Book Title: Rushibhashitani Part 1
Author(s): 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 90
________________ ऋषिभाषितानि इसिणा बुझतं । । १२-१॥ यावत्तावल्लोकैषणा - इष्टेषु शब्दादिषु प्रवृत्तिरनिष्टेषु तु हेयबुद्धिः । तावत्तावद्वित्तैषणा - इष्टानिष्टप्रवृत्तिनिवृत्तिसाधनमार्गणा । तन्मार्गणया च लोकैषणावृद्धिः, सफलत्वेऽपि तृष्णावृद्धिहेतुत्वात्, उक्तं च न जातु कामः कामानामुपभोगेन शाम्यति । हविषा कृष्णवर्त्मेव भूय एवोपवर्द्धते - इति । ततः परस्परप्रयोजकतां दर्शयति यावत्तावद्वित्तैषणा तावत्तावल्लोकैषणेति । अत्र यावदित्येव वक्तव्ये यद् यावत्तावदित्यादिभणनं तत् समयपरिभाषया । एवं च दुरुपरति लोकैषणादिविषचक्रमित्याह - स च यः कश्चिन्मुमुक्षुः, लोकैषणां च वित्तैषणां च परिज्ञाय ज्ञप्रत्याख्यानपरिज्ञाभ्याम्, गोपथेन गच्छेत् यथा गौश्चरत्येवमविशेषेण भिक्षार्थमटनं कुर्यात् । न नैव, महापथेन गच्छेत् राजमार्गेणैव चरन् ईश्वरश्रेष्ठ्याद्युच्चकुलेष्वेव यायात्, लोकैषणादिप्रसङ्गात्, कुलमुच्चावयं पारमर्षविराधनापत्तेश्च । इति केनैवमुदितमित्याह- याज्ञवल्क्येनार्हतर्षिणोदितम्। अविशेषभिक्षाचर्यामेव स्पष्टयति तं जहा तद्यथा - सया १३५ १. आचाराङ्गे ।।१-४-१ ।। वृत्तौ । २. मनुस्मृती । । २ ९४ ।। ३ तुलना बृहदारण्यकोपनिषदि याज्ञवल्क्यवचसा एतं वै तमात्मानं विदित्वा ब्राह्मणः पुत्रैषणायाश्च वित्तैषणायाश्च लोकैषणायाश्च व्युत्थावाथ भिक्षाचर्याश्वरन्ति या ह्येव पुत्रेपणा सा वित्तैषणा या वित्तपणा सा लोकैषणोभे होते एपणे एव भवतः ।।३-५-१ ।। ४ दशवैकालिके ।।५-२-२५ ।। १३६ जहा कवोता य कविंजला य, गाओ चरंती इह पातरासं । एवं मुणी गोयरियप्पविट्ठे, णो आलवे णो वि य संजलेज्जा ।।१२- २।। यथा कपोता: - पारापताः, कपिञ्जला:- चातकपक्षिणः, गावः - धेनवः, चौ- समुच्चयार्थी, चरन्तीह प्रातराशम् - प्राभातिकभोजनम्। तदा प्राय एषां भोजनभावात्प्रातरभिधानम्, न तु कालनियमार्थम् । एवं मुनिः प्रवचनप्रतिपादितपिण्डैषणादिविधिमन्ता, गोचर्याम् - भिक्षाटनम्, प्रविष्टो न आलपेत् इषदप्यालापं न कुर्यात्, नियट्टिज्ज अयंपिरो 'इत्यागममनुस्मरन्। न चैवं दोषपरिहाराद्यनुपपत्तिः, उग्गमं से य पुच्छिज्जा कस्सट्ठा केण वा कडं, दिंतियं पडियाइक्खे न मे कप्पइ तारिसं - इत्याद्यागमविरोधश्चेति वाच्यम्, नो आलवे- इत्यनेन कथाप्रबन्धादेरेव प्रतिषेधनात्, यथोक्तम् - कहं च न पबंधिज्जा - इति । ३ - - आर्षोपनिषद् नापि च सञ्ज्वलेत् - परीषहोपसर्गनिपाते सपदि कुप्येत् । एतदभिधानं भिक्षाचर्यायां तदुदीरणसम्भवात् उक्तं च - बावीसं परीसहा भिक्खायरियाए उदीरिज्जंति इति । किञ्चालाभमात्रेणापि तत्सम्भवः, अत एवार्षम् अदेंतस्स न कुप्पेज्जा - इति । अथ मा भूत् सञ्ज्वलनम्, उपायादावर्जयित्वा याचने त्वदोष इति - १. दशवैकालिके ।।५-१-२३ ।। २. दशवैकालिके ।।५-१-५६ ।। ३. दशवैकालिके ।।५२-१५ ।। ४. दशवैकालिके ।।५-२-८ ।। ५. आवश्यकवृत्ती । ६. दशवैकालिके । ॥५ २-२८ ।।

Loading...

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141