________________
Re-ऋषिभाषितानि
१०५ विरहेण संयोगस्यापि तत्ताऽसम्भवात्। पुद्गलपरावर्तेणैव पुनरपि मलसंयोगसम्भवादनिष्टसाधनमपि देवानांप्रियस्येति चेत् ? अत्राह
वस्थादिएसु सुज्झेसु संताणे गहणे तहा। दिटुंते देसधम्मित्तं, सम्ममेयं विभावए।।९-३०।।
वस्त्रादिकेषु, आदिना काञ्चनादिग्रहः, शोध्येषु - शोधनीयतया दृष्टान्तत्वेनोक्तेषु, सन्ताने - पुद्गलपरावर्तपरम्परायाम्, तथा ग्रहणे पुनरपि मलादानलक्षणे सति, यद्विपर्ययापादनं क्रियते, तत्रैतत् सम्यक् माध्यस्थ्यसम्पन्नतया, अभिनिवेशस्य तत्त्वप्रतिपत्तिं प्रति परिपन्थिभूतत्वात्, विभावयेत् - युक्तिपुरस्सरं चिन्तयेत्।
किमित्याह- दृष्टान्ते देशधर्मित्वं भवति। न हि दृष्टान्ते सर्वसादृश्यं सम्भवति। यथा- एतन्मुखमालादप्रदं चन्द्रवदित्यत्राह्लाददायकतालक्षणामुकधर्मापेक्षयैव चन्द्रस्य दृष्टान्तत्वेनोपन्यासः, सर्वसादृश्यं त्वसम्भवि, कलङ्काद्यापादनादनिष्टं च। न च तद्विरहेऽस्य दृष्टान्तत्वायोगः, तन्मात्रोच्छेदप्रसङ्गात्। एवं प्रकृतेऽपि योज्यम्। इत्थं चैकान्तिकात्यन्तिककर्मवियोगः प्रतिपत्तव्यः, तत्प्रक्रियामाह
आवज्जती समुग्घातो जोगाणं च निरंभणं। अनियट्टी एव सेलेसी, सिद्धी कम्मक्खओ तहा।।
॥९-३१॥ १. क - दिट्ठते देस-धम्मित्तं । ख- दिटुंतो देसधम्मत्तं । ग-घ-छ-झ-त- दिद्रुतं देसधम्मित्तं। च- दिटुं तं देसधम्मित्तं । ज- दिद्वैते देसधम्मत्तं । २. सर्वसादृश्यस्य स्वस्मिन्नेव सम्भवात् सर्वसादृश्यवत एव दृष्टान्तत्वमित्याग्रहे न कस्यचिदपि दृष्टान्तत्वं स्थादिति दृष्टान्तमात्रोच्छेदः प्रसज्येतेत्याशयः।
- आर्षोपनिषद् - आवर्जतिः - आवर्जनम् - उपयोगो व्यापारो वा, केवलिसमुद्घातगन्तुमनसा केवलिना कर्तव्यमावर्जीकरणमधिकृत्य, समुद्घातकरणार्थमादौ केवलिन उपयोगो मयाऽधुनेदं कर्तव्यमित्येवंरूपः, उदयावलिकायां कर्मप्रक्षेपरूपो व्यापारो वाऽऽवर्जनमुच्यते।
यद्वाऽऽवर्जनम् - अभिमुखीकरणम्, यथा लोके दृष्टमावर्जितो मनुष्योऽभिमुखीकृतः। प्रस्तुते सिद्धपर्यायपरिणामाभिमुखीकरणं यत्तदावर्जितकरणम्। येन कारणेन परिणत आत्मा नियमात् सिद्धतत्पर्यायपरिणामाभिमुखो भवतीत्यर्थः। आवर्जीकरणमसङ्ख्यसमयमान्तौहूर्तिकं भवति ।
तथा समुद्घातः - वेदनादिभिः सहैकीभावेन प्राबल्यतया कर्मनिर्जरणम् । स चात्र प्रस्तावात् केवलिसमुद्धातो गृह्यते। तद्वक्तव्यता चैवं सिद्धान्तेऽभिहिता - कम्हा णं भंते ! केवली समुग्घायं गच्छइ ? गोयमा ! केवलिस्स चत्तारि कम्मस्स अंता अक्खीणा अवेदिता अनिज्जिन्ना भवंति, तं जहा- वेदणिज्जे आउए नामे गोत्ते, सव्वबहुए से वेदणिज्जे कम्मे हवइ, सव्वत्थोवे से आउए कम्मे हवइ, विसमं समं करेइ बंधणेहिं ठिइहि य विसमसमीकरणयाए बंधणेहिं ठितीहि य, एवं खलु केवली समोहणति, एवं खलु समुग्घायं गच्छति -इत्यादि। समासतो यथायस्य पुनः केवलिनः कर्म भवत्यायुषोऽतिरिक्ततरम्। स समुद्घातं
१. विशेषावश्यकभाष्यवृत्ती । २. प्रज्ञापनायाम् ।। ५.३६. सू. ३४६ ।। ३. प्रज्ञापनावृत्ती । ४. प्रज्ञापनायाम् ।।३६-३४५ ।।