________________
- ऋषिभाषितानि
-१४५ सौख्यपुष्टिभावः, तस्मिन् रतः, सुखैकस्पृह इत्यर्थः। एवमेषां सुखसस्पृहाणामभिहन्यमानानामेकमेवाव्यक्तमपि संवेदनम् संसारवासः - संसारे संसरणं कुर्वतो ममायं वासः - वर्तमानजन्मस्थितिः, तस्य सन्त्राणम् - तत्प्रयोजिका शरीरसुस्थता, तदभिघाते वर्तमानजन्मस्थितेः संशयारोहणात्। तत् कथं मे - अकृतापराधस्य मम हन्तुमिच्छसि व्यापादयितुं वाञ्छसि ? नैवेतत्तव युक्तमिति भावः। तदेतत्तत्त्वं सवे पाणा परमाहम्मिया - इत्याद्यागमादधिगम्य पराभिघातविरतिर्विधेयेति तात्पर्यम्। इतश्च पराभिघातो न कर्तव्य इत्याह
संतस्स करणं णस्थि, णासतो करणं भवे। बहुधा दिळं इमं सुठु णासतो भवसंकरो।।१३-४।।
शान्तस्य - प्रशमरसानुविद्धतया हिंसाविमुक्तस्य, करणम् - हिंसापरिणामजनितकर्मनिकाचनादि, नास्ति - नैव सम्भवति, नाकारणं भवेत्कार्यमितिन्यायात्। एतदेव व्यतिरेकेणाह- नाशयतः - हिंसापरिणततया व्यापादनादिप्रवृत्तस्य करणं भवेत्। तदिदं बहुधा - कालसौकरिकाद्यनेकज्ञातादिभिः, सुष्ठु - विनिश्चितं यथा स्यात्तथा, दृष्टम् - शास्त्रचक्षुषोपलब्धम्, किमित्याह - नाशयतो भवसङ्करः - चतुरशीतिलक्षयोनिजन्मवैचित्र्यम्। अतस्तद्भीरोरभिघातोपरम एव श्रेयानिति भावः। स्वाभिभवे तु १. दशवकालिके ।।४-९ ।। २. वृत्तस्यास्यापरोऽयमर्थः - एकान्तसतः करणम्- क्रियाद्वारेण निष्पादनम्, नास्ति, एकान्तासतोऽपि करणं न भवेत्, तदिदं बहुधा सुष्ठु दृष्टम्, यदसतो भवसङ्कर - विविधभवभाववैचित्र्यं न सम्भवति, अतस्तव घात एवासम्भवी, केवलं पर्यायान्तरपरिणाममात्रं स्यात्, एतत्तु सन्त्राणमित्यनेनैव स्पष्टीकृतमिति मा भैषी
१४६
आर्षोपनिषद् - यच्चिन्त्यं तदाह
संतमेतं इमं कम्म, दारेणेतेणुवट्ठियं। णिमित्तमेत्तं परो एत्थ, मज्न मे तु पुरेकडं।।१३-५।।
सन्मात्रम् - आत्मनि विद्यमानमात्रम्, इदम् - श्रुतप्रज्ञाप्रत्यक्षम्, कर्म - असातवेदनीयादि, एतेन द्वारेण - वधादिरूपेण, उपस्थितम् - विपक्वतया फलमुखभावेन परिणतम्। तस्मादत्र एतद्व्यतिकरे परः - मदन्यो यः कश्चित्, मत्प्रत्यर्थिमानी वा, निमित्तमात्रम्, कर्मण एव साक्षात्साधकत्वात्। एतदेवाहमम पुराकृतं तु - प्राक्कृतं कर्मैव, मे - मां बाधते। यद्वा प्राक्कृतं कमैव मे -मम दुःखस्य कर्तेत्यर्थः। तदाह वाचकमुख्यः - स्वकृतकर्मफलाभ्यागमोऽयं मम, निमित्तमात्रं पर इति क्षमितव्यम् - इति। अतः कर्मलक्षणदुःखमूलोन्मूलन एव यतितव्यमिति प्रतिवस्तूपमयाऽऽह
मूलसेके फलुप्पत्ती, मूलघाते हतं फलं। फलत्थी सिंचती मूलं, फलघाती ण सिंचती।।१३-६।।
प्राग्वत् । दुःखात्मकफलघातयत्नश्चाव्याबाधसुखादिलक्षणात्मस्वरूपावगममन्तरेण दुरुपपन्न इति तदेव गमयति
लुप्पती जस्स जं अस्थि, णासंतं किंचि लुप्पती।
संतातो लुप्पती किंचि, णासंतं किंचि लुप्पती।।१३-७।। रित्याशयः। सदसदेकान्तवादी साङ्ख्यन्यायदर्शनयोर्ग्रन्थेभ्यो विज्ञेयः । स्वमते तु तावेव निश्चयव्यवहारनययोः समवतरत इत्यधिकं महाभाष्ये (विशेषावश्यकभाष्ये ४१५४२६ ।।) १. तत्त्वार्थभाष्ये ।।९-६ ।। २. दृश्यतां ऋषिभाषिते ।।२-६ ।। तदनुसारेणात्रापि यथाप्रकरणमर्थः स्वयमूह्यः।