Book Title: Rushibhashitani Part 1
Author(s): 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 74
________________ Re-ऋषिभाषितानि सम्यक्त्वमेव वा - इत्युक्तेः । ज्ञानं च यथार्थावबोधः, ताभ्यां सम्यक् उभयत्र समपक्षपाततया युक्ते - सहित आत्मनि, पापम् - पूर्वकृतमशुभं कर्म, विशुध्यति - शुभप्रकृतौ सङ्क्रमणेन विशुद्धीभवति। यद्वा पापम् - निःशेष कर्म, शुभस्यापि मुक्तिप्रतिबन्धकतया कथञ्चित् पापरूपत्वात्। तद्विशुध्यति-अपगच्छति। ज्ञानक्रिययोः कर्मक्षयावहत्वेन संसारोत्तारकत्वात्, तथा चार्षम् - भवसंसारसमुई नाणी चरणट्ठिओ तरइ - इति। आशाम्बरा अप्याहुः - मोक्खमग्गं सम्मत्तसंयम सुधम्म - इति । तथोक्तं तन्त्रान्तरेऽपि - उभाभ्यामेव पक्षाभ्यां यथा खे पक्षिणां गतिः। तथैव ज्ञानकर्मभ्यां प्राप्यते ब्रह्म शाश्वतम् - इति । दृष्टान्तान्तरेण स्फुटयति जहा आतवसंतत्तं वत्थं सुज्झइ वारिणा। सम्मत्तसंजुतो अप्पा, तहा झाणेण सुज्झती।।९-२८।। यथाऽऽतपः सूर्याद्यभितापः, तेन सन्तप्तम् - सुतरामुष्णीभूतम्, एतेनास्य शुष्कीभवनप्रयुक्तमलापनोद उदितः। वस्त्रं वारिणा क्षारादिमिश्रितजलेन शुध्यति - शेषाशेषमलापगमेन शुचीभवति। तथा सम्यक्त्वम् - सद्दर्शनम्, सहभावितया सज्ज्ञानं च। ताभ्यां संयुक्त आत्मा ध्यानेन शुक्लध्यानलक्षणाभ्यन्तरतपोविशेषेण, एतेन चारित्रयुक्तता व्याख्याता। शुध्यति - निःशेषकर्मकलङ्करहितो भवति। १०४ - आर्षोपनिषद् - ___ अथायमर्थवादः, परमार्थतो विशोधिविरहात्, असम्भवात्, अनादितयाऽनिधनत्वात्, आकाशवदिति चेत् ? न, सप्रतिपक्षत्वात्। कथमिति चेत् ? अत्राह कंचणस्स जहा धाऊजोगेणं मुच्चए मलं। अणाईए वि संताणे तवाओ कम्मसंकरं।।९-२९।। यथा काञ्चनस्य - सुवर्णस्य धातुयोगेन दाहादिप्रक्रियासम्पर्केण मलः - मृत्तिकादिविजातीयलक्षणः कचवरः, मुच्यते- पृथग्भावं भजते यथोक्तम् – दाहादिभ्यः समलममलं स्यात् सुवर्णं सुवर्णम् - इति । स च कथञ्चिदनादिरपि वियुज्यते, एवमनादिकेऽपि सन्ताने - जीवकर्मसंयोगपरम्परात्मके सति, तपसः सकाशात् कर्मैव सङ्करः-अशुचिपूञ्जः कर्मसङ्करः, आत्ममालिन्यहेतुत्वात्, तम्, आत्मा विमुञ्चतीति गम्यते। तथा चागमः - सज्झायसज्झाणरयस्स ताइणो अपावभावस्स तवे रयस्स। विसुज्झई जं से मलं पुरेकडं समीरियं रुप्पमलं व जोइणा - इति । किञ्चैष सर्वतन्त्रसिद्धान्तः, तवसा उ निज्जरा इह हंदि पसिद्धा उ सव्ववाईणं - इत्युक्तेः । तस्माद् वस्त्रकाञ्चनादिशुद्धिवदात्मशुद्धिरपि तपोलक्षणोपायेनाभ्युपेया। अथैवं कर्मसंयोगस्यापि सादिता प्राप्नोति, वस्त्रमलसंयोगवत्। मुक्त्यनन्तरं च पुनरपि कर्मबन्धप्रसङ्गः, शुद्धवस्त्रमलसंयोगवत्। काञ्चनदृष्टान्तमपि विषमम्, पुद्गलपरावर्तणोभयोरप्यनादिता१. मलपदं प्राकृत उभयलिङ्गम् । २. लोकतत्त्वनिर्णये ।।१७।। ३. दशवैकालिके ।।८६३ ।। ४. पञ्चलिङ्गिप्रकरणे ।।१२।। १. ज्ञानसारे।।१३-१।। २. चन्द्रवेध्यके ।।७३ ।। ३. बोधप्राभृते ।।१४।। ४. हारितस्मृतौ।

Loading...

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141