Book Title: Rushibhashitani Part 1
Author(s): 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 94
________________ Re-ऋषिभाषितानि - पओसे सयगुणिओ सयसहस्सकोडिगुणो। कोडाकोडिगुणो वा हुज्ज विवागो बहुतरो वा - इति । ननु च कर्मण एवाहितहेतुत्वम्, तत्कर्तुरात्मनो वा, यदाहअन्नो न कुणइ अहियं, हियं पि अप्पा करेइ न हु अन्नो। अप्पकयं सुहदुक्खं भुंजसि, ता कीस दीणमुहो ? - इति । ततोऽत्र परस्याभिभवहेतुताभिधानमसङ्गतमिति चेत् ? न, कर्महेतुकत्वेऽपि तद्बन्धस्य परप्रत्ययिकतया कथञ्चित् तन्निमित्तकत्वोक्तेायानपेतत्वात्। इत्थमेव परोक्तमपि समाधेयम्, यथा - मां स भक्षयिताऽमुत्र, यस्य मांसमिहाम्यहम्। एतन्मांसस्य मांसत्वे निरुक्तिं मनुरब्रवीत् - इति । तत्कृताभिभवस्यैवाऽऽग्रहे त्वनुपपत्तिः, मरणान्तोपसर्गेण शिवङ्गतेभ्यः प्रतिकृतप्राप्त्यसम्भवात्। मरुभूत्यादेरनेकशः कमठादिहतत्वेऽपि तत्वातस्य तेन कदाप्यकरणाच्च। निमित्तमात्रता तु सर्वत्र सूपपद्यत इति। इतश्च पराभिभवस्त्याज्य इत्याह आता णाए उ सव्वेसिं गिहि बूहणतारए। संसारवाससंताणं कहं मे हंतुमिच्छसि ?||१३-३।। आत्मा ज्ञातस्तु सर्वेषाम्। इह हि सर्वेषामपि प्राणभाजां दुःखमप्रियम्। सुखप्रियतया च स्वात्माऽवगतः। ततोऽन्येषामपि तत्तोऽनुमीयते। उक्तं च- जह मम न पियं दुक्खं जाणिय एमेव सव्वजीवाणं। न हणइ न हणावेइ य सममणइ तेण सो समणो-इति । १. उपदेशमालायाम् । ।१७७-१७८ ।। २. वैराग्यशतके ।।२७।। ३. मनुस्मृतौ ।।५५५ ।। ४. कमठादिः ५. मरुभूत्यादिना ।। ६. सुखप्रियता। ७. दशवकालिकनियुक्ती । ।१५४ ।। पुष्पमालायाम् - धम्मम्मि ठिओ स विनेओ - इति तुर्यपादः ।।११।। १४४ - आर्षोपनिषद् - यद्वाऽऽत्मा सर्वेषां प्रस्तुतार्थप्रतीत्यर्थं ज्ञातम्- उदाहरणम्। सर्वजीवानां सुखमेव प्रियमित्यस्य साधने दृष्टान्तमिति भावः। लिङ्गव्यत्ययः प्राकृतत्वात्। इदमुक्तं भवति - यथा त्वं सुखप्रिय एवमन्येऽपि, यथा वा त्वं दुःखद्विड् एवमन्येऽपि जन्तवः, एवं मत्वाऽन्येषामसातोत्पादनं न विदध्याः। इत्थमेवाहितपरिहारसम्भवात्। उक्तं च - यथेष्टविषयाः सातमनिष्टा इतरत्तव। अन्यत्रापि विदित्वैवं, न कुर्यादप्रियं जने - इति। तदेष पारमर्षप्रतिपादितपन्थाः, यथाभिहितम् - भूतेहिं जाण पडिलेह सातं - इति । ___ अथ नैतेन ज्ञातेन साध्यसिद्धिः, महर्षयः केऽपि सहन्त्युदीर्याप्युग्रातपादीन् यदि निर्जरार्थम् - इत्यनेकान्तोपलम्भादिति चेत् ? न, तदुदीरणस्यापि शिवसुखस्पृहाहेतुकतयाऽनेकान्तविरहात्, उपेयसाधनत्व उपायस्य तत्त्वात् , कूपोदाहरणेन सुखसाधनतया किञ्चिद्दुःखाङ्गीकारस्य लोकेऽपि सिद्धत्वात्, लोकोत्तरे तु विपरीतमत्यैवोपेयावाप्तेरभिधानाच्च। तदाह- दुःखात्मकेषु विषयेषु सुखाभिमानः, सौख्यात्मकेषु विषयेषु च दुःखबुद्धिः। उत्कीर्णवर्णपदपङ्क्तिरिवान्यरूपा सारूप्यमेति विपरीतगतिप्रयोगात् ।। यदा दुःखं सुखत्वेन दुःखत्वेन सुखं यदा। मुनिर्वेत्ति तदा तस्य मोक्षलक्ष्मी स्वयंवरा - इति । ___ यद्वाऽगारिजीवानधिकृत्योक्तज्ञातं द्रष्टव्यमित्याह- गृही - गृहस्थः, उपलक्षणमेतन्मुनिभिन्नाशेषजीवानाम्, बृंहणता - १. आचाराङ्गे।।१-३-२ ।।११२ ।। २. अध्यात्मकल्पद्रुमे । ।१३-४४ ।। ३. उपायो हि उपेयं साधयति, अत उपेयेच्छूनां उपायोऽपि प्राप्तव्यतां भजते, अत उपायस्यापि उपेयत्वमिति भावः। ४. सूत्रकृताङ्गवृत्तावुद्धरणम् । ५. योगसारे ।।५-३०।।

Loading...

Page Navigation
1 ... 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141