________________
Re-ऋषिभाषितानि - पओसे सयगुणिओ सयसहस्सकोडिगुणो। कोडाकोडिगुणो वा हुज्ज विवागो बहुतरो वा - इति ।
ननु च कर्मण एवाहितहेतुत्वम्, तत्कर्तुरात्मनो वा, यदाहअन्नो न कुणइ अहियं, हियं पि अप्पा करेइ न हु अन्नो। अप्पकयं सुहदुक्खं भुंजसि, ता कीस दीणमुहो ? - इति । ततोऽत्र परस्याभिभवहेतुताभिधानमसङ्गतमिति चेत् ? न, कर्महेतुकत्वेऽपि तद्बन्धस्य परप्रत्ययिकतया कथञ्चित् तन्निमित्तकत्वोक्तेायानपेतत्वात्। इत्थमेव परोक्तमपि समाधेयम्, यथा - मां स भक्षयिताऽमुत्र, यस्य मांसमिहाम्यहम्। एतन्मांसस्य मांसत्वे निरुक्तिं मनुरब्रवीत् - इति ।
तत्कृताभिभवस्यैवाऽऽग्रहे त्वनुपपत्तिः, मरणान्तोपसर्गेण शिवङ्गतेभ्यः प्रतिकृतप्राप्त्यसम्भवात्। मरुभूत्यादेरनेकशः कमठादिहतत्वेऽपि तत्वातस्य तेन कदाप्यकरणाच्च। निमित्तमात्रता तु सर्वत्र सूपपद्यत इति। इतश्च पराभिभवस्त्याज्य इत्याह
आता णाए उ सव्वेसिं गिहि बूहणतारए। संसारवाससंताणं कहं मे हंतुमिच्छसि ?||१३-३।।
आत्मा ज्ञातस्तु सर्वेषाम्। इह हि सर्वेषामपि प्राणभाजां दुःखमप्रियम्। सुखप्रियतया च स्वात्माऽवगतः। ततोऽन्येषामपि तत्तोऽनुमीयते। उक्तं च- जह मम न पियं दुक्खं जाणिय एमेव सव्वजीवाणं। न हणइ न हणावेइ य सममणइ तेण सो समणो-इति । १. उपदेशमालायाम् । ।१७७-१७८ ।। २. वैराग्यशतके ।।२७।। ३. मनुस्मृतौ ।।५५५ ।। ४. कमठादिः ५. मरुभूत्यादिना ।। ६. सुखप्रियता। ७. दशवकालिकनियुक्ती । ।१५४ ।। पुष्पमालायाम् - धम्मम्मि ठिओ स विनेओ - इति तुर्यपादः ।।११।।
१४४
- आर्षोपनिषद् - यद्वाऽऽत्मा सर्वेषां प्रस्तुतार्थप्रतीत्यर्थं ज्ञातम्- उदाहरणम्। सर्वजीवानां सुखमेव प्रियमित्यस्य साधने दृष्टान्तमिति भावः। लिङ्गव्यत्ययः प्राकृतत्वात्। इदमुक्तं भवति - यथा त्वं सुखप्रिय एवमन्येऽपि, यथा वा त्वं दुःखद्विड् एवमन्येऽपि जन्तवः, एवं मत्वाऽन्येषामसातोत्पादनं न विदध्याः। इत्थमेवाहितपरिहारसम्भवात्। उक्तं च - यथेष्टविषयाः सातमनिष्टा इतरत्तव। अन्यत्रापि विदित्वैवं, न कुर्यादप्रियं जने - इति। तदेष पारमर्षप्रतिपादितपन्थाः, यथाभिहितम् - भूतेहिं जाण पडिलेह सातं - इति । ___ अथ नैतेन ज्ञातेन साध्यसिद्धिः, महर्षयः केऽपि सहन्त्युदीर्याप्युग्रातपादीन् यदि निर्जरार्थम् - इत्यनेकान्तोपलम्भादिति चेत् ? न, तदुदीरणस्यापि शिवसुखस्पृहाहेतुकतयाऽनेकान्तविरहात्, उपेयसाधनत्व उपायस्य तत्त्वात् , कूपोदाहरणेन सुखसाधनतया किञ्चिद्दुःखाङ्गीकारस्य लोकेऽपि सिद्धत्वात्, लोकोत्तरे तु विपरीतमत्यैवोपेयावाप्तेरभिधानाच्च। तदाह- दुःखात्मकेषु विषयेषु सुखाभिमानः, सौख्यात्मकेषु विषयेषु च दुःखबुद्धिः। उत्कीर्णवर्णपदपङ्क्तिरिवान्यरूपा सारूप्यमेति विपरीतगतिप्रयोगात् ।। यदा दुःखं सुखत्वेन दुःखत्वेन सुखं यदा। मुनिर्वेत्ति तदा तस्य मोक्षलक्ष्मी स्वयंवरा - इति ।
___ यद्वाऽगारिजीवानधिकृत्योक्तज्ञातं द्रष्टव्यमित्याह- गृही - गृहस्थः, उपलक्षणमेतन्मुनिभिन्नाशेषजीवानाम्, बृंहणता - १. आचाराङ्गे।।१-३-२ ।।११२ ।। २. अध्यात्मकल्पद्रुमे । ।१३-४४ ।। ३. उपायो हि उपेयं साधयति, अत उपेयेच्छूनां उपायोऽपि प्राप्तव्यतां भजते, अत उपायस्यापि उपेयत्वमिति भावः। ४. सूत्रकृताङ्गवृत्तावुद्धरणम् । ५. योगसारे ।।५-३०।।