________________
Re-ऋषिभाषितानि -
-१४१ विजयोपायमाह- क्रोधादीनाम्, आदिना मानादिग्रहः, विपाकम् - तदुदयफलम्, चः - चिन्तयेदित्यस्यानुकर्षकः। किंसम्बन्धि क्रोधादिविपाकमित्याह- आत्मनश्च - स्वस्य, परस्य च - यस्मै क्रुध्यति तस्य, यस्योदीरयति तस्य वा, स्वक्रोधोदयसाक्षिणो वा।
तत्र तावत् स्वस्य विपाकः - प्रीत्यादिप्रणाशलक्षणः, तथा च पारमर्षम् - कोहो पीइं पणासेइ माणो विणयनासणो। माया मित्ताणि नासेइ लोहो सव्वविणासणो - इति । एषामेवानन्तानुबन्ध्यादीनां विपाको यथा - सम्माणुसव्वविरई अहखायचरित्तघायकरा - इति । परेषामप्यात्मघात - प्रीत्यादिप्रणाश - वैमनस्यादयो दोषाः। एवमनिशं परिभावनेन तत्तद्दोषनिग्रहः, ततोऽपि तत्प्रत्ययिककर्मबन्धविच्छेदः पूर्वबद्धनिर्जरा च । पर्यवसितमाह
एवं से सिद्धे बुद्धे विरए विपावे दंते दविए अलंताई णो पुणरवि इच्चत्थं हव्वमागच्छति त्ति बेमि।। एवमित्यादि प्राग्वत्। इति द्वादशमाध्याय आर्षोपनिषद् ।
॥ अथ त्रयोदशमाध्यायः।। अनन्तराध्ययनेऽपुनरागतिगतिरभिहिता, अत्रापि तामेव प्रकारान्तरेण गमयति___ “किमहं णस्थि लावण्णताए" मेतज्जेण भयालिणा १. दशर्वकालिके ।।८-३७।। २. कर्मग्रन्थे ।।१८।। ३. उत्तराध्ययने ।।२९/६४७२ ।। ४. क- किमहं णत्थि लावणताए मेतेज्जेण ताए मेतेज्जेण। ख- किमहं णत्थि लावणताए मेतेज्जेण ताए मेतज्जेण । ग- किमहं (त्थं) णत्थि लावणं, ताए मेतेज्जेण ताए मेतेज्जेण । घ-त- किमत्थं णत्थि लावण्णताए ? मेतेज्जेण । च- किमत्थं णत्थि
१४२
आर्षोपनिषद् - अरहता इसिणा बुइतं ।।१३-१॥
किमहं नास्मि लावणतायै - लवणिम्ने-सौन्दर्याय योग्यः - तदधिगमार्हः ? इत्यात्मनैवात्मानं प्रति प्रश्नः। सौन्दर्यं चात्र भावमालिन्यप्रहाणहेतुकाहिंसादिपरिणतिलक्षणं विज्ञेयम्। प्रश्नोऽयं तत्पक्षपातज्ञापकतयैव तद्योग्यतागमकः। केनैवमुक्तमित्याह - मेतार्येन भयालिनार्हतर्षिणोदितम्। अहिंसादिपरिणतिमेव व्यनक्ति
णो हं खलु हो ! अप्पणो विमोयणट्ठताए परं अभिभविस्सामि, मा णं मा णं से परे अभिभूयमाणे ममं चेव अहिताए भविस्सति॥१३-२॥
नोऽहं खलु भोः ! आत्मनो विमोचनम् - यत्किञ्चिदुःखाद्विमुक्तिः, तदेवार्थः - प्रयोजनम्, तस्मै- तन्निष्पत्तये, परम् - षट्कायान्यतमजीवम्, अभिभविष्यामि-परितापादि प्रापयिष्यामि।
दुःखमुक्तिलक्षणेष्टसाधनमाद्रियतामिदम्, कोऽत्र दोष इत्याह - मा मा स परः, अभिभूयमानो ममैवाहिताय भविष्यति, णौ - वाक्यालङ्कारे, मा-वीप्सा - भयप्रयुक्तसम्भ्रमे, असकृत् सम्भ्रमे - इत्यनुशासनात् । पराभिभवश्च तत्कर्तुरहितायैव, जघन्यतोऽपि दशगुणफलत्वात्, यथोक्तम् - वहमारणअब्भक्खाणदाणपरधणविलोवणाइणं। सव्वजहन्नो उदओ दसगुणिओ इक्कसि कयाणं - इति। प्रद्वेषानुसारेण फलाधिक्यमपि, यथा - तिव्वयरे उ लावण्णं ताए ? मेतेज्जेण । ज- किमहं णत्थि लावणताए मेतेज्जेण ताए मेतेज्जेण ताए मेतेज्जेण । झ- किमत्थं पत्थि लावण्णताए मेतज्जेण। द- लावण्णंताए।। १. अनुत्तरोपपातिकवृत्तौ । २. सिद्धहेमशब्दानुशासने ।।७-४-७२ ।।