Book Title: Rushibhashitani Part 1
Author(s): 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 84
________________ Re-ऋषिभाषितानि - -१२३ अचिरेण य बालसूरगुंजद्धपुंजणिकरपकासं झियाइ इंगालभूतं गिहं, आउसो ! तेतलिपुत्ता ! कत्तो वयामो? ततः सा पोट्टिला मूषिकारदुहिता पञ्चवर्णानि, किङ्किणी - क्षुद्रघण्टिका, ताभिः सहितानि सकिङ्किणिकानि प्रवरवस्त्राणि परिधायान्तरिक्षप्रतिपन्ना - आकाशगर्ता , एवमवादीत् - आयुष्मान् ! तेतलिपुत्र ! एहि तावद् आजानीहि - वक्ष्यमाणरीत्या सर्वतो भयमित्यवबुध्यस्व। यत् पुरतो विस्तीर्णो गिरिशिखरकन्दरप्रपातः, पृष्ठतः कम्पमानमिव मेदिनीतलम्, सङ्कृष्यमाण इव पादपः, निस्फोटयन्निवाम्ब- रतलम्, सर्वतमोराशिरिव पिण्डितः, प्रत्यक्षमिव स्वयं कृतान्तो भीमरवम् - भयङ्करगर्जनाम्, कुर्वन् महावारण:बृहत्कायो गजः समुत्थितः। उभयतः पार्थं चक्षुर्निपाते - यत्र यत्रापि दृष्टिप्रसरः सम्भवति तत्र तत्र, सुप्रचण्डधनुर्यन्त्रविप्रमुक्ताः पुङ्खमात्रावशेषा धरणीप्रवेशिनः शरा निपतन्ति । हुतवहज्वालासहस्रसङ्कुलं समन्ततः प्रदीप्तं धगधग इति शब्दायते सर्वारण्यम्। अचिरेण च बालसूरगुञ्जार्द्धपूजनिकरप्रकाशं अङ्गारभूतं गृहं मायते- अनुपशान्तदाहं वर्त्तते, १. उपासकदशाङ्गे । अ.२ ।। २. प्रपातः - गर्त्तः ३. यमः ४. गुणविन्यासस्थानं कर्तरीत्यपरनाम। ५. पुर्खेत्यादिना वेगप्रकर्षोऽभिहितः। ६. अग्निः। ७. सूर्यः, स च बालत्वोक्तेः प्रातःकालीनो ज्ञेयः, स हि रक्तवर्णो भवतीति। ८. चणोठी - इति लोके प्रसिद्धा, तदर्धं रक्तवर्ण भवति । ९. तद्वदतीव दीप्तो रक्तवर्णः प्रकाशो यस्य सः। १२४ - आर्षोपनिषद् - अथवा ध्यायतीव ध्यायति, अग्नेरविध्यानेन जागर्तीवेत्यर्थः। एवं सर्वस्यापि भयानकत्वात् स्थानान्तरस्य चाभावादायुष्मंस्तेतलिपुत्र ! क्व व्रजावः ? व्याधवृन्दाऽऽवृतकान्दिशीकशूकरदशामुपगतोऽसि त्वमिति भावः। तदेतत् सर्वमतिभयावहं दिव्यानुभावेन दृष्ट्वा तेतलिपुत्रः सम्बुद्धः। ततो यदभवत्तदाहतते णं से तेतलिपुत्ते अमच्चे पोट्टिलं मूसियारधूतं एवं वयासी पोट्टिले ! एहि ता आयाणाहि, भीयस्स खलु भो ! पव्वज्जा, अभिउत्तस्स सवहणकिच्चं, मातिस्स रहस्सकिच्चं, उक्कंठियस्स देसगमणकिच्चं, छुहियस्स भोयणकिच्चं, पिवासियस्स पाणकिच्चं, परं अभिउंजिउकामस्स सस्थकिच्चं, खंतस्स दंतस्स गुत्तस्स जितिंदियस्स एत्तो ते एक्कमवि ण भवइ । एवं से सिद्ध बुद्धे विरए विपावे दंते दविए अलंताई णो पुणरवि इच्चत्थं हव्वमागच्छइ त्ति बेमि।। ततः स तेतलिपुत्रोऽमात्यः पोट्टिलां मूषिकारदुहितरमेवमवादीत् - पोट्टिले ! एहि तावदाजानीहि, भीतस्य खलु भोः ! प्रव्रज्या, शरणं भवतीति गम्यते। अत्रोदाहरणान्याहयथाऽभियुक्तस्य - सम्पादितदूषणस्य शपथनकृत्यम् प्रत्ययकरणं दूषणापोहेन प्रतीत्युत्पादनमिति यावत्। मायिनः - वञ्चकस्य रहस्यकृत्यम् - आत्मनो गुप्तत्वकरणं शरणमिति सर्वत्र गमनीयम्। उत्कण्ठितस्य-स्वजनदर्शनोत्सुकस्य, देशगमनकृत्यम् स्वदेशं प्रति गमनकरणम्। बुभुक्षितस्य भोजनकृत्यम्। पिपासितस्य पान

Loading...

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141