________________
ऋषिभाषितानि
इसिणा बुझतं । । १२-१॥ यावत्तावल्लोकैषणा - इष्टेषु शब्दादिषु प्रवृत्तिरनिष्टेषु तु हेयबुद्धिः । तावत्तावद्वित्तैषणा - इष्टानिष्टप्रवृत्तिनिवृत्तिसाधनमार्गणा । तन्मार्गणया च लोकैषणावृद्धिः, सफलत्वेऽपि तृष्णावृद्धिहेतुत्वात्, उक्तं च न जातु कामः कामानामुपभोगेन शाम्यति । हविषा कृष्णवर्त्मेव भूय एवोपवर्द्धते - इति । ततः परस्परप्रयोजकतां दर्शयति यावत्तावद्वित्तैषणा तावत्तावल्लोकैषणेति ।
अत्र यावदित्येव वक्तव्ये यद् यावत्तावदित्यादिभणनं तत् समयपरिभाषया । एवं च दुरुपरति लोकैषणादिविषचक्रमित्याह - स च यः कश्चिन्मुमुक्षुः, लोकैषणां च वित्तैषणां च परिज्ञाय ज्ञप्रत्याख्यानपरिज्ञाभ्याम्, गोपथेन गच्छेत् यथा गौश्चरत्येवमविशेषेण भिक्षार्थमटनं कुर्यात् । न नैव, महापथेन गच्छेत् राजमार्गेणैव चरन् ईश्वरश्रेष्ठ्याद्युच्चकुलेष्वेव यायात्, लोकैषणादिप्रसङ्गात्, कुलमुच्चावयं पारमर्षविराधनापत्तेश्च ।
इति
केनैवमुदितमित्याह- याज्ञवल्क्येनार्हतर्षिणोदितम्। अविशेषभिक्षाचर्यामेव स्पष्टयति तं जहा तद्यथा
-
सया
१३५
१. आचाराङ्गे ।।१-४-१ ।। वृत्तौ । २. मनुस्मृती । । २ ९४ ।। ३ तुलना बृहदारण्यकोपनिषदि याज्ञवल्क्यवचसा एतं वै तमात्मानं विदित्वा ब्राह्मणः पुत्रैषणायाश्च वित्तैषणायाश्च लोकैषणायाश्च व्युत्थावाथ भिक्षाचर्याश्वरन्ति या ह्येव पुत्रेपणा सा वित्तैषणा या वित्तपणा सा लोकैषणोभे होते एपणे एव भवतः ।।३-५-१ ।। ४ दशवैकालिके ।।५-२-२५ ।।
१३६
जहा कवोता य कविंजला य, गाओ चरंती इह पातरासं ।
एवं मुणी गोयरियप्पविट्ठे,
णो आलवे णो वि य संजलेज्जा ।।१२- २।। यथा कपोता: - पारापताः, कपिञ्जला:- चातकपक्षिणः, गावः - धेनवः, चौ- समुच्चयार्थी, चरन्तीह प्रातराशम् - प्राभातिकभोजनम्। तदा प्राय एषां भोजनभावात्प्रातरभिधानम्, न तु कालनियमार्थम् ।
एवं मुनिः प्रवचनप्रतिपादितपिण्डैषणादिविधिमन्ता, गोचर्याम् - भिक्षाटनम्, प्रविष्टो न आलपेत् इषदप्यालापं न कुर्यात्, नियट्टिज्ज अयंपिरो 'इत्यागममनुस्मरन्। न चैवं दोषपरिहाराद्यनुपपत्तिः, उग्गमं से य पुच्छिज्जा कस्सट्ठा केण वा कडं, दिंतियं पडियाइक्खे न मे कप्पइ तारिसं - इत्याद्यागमविरोधश्चेति वाच्यम्, नो आलवे- इत्यनेन कथाप्रबन्धादेरेव प्रतिषेधनात्, यथोक्तम् - कहं च न पबंधिज्जा - इति ।
३
-
-
आर्षोपनिषद्
नापि च सञ्ज्वलेत् - परीषहोपसर्गनिपाते सपदि कुप्येत् । एतदभिधानं भिक्षाचर्यायां तदुदीरणसम्भवात् उक्तं च - बावीसं परीसहा भिक्खायरियाए उदीरिज्जंति इति । किञ्चालाभमात्रेणापि तत्सम्भवः, अत एवार्षम् अदेंतस्स न कुप्पेज्जा - इति । अथ मा भूत् सञ्ज्वलनम्, उपायादावर्जयित्वा याचने त्वदोष इति
-
१. दशवैकालिके ।।५-१-२३ ।। २. दशवैकालिके ।।५-१-५६ ।। ३. दशवैकालिके ।।५२-१५ ।। ४. दशवैकालिके ।।५-२-८ ।। ५. आवश्यकवृत्ती । ६. दशवैकालिके । ॥५
२-२८ ।।