________________
-१३७
Re- ऋषिभाषितानि - चेत् ? न, मुधाजीवित्वक्षतेः, भिक्षोभटत्वापत्तेरित्याहपंचवणीमकसुद्धं जो भिक्खं एसणाए एसेज्जा। तस्स सुलद्धा लाभा हणणाए विष्पमुक्कदोसस्स।।
॥१२-३॥ यो भिक्षुः पञ्चवनीपकशुद्धाम् - पञ्चप्रकारवनीपकदोषविनिर्मुक्तां भिक्षाम्, एषणया - पिण्डैषणाध्ययनप्रतिपादितविधिना, एषयेत् - ग्रहणैषणाविषयीकुर्यात्, पञ्चवनीपकाः - श्रमणादिविषयाः। तद्यथा - श्रमणे, ब्राह्मणे, कृपणे, अतिथौ, शुनि च। वनिरित्ययं धातुर्याचने, वनु याचने - इति वचनात्, ततो वनुते - प्रायो दायकसम्मतेषु श्रमणादिष्वात्मानं भक्तं दर्शयित्वा पिण्डं याचते इति वनीपकः, औणादिक ईपकप्रत्ययः। अत्र च मिथ्यात्वस्थिरीकरणादयो बहुदोषा इति तत्परिहार उक्तः। यदाह श्रुतकेवली-समणे माहणि किवणे अतिही साणे य होइ पंचमए। वणिजायण त्ति वणिमओ पायप्पाणं वणेउ त्ति।। निग्गंथ- सक्कतावस-गेरुय-आजीव-पंचहा समणा। तेसिं परिवेसणाएं लोभेण वणिज्जको अप्पं ।। भुजंति चित्तकम्मं ठिया व कारुणियदाणरुइणो वा। अवि कामगद्दहेसु वि, न नस्सइ किं पुण जईसु ?।। मिच्छत्तथिरीकरणं उग्गमदोसा य तेसु वा गच्छे। चडुकारऽदिन्नदाणा पच्चत्थिग मा पुणो इंतु।। लोयाणुग्गहकारिसु भूमीदेवेसु बहुफलं दाणं। अवि नाम बंभबंधुसु किं पुण छक्कम्मनिरएसु ?।। किविणेसु
१३८
- आर्षोपनिषद् - दुम्मणेसु य, अबंधवायंकजुंगियंगेसुं । पूयाहिज्जे लोए, दाणपडागं हरइ देंतो।। पाएण देइ लोगो उवगारिसु परिचिएसु झुसिए वा। जो पुण अद्धाखिन्नं अतिहिं पूएइ तं दाणं।। अवि नाम होज्ज सुलभो गोणाईणं तणाइ आहारो। छिच्छिक्कारहयाण न हु सुलहो होइ सुणगाणं।। केलासभवणा एए, आगया गुज्झगा महिं। चरंति जक्खरूवेण, पूयाऽपूया हियाऽहिया।। एएण मज्झभावो दिट्ठो लोए पणामहेज्जम्मि'। एक्केक्के पुबुत्ता, भद्दगपंताइणो दोसा - इति । भद्रक आधाकर्मादिदोषाः, प्रान्ते गृहनिष्काशनादिदोषाः। उपलक्षणमेतत् काकादिविषयवनीपकानाम्, उक्तं च- एमेव कागमाई साणगहणेण सूइया होति। जो वा जम्मि पसत्तो, वणइ तहिं पुट्ठऽपुट्ठो वा - इति । ___ स्यादेतत्, पञ्चवनीपकशुद्धामित्येवाभिधानाच्छेषदोषानुमतिप्रसङ्ग इति चेत् ? न, शेषदोषाणामुपलक्षणत्वेनाभिधानात्। तथाप्यस्यैवोपन्यासे को विशेषहेतुरिति चेत् ? कथञ्चिदतिगुरुदोषत्वादस्येति गृहाण। इह पात्रेष्वपात्रेषु वा सन्नियुज्यमानं दानं न भवत्यफलमितिवचसाऽपात्रदानस्य पात्रदानसमतया प्रशंसनेनापि सम्यक्त्वातिचारसम्भवः, किं पुनरपात्राण्येव साक्षात् प्रशंसतः ? तत्र सुतरां महान् दोषो मिथ्यात्वस्थिरीकरणादिलक्षण इति भावनीयम्। आह च- दाणं न होइ अफलं पत्तमपत्तेसु सन्निजुज्जतं। इय विभणिए वि दोसा, पसंसओ किं पुण अपत्ते ? - इति । १. कर्त्तितहस्तपादाद्यवयवेषु । २. अध्युषिते - आश्रिते। ३. प्रणामहार्य - प्रणामदानादिनाऽऽवर्जनीये। ४. पिण्डनियुक्तौ ।।४४३, ४४५-४५३ ।। ५. पिण्डनियुक्ती ।।४५४ ।। ६. पिण्डनियुक्तौ ।।४५५ ।।
१. भोजनप्रदाने क्रियमाणे सति २. चित्रकर्मलिखिता इव निश्चला भुजाना लक्ष्यन्ते। ३. जन्मान्तरेऽप्यदत्तदाना आहाराद्यर्थ श्वान इवात्मानं दर्शयन्तीत्यवर्णवादो जायते ।