Book Title: Rushibhashitani Part 1
Author(s): 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 86
________________ Re-ऋषिभाषितानि - -१२७ शिष्टजन:-मुनितया सिद्धजनेभ्योऽवशिष्टजनः, मुनिभिन्नजन इत्यर्थः, स इवाऽऽज्ञाय - आ - मर्यादया-इदं सुन्दरमिदं नेतिलक्षणया, ज्ञात्वा - विषयाननुभूय अमुनिः - पुद्गलेष्वप्रवृत्तिलक्षणमौनभाववञ्चितः। कथं तर्हि मुनिरित्याह- सङ्ख्याय - देहात्मविवेकबुद्ध्याऽवबुद्ध्य, अज्ञाय - विषयशून्यतामुपगम्य, मुनिः - पारमार्थिकमौनभावसम्पन्नो भवति। अन्वाह रागद्वेषक्षयादेति ज्ञानी विषयशून्यताम्। छिद्यते भिद्यते वाऽयं हन्यते वा न जातुचित् ।। ब्रुवन्नपि हि न ब्रूते गच्छन्नपि न गच्छति। स्थिरीकृतात्मतत्त्वस्तु पश्यन्नपि न पश्यति।। किमिदं कीदृशं कस्य कस्मात् क्वेत्यविशेषयन्। स्वदेहमपि नावैति योगी योगपरायणः।। तदा च परमैकाग्र्याद् बहिरर्थेषु सत्स्वपि। अन्यन्न किञ्चनाभाति स्वमेवात्मनि पश्यतः - इति । पुद्गलसम्बन्धितया ज्ञाने, स्वकीयतयाऽज्ञानेऽप्येतदुपपन्नम्। यथाभिहितम् - न मे मृत्यु कुतो भीतिर्न मे व्याधिः कुतो व्यथा। १. च - सिद्रायणे ब्व आणच्चा अमुणी संखाए अणच्चा एसे तातिते । झ - सिट्ठयणे ब्ब आणच्चा अमुणी, संखाए अणच्चा एसे तातिते । द - सहि अणे व्च आणच्च मुणी। त - सिट्ठयणे व्व आणाच्चा अमुणी संखाए य गच्चा एसे तातिते । थ - सिद्धि आण व्य मुणी। ग - सहिअ णेव आणच्च मुणी संखाए अणच्चाए से तातिते । घ- संखाए य गच्चा एसे तातिते । क - संखाए आणच्चाए से तातिते । ज - सिट्ठिआणच्चा पुणी संखाए अणच्चाए से त्तातिते । ख - सिट्ठि आणच्च पुणी संताखाए अणच्चाए से तातिते। २. अध्यात्मसारे ।।१५-४७।। ३. इष्टोपदेशे ।।४१-४२ ।। ४. तत्त्वानुशासने । १७२।। १२८ आर्षोपनिषद् - नाहं बालो न वृद्धोऽहं न युवैतानि पुद्गले - इति । एष तायिकः-त्राता, स्वपरयोः। एतच्च विवक्षान्तरम्, तेन नाग्रिमग्रन्थविरोधः। केनैवमुदितमित्याह- मङ्खलिपुत्रेणार्हतर्षिणोदितम्। एष च तद्भवसिद्धिगामी प्रत्येकबुद्धोऽवसातव्यः, न तु श्रीवीरजिनप्रद्वेषी गोशालकः, तस्यानन्तसंसारित्वात्। मुनेश्चानेकपर्यायान्तराणि, यथा - तिन्ने ताई दविए वई अ दंत विरए अ - इत्यादि । तत्र तायिपर्यायं विवेचयति से एजति वेयति खुब्मति घट्टति फंदति चलति उदीरेति, तं तं भावं परिणमति, ण से ताती ॥११-२॥ सः - यः कश्चिज्जीवः, एजते- कम्पते, एज़ कम्पने - इति वचनात् , व्येजते - विविधं कम्पते, क्षुभ्यति - पृथिवीं प्रविशति, क्षोभयति वा पृथिवीम्, घट्टयति सर्वदिक्षु चलति, पदार्थान्तरं वा स्पृशति, स्पन्दते - किञ्चिच्चलति, स्पदि किञ्चिच्चलने - इति वचनात्, चलति - स्थानान्तरं गच्छति, उदीरयति - प्राबल्येन प्रेरयति, पदार्थान्तरं वा प्रतिपादयति। शेषक्रियासङ्ग्रहार्थमाह - तं तं भावं परिणमति - उत्क्षेपणापक्षेपणाकुञ्चनप्रसारणादिकं परिणाम यातीत्यर्थः। एवमेजनादिपरिणतमुद्दिश्य विधेयमाह- न स तायी - त्राता, षट्कायहिंसायाः पूर्णतया विरतत्वेन तद्रक्षक इत्यर्थः। एवमस्य मुनेः १. इष्टोपदेशे ।।२९ ।। २. दशवकालिकनियुक्तौ ।।३४५ ।। ३. व्याख्याप्रज्ञप्तिवृत्तौ । ४. पाणिनीय - धातुपाठे ।।२३४।।

Loading...

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141