Book Title: Rushibhashitani Part 1
Author(s): 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 98
________________ Re-ऋषिभाषितानि - -१५१ ऋषिभाषितसूत्रे समुल्लिखिता वक्ष्यन्ते च।एषां महापुरुषत्वाभिधानं राजर्षितया, स्वमतेन च यदैभिस्तापसादितां सन्त्यज्य श्रामण्यमङ्गीकृतं तदैषां महापुरुषता। कुतीर्थिका हि कस्मिन् भावे ज्ञानमुत्पद्यत इत्यजानानाः शीतोदकादि भुक्त्वा नम्याद्याः सिद्धा इत्येव ब्रुवते। एतदेव सूत्रेऽपि तत्थ मंदे विसीदति - इत्यनेन निर्दिष्टम्। तथा हि येऽस्नान - तपःसंयमादिगुणान् धारयितुमसमर्थाः, ते तदालम्बनेन शीतोदकादिसङ्गात् संसार एव पतन्ति । ___ वस्तुतस्तु केवलज्ञानोत्पत्तेः किञ्चित्कालादर्वागपि पञ्चेन्द्रियवधादिरौद्रपरिणामसम्भवः, प्रसन्नचन्द्रराजर्षिवत्। न चास्य तत्सङ्क्लेशेन सिद्धिगमनाभिधानमौचितीमञ्चति, तदनौचित्येऽविगानात्। एवं शीतोदकादिभुजां सिद्धिरित्यत्राप्यतीतनयापेक्षयैव सिद्धिगामिनां तद्व्यपदेशः सङ्गतिमङ्गतीति कृतमतिचर्चितेन। मुक्त्यसाधकतयाऽप्रमाणमनुष्ठानमप्याचरन्तः केचिदात्मानमुत्कृष्टं मन्यन्ते। तदेषा द्वितीया मन्दस्य बालतेति तान् प्रत्युपदेष्टि अप्पणिया ३खलु भो ! अप्पाणं समुक्कसिय ण भवति बद्धचिंधे णरवती, अप्पणिया खलु भो ! य अप्पाणं समुक्कसिय समुक्कसिय ण भवति बद्धचिंधे सेट्ठी। एवं चेव अणुयोये जाणह खलु भो ! समणा ! माहणा !, गामे अदुवा रणे, अदुवा गामे णो वि रणे, १५२ आर्षोपनिषद् - अभिणिस्सए इमं लोयं परलोयं पणिस्सए, दुहओ वि लोके अपतिट्ठिते। अकामए बाहुए मते त्ति। अकामए चरए तवं, अकामए कालगए णरकं पत्ते।।१४-२।। आत्मना खलु भोः ! आत्मानं बाह्याडम्बरेण समुत्कृष्य उन्नम्य, न भवति बद्धचिह्नः- मस्तकादौ निबद्धमुकुटादिराजचिह्नो नरपतिः - राजा। साम्राज्याज्ञैश्वर्यादिसाध्यत्वान्नृपतित्वस्य। यथोक्तम् - किं लिंगविड्डरीधारणेण ? कज्जम्मि अट्ठिए ठाणे। राया न होइ सयमेव, धारयं चामराडोवे - इति। एवं चात्मना खलु भोः ! आत्मानं समुत्कृष्य समुत्कृष्य न भवति बद्धचिह्नः श्रीपट्टादिनाऽलङ्कृतः, श्रेष्ठी - महेभ्यः। अत्रात्मश्लाघाबद्धचिह्नतादिमात्रेण नरपतिर्न भवेत्, आत्मश्लाघादिमात्रेण बद्धचिह्नतादिविशिष्टो नरपतिर्न भवेदित्युभयरीत्यार्थयोजनं कर्तव्यम्। ___ एवमेव - उक्तप्रकारेणैव, अनुयोगे - प्रस्तुतार्थयोजनविषये, जानीत - अवगच्छत, यथा मुकुटमात्रतो राजा न भवति, तथा वेशमात्रेण भावमुनिरपि न भवतीति। खलु भोः ! श्रमणाः ! ब्राह्मणाः! ग्रामेऽथवाऽरण्ये, अथवा ग्रामेऽपि न, अरण्येऽपि न। अयं भावः- यदि सदनुष्ठानपक्षपातादिरूपा परिणामविशुद्धिस्तदा ग्रामेऽपि युक्तयोगताऽरण्येऽपि। वस्तुतः स्वरूपव्यवस्थितत्वादस्य, यदाह- ग्रामोऽरण्यमिति द्वेधा निवासोऽनात्म १. सूत्रकृताङ्गचूर्णी ।।१-३-४ ।। १-५ ।। २. उपदेशमालायाम् ।।४३६।। ३. क.ख.घ.झ.त. - समुक्कसिय । ग.च.ज.ध.द. - समुक्कसिया ।

Loading...

Page Navigation
1 ... 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141