________________
Re-ऋषिभाषितानि - तायिनः स्वपरत्राणकारित्वमिति निदर्शनैः स्फुटयतिअसम्मूढो उ जो णेता मग्गदोसपरक्कमो। गमणिज्जं गतिं णाउं जणं पावेति गामिणं।।११-६।।
सम्मूढः - जात्यन्धत्वादिदोषैर्मार्गविषयेऽत्यन्तमज्ञः, नासौअसम्मूढः, तुः - सम्मूढभिन्नपक्षनियमार्थः, यो नेता सन्मार्गनयनकर्ता, मार्गदोषाः - अध्वनी पायाः स्तेनश्वापदादिनिमित्तकाः, तान् परः प्रकर्षो यथा स्यात्तथाऽऽक्रमतेऽभिभवतीति मार्गदोषपराक्रमः। स गमनीयाम् - अभीष्टनगरगमनप्रायोग्यां गतिम् - जवम्, ज्ञात्वा - स्वानुभवादेरवगम्य। इदमुक्तं भवति - न हि सम्मोहाभावापायनिरासाभ्यामेव सन्मार्गज्ञता किन्तु योग्यगतिज्ञानेनापि। इत्थमेवाकल्पितविकालादिना मार्गमध्य एव कान्तारादौ मरणाद्यपायसम्भवस्य निराकर्तुं शक्यत्वात्। आदिनोन्मार्गगमनादिग्रहः। न हि पटुरपि मार्गज्ञोऽन्धकारनिचिते वने सन्मार्गनयनप्रत्यल इति। अतस्तज्ज्ञो नेता गामिनं जनम्अभीष्टपुरादिप्रस्थितस्वाश्रितलोकम्, प्रापयति, गन्तव्यनगरादि, उक्तविशेषणविशिष्टनेतरि सति प्रायस्तदप्राप्त्यसम्भवात्। निदर्शनान्तरमाहसिट्ठकम्मो तु जो वेज्जो सत्थकम्मे य कोवियो। मोयणिज्जातो सो वीरो रोगा मोतेति रोगिणं ।११-७।।
शिष्टम् - तृतीयौषधवदेकान्तहितावहम्, कर्मचिकित्साप्रवृत्तिर्यस्यासौ - शिष्टकर्मा, तुः- तदितरव्यवच्छेद१. तात्स्थ्यात् तद्व्यपदेशः।
१३२
आर्षोपनिषद् - कावधारणार्थः, यो वैद्यः - भिषक्। तमेव विशेषयति - शास्त्रकर्मणि चरकायुर्वेदादिग्रन्थप्रतिपादितचिकित्साक्रियायाम्, शस्त्रकर्मणि वा - अशुद्धरक्ताद्यपनयनप्रयोजनछेदप्रभृतिक्रियायाम, कोविदः - निपुणमतिः। सः, विशेषेण - निःशेषतयापगमापुनरुत्थानरूपेण रोगस्येरयिता- अपनेता वीरः, रोगिणम्ज्वरादिना व्याधितम्, मोचनीयात् - वियुक्तीकरणास्त् प्रतिक्रियाप्रायोग्यादिति यावत्, रोगात् - आतङ्कात् मोचयति - मुक्तं करोति, रोगापहारेण नीरुजीकुरुत इत्यर्थः। उदाहरणान्तरमाह
संजोए जो विहाणं तु दव्वाणं गुणलाघवे। सो उ संजोगणिफण्णं सच्चं कुणइ कारियं ।।११-८।।
यः - वैद्यप्रभृतिः, द्रव्याणाम् - हरितक्यादिवस्तूनाम्, विधानम् - रोगापनयनादिप्रयोजकतया व्यवस्थापनम्, आदिना रसवती-निष्पत्त्यादिग्रहः। तुः - अवधारणार्थः, स च प्रत्यपायादिफलतया तदितरव्यवच्छेदार्थः। गुणस्य - पाटवादिलक्षणस्य, लाघवम् - शीघ्रमेव भवनम्, गुणलाघवम्, तस्मिन् संयोजयति - ग्रहणयोग्यमात्राकालादिनिर्देशेनोक्तविधानमेव शीघ्रफलता प्रापयतीत्यर्थः।
स तु - स एव, द्रव्याणां सम्यक् ईप्सितसिद्धिर्यथा स्यात्तथा योगः - मेलकः संयोगः। तेन निष्पन्नम् - निर्वर्तितम्, कार्यम् - चिकित्सादिलक्षणम्, सत्यं करोति - सत्यापयति, सदुपायस्योपेयव्यभिचारिताविरहादितिभावः। दृष्टान्तान्तरमाह