________________
Re-ऋषिभाषितानि सम्यक्त्वमेव वा - इत्युक्तेः । ज्ञानं च यथार्थावबोधः, ताभ्यां सम्यक् उभयत्र समपक्षपाततया युक्ते - सहित आत्मनि, पापम् - पूर्वकृतमशुभं कर्म, विशुध्यति - शुभप्रकृतौ सङ्क्रमणेन विशुद्धीभवति।
यद्वा पापम् - निःशेष कर्म, शुभस्यापि मुक्तिप्रतिबन्धकतया कथञ्चित् पापरूपत्वात्। तद्विशुध्यति-अपगच्छति। ज्ञानक्रिययोः कर्मक्षयावहत्वेन संसारोत्तारकत्वात्, तथा चार्षम् - भवसंसारसमुई नाणी चरणट्ठिओ तरइ - इति। आशाम्बरा अप्याहुः - मोक्खमग्गं सम्मत्तसंयम सुधम्म - इति । तथोक्तं तन्त्रान्तरेऽपि - उभाभ्यामेव पक्षाभ्यां यथा खे पक्षिणां गतिः। तथैव ज्ञानकर्मभ्यां प्राप्यते ब्रह्म शाश्वतम् - इति । दृष्टान्तान्तरेण स्फुटयति
जहा आतवसंतत्तं वत्थं सुज्झइ वारिणा। सम्मत्तसंजुतो अप्पा, तहा झाणेण सुज्झती।।९-२८।।
यथाऽऽतपः सूर्याद्यभितापः, तेन सन्तप्तम् - सुतरामुष्णीभूतम्, एतेनास्य शुष्कीभवनप्रयुक्तमलापनोद उदितः। वस्त्रं वारिणा क्षारादिमिश्रितजलेन शुध्यति - शेषाशेषमलापगमेन शुचीभवति। तथा सम्यक्त्वम् - सद्दर्शनम्, सहभावितया सज्ज्ञानं च। ताभ्यां संयुक्त आत्मा ध्यानेन शुक्लध्यानलक्षणाभ्यन्तरतपोविशेषेण, एतेन चारित्रयुक्तता व्याख्याता। शुध्यति - निःशेषकर्मकलङ्करहितो भवति।
१०४
- आर्षोपनिषद् - ___ अथायमर्थवादः, परमार्थतो विशोधिविरहात्, असम्भवात्, अनादितयाऽनिधनत्वात्, आकाशवदिति चेत् ? न, सप्रतिपक्षत्वात्। कथमिति चेत् ? अत्राह
कंचणस्स जहा धाऊजोगेणं मुच्चए मलं। अणाईए वि संताणे तवाओ कम्मसंकरं।।९-२९।।
यथा काञ्चनस्य - सुवर्णस्य धातुयोगेन दाहादिप्रक्रियासम्पर्केण मलः - मृत्तिकादिविजातीयलक्षणः कचवरः, मुच्यते- पृथग्भावं भजते यथोक्तम् – दाहादिभ्यः समलममलं स्यात् सुवर्णं सुवर्णम् - इति । स च कथञ्चिदनादिरपि वियुज्यते, एवमनादिकेऽपि सन्ताने - जीवकर्मसंयोगपरम्परात्मके सति, तपसः सकाशात् कर्मैव सङ्करः-अशुचिपूञ्जः कर्मसङ्करः, आत्ममालिन्यहेतुत्वात्, तम्, आत्मा विमुञ्चतीति गम्यते। तथा चागमः - सज्झायसज्झाणरयस्स ताइणो अपावभावस्स तवे रयस्स। विसुज्झई जं से मलं पुरेकडं समीरियं रुप्पमलं व जोइणा - इति । किञ्चैष सर्वतन्त्रसिद्धान्तः, तवसा उ निज्जरा इह हंदि पसिद्धा उ सव्ववाईणं - इत्युक्तेः । तस्माद् वस्त्रकाञ्चनादिशुद्धिवदात्मशुद्धिरपि तपोलक्षणोपायेनाभ्युपेया।
अथैवं कर्मसंयोगस्यापि सादिता प्राप्नोति, वस्त्रमलसंयोगवत्। मुक्त्यनन्तरं च पुनरपि कर्मबन्धप्रसङ्गः, शुद्धवस्त्रमलसंयोगवत्। काञ्चनदृष्टान्तमपि विषमम्, पुद्गलपरावर्तणोभयोरप्यनादिता१. मलपदं प्राकृत उभयलिङ्गम् । २. लोकतत्त्वनिर्णये ।।१७।। ३. दशवैकालिके ।।८६३ ।। ४. पञ्चलिङ्गिप्रकरणे ।।१२।।
१. ज्ञानसारे।।१३-१।। २. चन्द्रवेध्यके ।।७३ ।। ३. बोधप्राभृते ।।१४।। ४. हारितस्मृतौ।