Book Title: Rushibhashitani Part 1
Author(s): 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 78
________________ न-ऋषिभाषितानि - -१११ तथा दग्धे नारोहति भवाङ्कुरः - इति । ननु भवतु पूर्वबद्धकर्मात्यन्तिकक्षयः, नवीनकर्मानुभावेन पुनरागतिर्भविष्यतीति चेत् ? न, कस्मान्नेत्याह परं णवग्गहाभावा सुही आवरणक्खया। अथिलक्खणसब्भावा निच्चो सो परमो धुवं।।९-३४।। परम् - सिद्धावस्थावाप्त्यनन्तरम्, नवम् - नूतनं कर्म, तद्ग्रहाभावात्, कर्मादानहेतुमिथ्यात्वादिविरहात्। एवं च मूलं नास्ति कुतः शाखेति नीत्या कर्मबन्धाभावः। स्यादेतत्, मा भूत्सिद्धस्य नवकर्मबन्धः पुनरागतिश्च, अन्नादिभोगाभावादस्य सुखमपि नेत्यनिष्टोपदेशोऽयमस्माकमिति चेत् ? न, अन्नादिभोगो हि बुभुक्षादिनिवृत्तिप्रयोजनः, तन्निवृत्तिरपि स्वास्थ्यसम्पादनायेत्यत्राविगानम्। स्वास्थ्यं तु सिद्धानां सर्वदैवेति निरर्थक एवैषामन्नादिभोगः, नीरुज औषधभोगवत्। रताद्यप्येषां मोहाभावादकिञ्चित्करम्, कण्ड्वाद्यभावे कण्डूयनादिवत्। ननु तथापि किंहेतुकमस्य सुखं स्यादिति चेत् ? अत्राहसुखी - निरुपमसुखसम्पन्नः, आवरणक्षयात् - अव्याबाधसुखलक्षणात्मस्वभावावारकवेदनीयकमैकान्तिकात्यन्तिकक्षयात्। ततश्च निरुपाधिकसुखाविर्भावः, यथोदितम् - नवि अस्थि माणुसाणं तं सोक्खं नेव सव्वदेवाणं। जं सिद्धाणं सुक्खं अव्वाबाहं उवगयाणं।। सुरगणसुहं समत्तं सव्वद्धापिंडिअं अणंतगुणं। न य पावइ मुत्तिसुहं णंताहिवि वग्गवग्गूहिं।। सिद्धस्स सुहो रासी सव्वद्धापिंडिओ जइ १. तत्त्वार्थभाष्यसम्बन्धकारिकायाम् ।।२-८।। ११२ आर्षोपनिषद् - हविज्ज। सोऽणंतवग्गभइओ सव्वागासे न माइज्जा।। जइ नाम कोइ मिच्छो नगरगुणे बहुविहे विआणतो। न चएइ परिकहेउं उवमाए तहिं असंतीए।। इअ सिद्धाणं सुक्खं अणोवमं नत्थि तस्स ओवम्म । किंचि विसेसेणित्तो सारिक्खमिणं सुणह वुच्छं।। जह सव्वकामगुणिअं पुरिसो भोत्तूण भोअणं कोई। तण्हाछुहाविमुक्को अच्छिज्ज जहा अमिअतित्तो।। इअ सव्वकालतित्ता अउलं निव्वाणमुवगया सिद्धा। सासयमव्वाबाहं चिटुंति सुही सुहं पत्ता।। निच्छिन्नसव्वदुक्खा जाइजरामरणबंधणविमुक्का अव्वाबाहं सुक्खं अणुहुंती सासयं सिद्धा - इति । ___अथ मुक्तिसुखसाधनमस्माकं प्रत्यागमबाधितम्, अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशत इति श्रुतेर्मुक्तौ सुखदुःखोभयविरहात् । इतश्च तद्बाधः, विवेकहानस्याशक्यतयाऽनिष्टहानाय घटमानस्येष्टस्यापि हानादिति । ___ मैवम्। यतः सुखदुःखोभयाभावः सिद्धोऽपि न सुखसत्तां निराकर्तुं प्रत्यलः, एकवत्यपि द्वित्वावच्छिन्नाभावप्रत्ययात्। अवश्यमेतदेवमभ्युपगन्तव्यम्, अन्यथा श्रुत्यन्तरबाधप्रसङ्गात्, यथोदितम् - नित्याऽऽनन्दः, आनन्द आत्मा, आनन्दघनमव्ययम् , आनन्दत्वं सदा मम, आनन्दत्वान्न मे दुःखम् इत्यादि। एतेन विवेकहानस्याशक्यत्वमपि निरस्तम्, आवरणक्षयेनैव १. आवश्वकनियुक्ती ।।९८०-९८६, ९८८।। २. छान्दोग्योपनिषदि ।।८-१२-१।। ३. न्यायसूत्रभाष्यम् ।।१-१-२२ ।। ४. शरभोपनिषदि ।।२०।। ५. तैत्तिरीयोपनिषदि ।।२५।। ६. अध्यात्मोपनिषदि ।।६१।। ७. वराहोपनिषदि ।।३-१०।। ८. आत्मप्रबोधोपनिषदि । ।३०।।

Loading...

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141