Book Title: Rushibhashitani Part 1
Author(s): 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 85
________________ Re-ऋषिभाषितानि - १२५ कृत्यम्। परमभियोक्तुकामस्य - अभिभवितुकामस्य, शस्त्रकृत्यम्'- कुन्तादिप्रयोगकरणम्, शास्त्रकृत्यं वा - दण्डनीत्यादिप्रतिपादकशास्त्राभिहितोक्तिप्रयोगकरणम्। ___अथ कथं भीतस्य प्रव्रज्या शरणं भवतीत्यत्राह - क्षान्तस्य, क्रोधादिनिग्रहेण, दान्तस्य, इन्द्रियनोइन्द्रियदमेन, गुप्तस्य - कूर्मवत्सलीनस्य, जितेन्द्रियस्य- विषयेषु रागादिनिरोद्धः, तव, एतेभ्योऽनन्तरोक्तेभ्यः प्रपातादिभ्यो भयेभ्य एकमपि भयं न भवति। प्रव्रजितस्य सामायिकपरिणत्या शरीरादिषु निरभिष्वङ्गत्वान् मरणादिभयाभावात्, अचिरादेव मरणादेर्विमुक्तिभावाच्च। एतदेवाह- एवम् - क्षान्त्याद्यनुपालनेन, स सिद्ध इत्यादि प्राग्वत्। अत्रेयं पश्चाद्वक्तव्यता - एवं देवेनामात्यः स्ववाचा भीतस्य प्रव्रज्या श्रेयसीत्यभ्युपगमं कारयित्वैवमुक्तः - भीतस्य प्रव्रज्या शरणमिति यदि प्रतिज्ञायते तदा सुष्ठु ते मतम्, भयाभिभूतस्त्वमिदानीमसीत्येतदर्थमाजानीहि- अनुष्ठानद्वारेणावबुध्यस्व प्रव्रज्यां विधेहीति यावत्। एवं पुनः पुनरुक्त्वा स देवः प्रतिगतः। ततस्तेतलिपुत्रस्य शुभेन परिणामेन समुत्पन्नं जातिस्मरणम्। ज्ञातं चानेन यथाऽहमिहैव जम्बूद्वीपे महाविदेहक्षेत्रे पुष्कलावतीविजये पुण्डरीकिणीराजधान्यां महापद्मो राजाऽभवम्। ततः प्रवज्य स्थविरभगवदन्तिके, अधीत्य चतुर्दशपूर्वाणि, प्रतिपाल्यानल्पवत्सराणि श्रामण्यपर्यायम्, मासिकसंलेखनयोपपन्नो महाशुक्रे कल्पे। ततश्च्युत्वाऽत्र तेतलिपुत्रः सञ्जातः। १. अत्र षष्ठाङ्गे सहावकिच्चं इति पाठः । तद्वृत्तिः सहायकृत्यम्-मित्रादिकृतं सहायकर्म । १२६ - - आर्षोपनिषद् - ___ तस्मात् पूर्वभवाचीर्णमहाव्रताङ्गीकार एव मम श्रेयानित्येवं सम्प्रेक्ष्य स्वयमेव महाव्रतानि प्रतिपद्य प्रमदवनोद्यानेऽनुचिन्तयतोऽस्य पूर्वाधीतानि चतुर्दशपूर्वाणि स्वयमेव स्मृतौ समुपस्थितानि। ततोऽस्य तेतलिपुत्रानगारस्य शुभध्यानानलपरिप्लुष्टघातिकर्मणः समुत्पन्ने केवलज्ञानदर्शने। यथासन्निहितैर्देवैर्दिव्यमहोत्सवः कृतः। इतश्चैतद्व्यतिकरोऽज्ञायि राज्ञा। चिन्तितं चानेन - एवं खलु मयाऽवज्ञातस्तेतलिपुत्रः प्रव्रजितः, तस्मादहं तं नमस्यामि, भूयो भूयः क्षाम्यामीति। ततोऽसौ चातुरङ्गीसेनापरिवृतस्तेतलिपुत्रकेवलिपादान्ते समागतः। नमस्कृतोऽनेन केवली, पुनः पुनः क्षामितश्च। केवलिनाऽपि भगवता धर्मकथा कृता। प्रतिबुद्धो राजा, जातश्च श्रमणोपासकः। केवल्यपि भगवान् प्रभूतसंवत्सराणि परिपाल्य केवलिपर्यायं सिद्धः। अत्रैवमुपनयः जाव न दुक्खं पत्ता माणब्भंसं च पाणिणो पायं। ताव न धम्मं गेण्हंति भावओ तेयलीसुओव्व।। इति दशमे तेतलिपुत्रनामाध्ययन आर्षोपनिषद्। ॥ अथैकादशमाध्यायः।। तदेवं प्रत्येकबुद्धस्यापि चरमशरीरिणः केवलं मुनिभावोपादानानन्तरमेव सञ्जातमिति तत्रैव यतितव्यम्। तद्यत्नश्च तद्विज्ञानं विना दुर्घट इति तदेव प्रस्तौति “सिट्ठयणे व्व आणच्चा अमुणी, संखाए अणच्चा एसे तातिते।" मंखलिपुत्तेण अरहता इसिणा बुइयं ।।११-१।। १. अस्य सक्षेपवक्तव्यता (श्रीऋषिमण्डलप्रकरणे) - पुक्खलवईइ पुंडरिगिणीइ राया अहेसि महापउमो । चउदसपुब्बी संलेहणाइ पत्तो महासुक्के । । तत्तो तेयलिपुत्तो वयणेण पुट्टिलाइ जाइसरो। केवलनाणी भासइ तेयलिनामं सुअज्झयणं । ।७४-७५ ।।

Loading...

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141