________________
Re-ऋषिभाषितानि - __ नौर्यथा वारिमध्ये, तद्वत् क्षीणलेपः, जलस्थानीयकर्मणः स्वान्तर्लेपविरहात्। बाह्यसंयोगानुमत्यापत्तिरिति चेत् ? सेयमिष्टापत्तिः, सिद्धानां समानाकाशप्रदेशावगाढकार्मणपुद्गलादिना सह कथञ्चित् संयोगमात्रस्येष्टत्वात्। तथाऽनाकुलः नौपक्षे प्रशान्तजलानुभावेन स्पन्दनविरहात्, सिद्धपक्षे विकल्पाद्याकुलताक्षयात्।
यद्वा यथा नौर्वारिमध्येऽनाकुला तिष्ठति, निमज्जनभयाभावात्, तथा क्षीणलेपोऽप्यनाकुल एव सिद्धिगतौ तिष्ठति, पुनरागतिगन्धस्याप्यभावादिति।
उपमान्तरमाह- रोगीव रोगनिर्मुक्तः, तथाहुराचार्याः - क्षीणव्याधिर्यथा लोके व्याधिमुक्त इति स्थितः। भवरोग्येव तु तथा मुक्तस्तन्त्रेषु तत्क्षयात् - इति । सिद्धो भवति नीरजाः। स च लोकाग्रगतः सिध्यतीत्युक्तं तत्र मुक्तयोगस्यास्य गतिरपि कथमित्याह
पुव्वजोगा असंगत्ता, काओ वाया मणो इ वा। एगतो आगती चेव कम्माभावा ण विज्जती।।९-३३।।
पूर्वयोगात् - कुलालचक्रे दोलायामिषौ चापि यथेक्ष्यते। पूर्वप्रयोगात् कर्मेह तथा सिद्धगतिः स्मृता - इत्या!क्तरीत्योर्ध्वगतिप्रयोजकप्राक्कालीनप्रयोगविशेषात्। हेत्वन्तरमाहअसङ्गत्वात् मृल्लेपसङ्गनिर्मोक्षाद्यथा दृष्टाप्स्वलाबुनः। कर्मसङ्गविनिर्मोक्षात् सिद्धस्यापि तथेष्यते - इत्यसङ्गभावादप्युर्ध्वगतिः। उपलक्षणमेतत्, तेनान्यमप्युर्ध्वगतिनिदर्शनमूह्यम्, यथा १. योगदृष्टिसमुच्चये। ।२०६ ।। २. तत्त्वार्थभाष्यसम्बन्धकारिकायाम् ।।२-१० ।।
११०
- आर्षोपनिषद् - - एरण्डयन्त्रपेडासु बन्धच्छेदाद्यथा गतिः। कर्मबन्धनविच्छेदात् सिद्धस्यापि तथेष्यते। उर्ध्वगौरवधर्माणो जीवा इति जिनोत्तमैः। अधोगौरवधर्माणः पुद्गला इति चोदितम्।। यथाधस्तिर्यगूज़ च लोष्टवाय्वग्निवीतयः। स्वभावतः प्रवर्तन्ते तथोर्ध्वं गतिरात्मनाम् - इति। एतेन तत्रैवावस्थानाधस्तिर्यगतिलोकान्तपरस्ताद्गमनाद्यभावोऽपि यथागममभ्यूह्यः, यथोक्तम्
त्यक्त्वा शरीरबन्धनमिहैव कर्माष्टकक्षयं कृत्वा। न स तिष्ठत्यनिबन्धादनाश्रयादप्रयोगाच्च।। नाधो गौरवविगमादशक्यभावाच्च गच्छति विमुक्तः। लोकान्तादपि न परं प्लवक इवोपग्रहाभावात्।। योगप्रयोगयोश्चाभावात्तिर्यग् न तस्य गतिरस्ति। सिद्धस्योर्ध्वं मुक्तस्यालोकान्ताद् गतिर्भवति - इति ।
स्यादेतत्, रोगीव रोगनिर्मुक्त इति सिद्धोपमाऽभिहिता, एवं च रोगस्य पुनरुन्मज्जनदर्शनादस्यापि तथाप्रसङ्ग इति चेत् ? न, सर्वसादृश्याऽऽग्रह उपमामात्रोच्छेदप्रसङ्गात्। पुनरुन्मज्जने तावदस्य कर्मविरह एव बाधक इत्याह- काय:-शरीरम्, वाचा-वाणी, मनः-चित्तं वा, इः - वाक्यालङ्कारे, तथा एकतः - सर्वद्वन्द्वविनिर्मुक्तभावत आगति:-रोगशोकादिद्वन्द्वेषु प्रत्यागमनम्, चैव - समुच्चये, तदेतत् सर्वमपि कर्माभावात् कर्मण एकान्तिकात्यन्तिकविरहात्, न विद्यते सिद्धस्य कदापि नैव भवति, तथा च पारमर्षम् - दग्धे बीजे यथात्यन्तं प्रादुर्भवति नाङ्कुरः। कर्मबीजे
१. तत्त्वार्थभाष्यकारिकायाम् ।।२/१२-१४।। २. प्रशमरती । ।२९१-२९३ ।।