Book Title: Rushibhashitani Part 1
Author(s): 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 95
________________ - ऋषिभाषितानि -१४५ सौख्यपुष्टिभावः, तस्मिन् रतः, सुखैकस्पृह इत्यर्थः। एवमेषां सुखसस्पृहाणामभिहन्यमानानामेकमेवाव्यक्तमपि संवेदनम् संसारवासः - संसारे संसरणं कुर्वतो ममायं वासः - वर्तमानजन्मस्थितिः, तस्य सन्त्राणम् - तत्प्रयोजिका शरीरसुस्थता, तदभिघाते वर्तमानजन्मस्थितेः संशयारोहणात्। तत् कथं मे - अकृतापराधस्य मम हन्तुमिच्छसि व्यापादयितुं वाञ्छसि ? नैवेतत्तव युक्तमिति भावः। तदेतत्तत्त्वं सवे पाणा परमाहम्मिया - इत्याद्यागमादधिगम्य पराभिघातविरतिर्विधेयेति तात्पर्यम्। इतश्च पराभिघातो न कर्तव्य इत्याह संतस्स करणं णस्थि, णासतो करणं भवे। बहुधा दिळं इमं सुठु णासतो भवसंकरो।।१३-४।। शान्तस्य - प्रशमरसानुविद्धतया हिंसाविमुक्तस्य, करणम् - हिंसापरिणामजनितकर्मनिकाचनादि, नास्ति - नैव सम्भवति, नाकारणं भवेत्कार्यमितिन्यायात्। एतदेव व्यतिरेकेणाह- नाशयतः - हिंसापरिणततया व्यापादनादिप्रवृत्तस्य करणं भवेत्। तदिदं बहुधा - कालसौकरिकाद्यनेकज्ञातादिभिः, सुष्ठु - विनिश्चितं यथा स्यात्तथा, दृष्टम् - शास्त्रचक्षुषोपलब्धम्, किमित्याह - नाशयतो भवसङ्करः - चतुरशीतिलक्षयोनिजन्मवैचित्र्यम्। अतस्तद्भीरोरभिघातोपरम एव श्रेयानिति भावः। स्वाभिभवे तु १. दशवकालिके ।।४-९ ।। २. वृत्तस्यास्यापरोऽयमर्थः - एकान्तसतः करणम्- क्रियाद्वारेण निष्पादनम्, नास्ति, एकान्तासतोऽपि करणं न भवेत्, तदिदं बहुधा सुष्ठु दृष्टम्, यदसतो भवसङ्कर - विविधभवभाववैचित्र्यं न सम्भवति, अतस्तव घात एवासम्भवी, केवलं पर्यायान्तरपरिणाममात्रं स्यात्, एतत्तु सन्त्राणमित्यनेनैव स्पष्टीकृतमिति मा भैषी १४६ आर्षोपनिषद् - यच्चिन्त्यं तदाह संतमेतं इमं कम्म, दारेणेतेणुवट्ठियं। णिमित्तमेत्तं परो एत्थ, मज्न मे तु पुरेकडं।।१३-५।। सन्मात्रम् - आत्मनि विद्यमानमात्रम्, इदम् - श्रुतप्रज्ञाप्रत्यक्षम्, कर्म - असातवेदनीयादि, एतेन द्वारेण - वधादिरूपेण, उपस्थितम् - विपक्वतया फलमुखभावेन परिणतम्। तस्मादत्र एतद्व्यतिकरे परः - मदन्यो यः कश्चित्, मत्प्रत्यर्थिमानी वा, निमित्तमात्रम्, कर्मण एव साक्षात्साधकत्वात्। एतदेवाहमम पुराकृतं तु - प्राक्कृतं कर्मैव, मे - मां बाधते। यद्वा प्राक्कृतं कमैव मे -मम दुःखस्य कर्तेत्यर्थः। तदाह वाचकमुख्यः - स्वकृतकर्मफलाभ्यागमोऽयं मम, निमित्तमात्रं पर इति क्षमितव्यम् - इति। अतः कर्मलक्षणदुःखमूलोन्मूलन एव यतितव्यमिति प्रतिवस्तूपमयाऽऽह मूलसेके फलुप्पत्ती, मूलघाते हतं फलं। फलत्थी सिंचती मूलं, फलघाती ण सिंचती।।१३-६।। प्राग्वत् । दुःखात्मकफलघातयत्नश्चाव्याबाधसुखादिलक्षणात्मस्वरूपावगममन्तरेण दुरुपपन्न इति तदेव गमयति लुप्पती जस्स जं अस्थि, णासंतं किंचि लुप्पती। संतातो लुप्पती किंचि, णासंतं किंचि लुप्पती।।१३-७।। रित्याशयः। सदसदेकान्तवादी साङ्ख्यन्यायदर्शनयोर्ग्रन्थेभ्यो विज्ञेयः । स्वमते तु तावेव निश्चयव्यवहारनययोः समवतरत इत्यधिकं महाभाष्ये (विशेषावश्यकभाष्ये ४१५४२६ ।।) १. तत्त्वार्थभाष्ये ।।९-६ ।। २. दृश्यतां ऋषिभाषिते ।।२-६ ।। तदनुसारेणात्रापि यथाप्रकरणमर्थः स्वयमूह्यः।

Loading...

Page Navigation
1 ... 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141