________________
Re-ऋषिभाषितानि -
-१२७ शिष्टजन:-मुनितया सिद्धजनेभ्योऽवशिष्टजनः, मुनिभिन्नजन इत्यर्थः, स इवाऽऽज्ञाय - आ - मर्यादया-इदं सुन्दरमिदं नेतिलक्षणया, ज्ञात्वा - विषयाननुभूय अमुनिः - पुद्गलेष्वप्रवृत्तिलक्षणमौनभाववञ्चितः। कथं तर्हि मुनिरित्याह- सङ्ख्याय - देहात्मविवेकबुद्ध्याऽवबुद्ध्य, अज्ञाय - विषयशून्यतामुपगम्य, मुनिः - पारमार्थिकमौनभावसम्पन्नो भवति। अन्वाह
रागद्वेषक्षयादेति ज्ञानी विषयशून्यताम्। छिद्यते भिद्यते वाऽयं हन्यते वा न जातुचित् ।। ब्रुवन्नपि हि न ब्रूते गच्छन्नपि न गच्छति। स्थिरीकृतात्मतत्त्वस्तु पश्यन्नपि न पश्यति।। किमिदं कीदृशं कस्य कस्मात् क्वेत्यविशेषयन्। स्वदेहमपि नावैति योगी योगपरायणः।। तदा च परमैकाग्र्याद् बहिरर्थेषु सत्स्वपि। अन्यन्न किञ्चनाभाति स्वमेवात्मनि पश्यतः - इति ।
पुद्गलसम्बन्धितया ज्ञाने, स्वकीयतयाऽज्ञानेऽप्येतदुपपन्नम्। यथाभिहितम् - न मे मृत्यु कुतो भीतिर्न मे व्याधिः कुतो व्यथा। १. च - सिद्रायणे ब्व आणच्चा अमुणी संखाए अणच्चा एसे तातिते । झ - सिट्ठयणे ब्ब आणच्चा अमुणी, संखाए अणच्चा एसे तातिते । द - सहि अणे व्च आणच्च मुणी। त - सिट्ठयणे व्व आणाच्चा अमुणी संखाए य गच्चा एसे तातिते । थ - सिद्धि आण व्य मुणी। ग - सहिअ णेव आणच्च मुणी संखाए अणच्चाए से तातिते । घ- संखाए य गच्चा एसे तातिते । क - संखाए आणच्चाए से तातिते । ज - सिट्ठिआणच्चा पुणी संखाए अणच्चाए से त्तातिते । ख - सिट्ठि आणच्च पुणी संताखाए अणच्चाए से तातिते। २. अध्यात्मसारे ।।१५-४७।। ३. इष्टोपदेशे ।।४१-४२ ।। ४. तत्त्वानुशासने । १७२।।
१२८
आर्षोपनिषद् - नाहं बालो न वृद्धोऽहं न युवैतानि पुद्गले - इति ।
एष तायिकः-त्राता, स्वपरयोः। एतच्च विवक्षान्तरम्, तेन नाग्रिमग्रन्थविरोधः।
केनैवमुदितमित्याह- मङ्खलिपुत्रेणार्हतर्षिणोदितम्। एष च तद्भवसिद्धिगामी प्रत्येकबुद्धोऽवसातव्यः, न तु श्रीवीरजिनप्रद्वेषी गोशालकः, तस्यानन्तसंसारित्वात्।
मुनेश्चानेकपर्यायान्तराणि, यथा - तिन्ने ताई दविए वई अ दंत विरए अ - इत्यादि । तत्र तायिपर्यायं विवेचयति
से एजति वेयति खुब्मति घट्टति फंदति चलति उदीरेति, तं तं भावं परिणमति, ण से ताती ॥११-२॥
सः - यः कश्चिज्जीवः, एजते- कम्पते, एज़ कम्पने - इति वचनात् , व्येजते - विविधं कम्पते, क्षुभ्यति - पृथिवीं प्रविशति, क्षोभयति वा पृथिवीम्, घट्टयति सर्वदिक्षु चलति, पदार्थान्तरं वा स्पृशति, स्पन्दते - किञ्चिच्चलति, स्पदि किञ्चिच्चलने - इति वचनात्, चलति - स्थानान्तरं गच्छति, उदीरयति - प्राबल्येन प्रेरयति, पदार्थान्तरं वा प्रतिपादयति। शेषक्रियासङ्ग्रहार्थमाह - तं तं भावं परिणमति - उत्क्षेपणापक्षेपणाकुञ्चनप्रसारणादिकं परिणाम यातीत्यर्थः।
एवमेजनादिपरिणतमुद्दिश्य विधेयमाह- न स तायी - त्राता, षट्कायहिंसायाः पूर्णतया विरतत्वेन तद्रक्षक इत्यर्थः। एवमस्य मुनेः
१. इष्टोपदेशे ।।२९ ।। २. दशवकालिकनियुक्तौ ।।३४५ ।। ३. व्याख्याप्रज्ञप्तिवृत्तौ । ४. पाणिनीय - धातुपाठे ।।२३४।।