________________
Re-ऋषिभाषितानि
तस्य - शुद्धभिक्षागवेषकस्य, हननेत्यादि प्राकृतत्वाव्युत्पत्तिवैचित्र्याच्च हननादिदोषविप्रमुक्तस्य - स्वयं पचनादिकालुष्यशून्यस्य, लाभाः - पञ्चेन्द्रियत्वमानुष्यसज्ज्ञानादिलक्षणा लब्धयः, सुलब्धाः - सुप्राप्ताः, सच्चरणप्रयोजकतया सफला इति भावः। यद्वा प्रायोग्याहारलाभाः सुखेन लब्धा भवन्तीत्यर्थः। एतच्चैषणादियोगानुभावात्, यथोक्तम्- जोगाणुभावओ च्चिय पायं ण य सोहणस्स वि अलाभो - इति। तदाहुः परेऽपि - द्वन्द्वैरधृष्यत्वमभीष्टलाभः - इति ।
किन्त्वेवं योगप्रवृत्तिरपि रागादिनिग्रहमन्तरेण दुर्घटेति तदुपायमाह
पंथाणं रूवसंबद्धं फलावत्तिं च चिंतए। कोहातीणं विवाकं च अप्पणो य परस्स य।।१२-४।।
रूपसम्बद्धम् - स्न्यादिरूपाभिष्वङ्गानुबद्धम्, पन्थानम् - जीवगमनमार्गम्, फलापत्तिं च - नरकादिदुर्गतिलक्षणाम्, चिन्तयेत् - आगमालम्बनेन भावयेत्, रागादिनिग्रहस्य तदेकसाध्यत्वात्। तत्र रूपसम्बद्धपन्था यथा - रूवेसु जो गिद्धिमुवेइ तिव्वं, अकालियं पावइ से विणासं। रागाउरे से जह वा पयंगे, आलोयलोले समुवेइ मच्छं।। जे यावि दोसं समुवेइ तिव्वं, तंसि क्खणे से उ उवेइ दुक्खं। दुद्दतदोसेण सएण जन्तू, न किंचि रूवं अवरज्झई से।। एगतरत्ते रुइरंसि रूवे, अतालिसे से कुणइ पओसं। दुक्खस्स संपीलमुवेइ बाले, न लिप्पई तेण मुणी विरागे।। १. योगशतके ।।८३ ।। २. योगदृष्टिसमुच्चये ।।१६१ ।। वृत्तावृद्धरणम् ।
१४०
- आर्षोपनिषद् - रूवाणुगासाणुगए य जीवे, चराचरे हिंसइ णेग रूवे। चित्तेहिं ते परितावेइ बाले, पीलेइ अत्तगुरू किलिटे।। रूवाणुवाएण परिग्गहेण, उप्पायणे रक्खणसन्निओगे। वए विओगे य कहिं सुहं से, संभोगकाले य अतित्तिलाभे ?|| रूवे अतित्ते य परिग्गहम्मि, सत्तोवसत्तो न उवेइ तुहिँ। अतुट्टिदोसेण दुही परस्स लोभाविले
आययइ अदत्तं।। तण्हाभिभूयस्स अदत्तहारिणो रूवे अतित्तस्स परिग्गहे य। मायामुसं वड्डइ लोभदोसा, तत्थावि दुक्खा न विमुच्चइ से।। मोसस्स पच्छा य पुरत्थओ य पओगकाले य दुही दुरंते। एवं अदत्ताणि समाययंतो रूवे अतित्तो दुहिओ अणिस्सो।। रूवाणुरत्तस्स नरस्स एवं कत्तो सुहं होज्ज कयाइ किंचि ?। तत्थोवभोगे वि किलेसदुक्खं निव्वत्तए जस्स कए ण दुक्खं - इति । तदेष रूपसम्बद्धपन्थाः सर्वज्ञदृष्टः। फलापत्तिचिन्तनं यथा- एमेव रूवंमि गओ पओसं उवेइ दुक्खोघपरंपराओ। पदुट्ठचित्तो य चिणाइ कम्मं जं से पुणो होइ दुहं विवागे - इति । ___ उपलक्षणमेतच्छब्दादिसम्बद्धसञ्चराणाम्। यद्वा रूपम्पुद्गलद्रव्यम्, गुणगुणिनोः कथञ्चिदभेदात् रूपिणः पुद्गला इत्युक्तेश्च । पुद्गलप्रेमपरिणामश्च दुरन्तसंसार एव, यथाभिहितम् - अविद्वान् पुद्गलद्रव्यं योऽभिनन्दति तस्य तत्। न जातु जन्तोः सान्निध्यं चतुर्गतिषु मुञ्चति - इति ।
एवं निरन्तरमनुचिन्तनेन विषयाभिष्वङ्गविलयः। कषाय१. उत्तराध्ययने ।।३२/२४-३२ ।। २. एतच्च परम्परफलमिति ध्येयम्, अनन्तरस्य रूपसम्बद्धमार्ग एवोदितत्वात् । उत्तराध्ययने ।।३२-३३ ।। ३. तत्त्वार्थसूत्रे । ।५-४ ।। ४. इष्टोपदेशे।।४६।।