________________
-१३३
Re-ऋषिभाषितानि विज्जोपयारविण्णाता जो धीमं सत्तसंजुतो। सो विज्जं साहइत्ताणं कज्जं कुणइ तक्खणं ।।११-९।।
विद्या - रोहिण्यादिदेवताधिष्ठिता तत्साधनोपायभूता विचित्रविधिना पठनीया पदपङ्क्तिः । तस्या उपचारः-तत्साधनप्रगुणव्यापारः, तस्य विज्ञाता सामग्र्येण वेत्ता, यो धीमान् - स्थितप्रज्ञः, इतरस्य रागादिना लयविलयप्रसङ्गात्, तथा
चैकाग्र्यतात्यागेनावज्ञाता विद्या प्रत्युत प्रत्यपायफला। न चायं दोषः स्थितप्रज्ञस्य, तत्त्वादेव, तथा चोदितम् - यः सर्वत्रानभिस्नेहस्तत्तत्प्राप्य शुभाशुभम्। नाभिनन्दति न द्वेष्टि, तस्य प्रज्ञा प्रतिष्ठिता इति । न चेदृशस्य विद्यासाधनप्रयोजनमेव न सम्भवतीति वाच्यम्, अनीदृशस्यापि विद्यासाधनसमयावच्छेदेन तत्त्वविवक्षणात्, ईदृशस्यापि प्रशस्तप्रयोजनात्तत्साधनेऽसामञ्जस्यविरहाच्च।
सत्त्वम् - व्यसनाशनिसन्निपातेऽप्यविचलितप्रकृतिभावः, तेन सम्यक् - तादात्म्यपरिणत्या युक्तः - सहितः, इतरस्य बिभीषिकाव्युत्थितस्य सिद्ध्यसम्भवात्। सः - उक्तविशेषणविशिष्टो विद्यासाधकः, विद्यां साधयित्वा - विद्यासिद्धिमुपगम्य, एतेनास्य विघ्नजयेन पारगामिता ज्ञापिता। कार्यम् - साधितविद्यासाध्यम्, तत्क्षणम् - सद्य एव, समर्थस्य कालक्षेपायोगात्। करोति - निष्पादयत्येव। तदेतान्युदाहरणानि, साम्प्रतमुपनयमाह
आर्षोपनिषद् - णिवत्तिं मोक्खमग्गस्स सम्मं जो तु विजाणति। राग-दोसे णिराकिच्चा से उ सिद्धिं गमिस्सति।।
॥११-१०॥ यस्तु मोक्षमार्गस्य - मुक्तेरनन्तरहेतोः, निवृत्तिम् - सर्वोपरतिलक्षणं स्वरूपम्, सम्यक् भावसारम्, विजानाति - उपादेयतया वेत्ति, स तु - स एव, रागद्वेषौ - अभिष्वङ्गाप्रीत्यात्मकौ स्वपरसम्बन्धिनौ, निराकृत्य - स्वस्य क्षपकश्रेणिक्रमेण मूलत उन्मूल्य, परस्य सद्देशनादिना प्रतिबोधद्वारेणापाकृत्य, सिद्धिम् - कृत्स्नकर्मक्षयलक्षणां गमिष्यति - प्राप्यति। एतच्चाणिमादिसिद्ध्यादिक्रमेण सम्भवतीत्याह
एवं से सिद्धे बुद्धे विरए विपावे दंते दविए अलंताई णो पुणरवि इच्चत्थं हव्वमागच्छति त्ति बेमि।।
एवमित्यादि प्राग्वत्। इत्येकादशममङ्खलिपुत्रनामाध्ययन आर्षोपनिषद्।
।। अथ द्वादशमाध्यायः।। अनन्तराध्ययने सर्वोपरतिरभिहिता, किन्तु तदधिगमाय समितिप्रभृतिप्रशस्तप्रवृत्तिरावश्यका, कण्टकन्यायेन तस्या एवेतरोद्धारद्वारेण सर्वोपरतियोनित्वादित्यत्र समितिविशेषमभिधातुकाम आह
"जाव ताव लोएसणा ताव ताव वित्तेसणा, जाव ताव वित्तेसणा ताव ताव लोएसणा। से लोएसणं च वित्तेसणं च परिणाए गोपहेणं गच्छेज्जा, णो महापहेणं गच्छेज्जा" जण्णवक्केण अरहता
१. स्थितप्रज्ञत्वादेव । २. भगवद्गीतायाम् । ३. स्थितप्रज्ञत्व० ।