदोषः। यां यां करोति चेष्टां, तया तया दुःखमादत्ते इति । एतदेव प्रकारान्तरेणाभिधत्ते दुःखात्मकत्वात्, सातादुक्खेण अभिभूतस्स दुक्खिणो दुक्खं 9. इतः प्रायः सर्वेष्वप्यध्ययनेषु सर्वादी सिद्धि' इति पाठो हस्तादर्शपूपलभ्यते । २. ऋषिभाषिते । ।७-१ ।। ३ पञ्चसूत्रे ।।५ ।। ४. प्रशमरतौ ।। ४० ।। - - - - Ashopnisad_2.p65 2nd Proof • आर्षोपनिषद् उदीरेति, असातादुक्खेण अभिभूयस्स दुक्खिणो दुक्खं उदीरेति ? सातादुक्खेण अभिभूतस्स दुक्खणो दुक्खं उदीरेति । पुच्छा य वागरणं च ।।१५-२।। सुगमः । नवरं दुःखिन स्वात्मन इति ज्ञेयम् । यद्वा यः कश्चिदपि परिपन्थ्यादिः सुखस्पृहादुःखितस्यैव दुःखमुदीरयतीत्यर्थः, इतरस्योपसर्गशतैरपि दुःखोदीरणस्यासम्भवात्, शारीरदुःखभावेऽपि तदनुभवविरहेण वस्तुतोऽदुःखितत्वात्, तदाह- न चासौ खिद्यते योगी बहिर्दुः खेष्वचेतन इति । दुःखोदीरणविषयमाह १६० संतं दुक्खी दुक्खं उदीरेति, असंतं दुक्खी दुक्खं उदीरेति ? संतं दुक्खी दुक्खं उदीरेइ, सातादुक्खेण अभिभूतस्स उदीरेति, णो असंतं दुक्खी दुक्खं उदीरेइ। मधुरायणेण अरहता इसिणा बुइतं ।।१५-३।। सत् - विद्यमानम्, प्राग्बद्धतया सत्तागतमित्यर्थः । शिष्टं स्पष्टम् । किमुपज्ञमिदमित्याह- मधुरायणेनार्हतर्षिणोदितमिति । अत्रैतदुपदेशतात्पर्यम् - सत्तागतदुःखक्षय एव तपः पराक्रमेण यतितव्यम्, एकान्तिकात्यन्तिकदुःखविगमस्य तदेकसाध्यत्वात् इतरथा तु यद्भवति तदाह दुक्खेण खलु भो ! अप्पहीणेणं जीए आगच्छंति हत्थच्छेयणाइं पादच्छेयणाई एवं णवमज्झयणगमएणं १. इष्टोपदेशे ।

Loading...

Page Navigation
1 ... 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141