________________
-१०७
Re-ऋषिभाषितानि - भगवानथ गच्छति तत्समीकर्तुम्।। दण्डं प्रथमे समये कपाटमथ चोत्तरे तथा समये। मन्थानमथ तृतीये लोकव्यापी चतुर्थे तु।। संहरति पञ्चमे त्वन्तराणि मन्थानमथ पुनः षष्ठे। सप्तमके तु कपाट संहरति ततोऽष्टमे दण्डम्।। औदारिकप्रयोक्ता प्रथमाष्टमसमययोरसाविष्टः। मिश्रौदारिकयोक्ता सप्तम-षष्ठ-द्वितीयेषु।। कार्मणशरीरयोगी चतुर्थके पञ्चमे तृतीये च। समयत्रयेऽपि तस्मिन् भवत्यनाहारको नियमात् - इति । योगानां च निरुन्धनम् - योगत्रयनिरोधः, न निवर्तते - न व्यावर्तत इत्येवंशीलमनिवर्ति, प्रवर्धमानतरपरिणामान्मुक्तिमसम्पाद्याव्यावर्तनशीलः सूक्ष्मक्रियाऽनिवर्त्तिलक्षणः शुक्लध्यानस्य तृतीयभेदः, तदेव करोति, क्रमप्राप्तत्वात्।
तथा शैलेशी मेरुगिरिवदतिनिश्चलावस्थाऽऽत्मप्रदेशस्पन्दनलेशविरहात्। सिद्धिः शुद्धस्वरूपाधिगमलक्षणोपेयप्राप्तिः, यतः कर्मक्षयः कृत्स्नकर्मपरिशाटः, तथा - सम्मत्तसंजुतो अप्पा तहा झाणेण सुज्झती - इत्याधुक्तप्रकारेण। तदिदमुदितम् -
स समुद्घातनिवृत्तोऽथ मनोवाक्काययोगवान् भगवान्। यतियोग्ययोगयोक्ता योगनिरोधं मुनिरुपैति।। पञ्चेन्द्रियोऽथ सञ्जी यः पर्याप्तो जघन्ययोगी स्यात्। निरुणद्धि मनोयोगं, ततोऽप्यसङ्ख्यातगुणहीनम्।। द्वीन्द्रियसाधारणयोर्वागुच्छ्वासावधो जयति तद्वत्। पनकस्य काययोग जघन्यपर्याप्तकस्याधः।।
१०८
- आर्षोपनिषद् - सूक्ष्मक्रियमप्रतिपाति काययोगोपगस्ततो ध्यात्वा। विगतक्रियमनिवर्तित्वमुत्तरं ध्यायति परेण।। चरमभवे संस्थानं यादृग्यस्योच्छ्यप्रमाणं च। तस्मात् त्रिभागहीनावगाहसंस्थानपरिणाहः।। सोऽथ मनोवागुच्छ्वासकाययोगक्रियार्थविनिवृत्तः। अपरिमितनिर्जरात्मा संसारमहार्णवोत्तीर्णः।। ईषद्मस्वाक्षरपञ्चकोद्गीरणमात्रतुल्यकालीयाम्। संयमवीर्याप्तबलः शैलेशीमेति गतलेश्यः।। पूर्वरचितं च तस्यां समयश्रेण्यामथ प्रकृतिशेषम्। समये समये क्षपयत्यसङ्ख्यगुणमुत्तरोत्तरतः।। चरमे समये सङ्ख्यातीतान् विनिहत्य चरमकर्मांशान्। क्षपयति युगपत् कृत्स्नं वेद्यायुर्नामगोत्रगणम्।। सर्वगतियोग्यसंसारमूलकरणानि सर्वभावीनि। औदारिकतैजसकार्मणानि सर्वात्मना त्यक्त्वा।। देहत्रयनिर्मुक्तः प्राप्यर्जुश्रेणिवीतिमस्पर्शाम्। समयेनैकेनाविग्रहेण गत्वोर्ध्वगतिमप्रतिघः।। सिद्धक्षेत्रे विमले जन्मजरामरणरोगनिर्मुक्तः। लोकाग्रगतः सिध्यति साकारेणोपयोगेन - इति । एवं चणावा व वारिमज्झम्मि खीणलेवो अणाउलो।
रोगी वा रोगणिम्मुक्को सिद्धो भवति णीरओ।।९-३२।। १. प्रशमरतौ ।।२७७-२८८ ।।
१. प्रशमरतो ।।२७२-२७६ ।।