Book Title: Rushibhashitani Part 1
Author(s): 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 81
________________ ११८ Re-ऋषिभाषितानि ॥ अथ दशमाध्ययनम् ।। अनन्तराध्ययने जिनवचनसम्परिभावनाफलत्वेन सिद्धिगतिरभिहिता, अत्र तु तन्निदर्शनमुच्यत इत्येवंसम्बन्धेनायातस्यास्याध्ययनस्येयं पूर्ववक्तव्यता - तेतलीपुरे कनकरथो राजा, पद्मावती राज्ञी, तेतलिपुत्रोऽमात्यः। स प्रव्रजितुकामां स्वपत्नी पोट्टिलां 'देवभूयं गतया त्वयाऽहं प्रतिबोध्यः' - इत्यङ्गीकारणपूर्वकं विससर्ज। साप्यधीत्यैकादशाङ्गानि परिपाल्यानल्पवत्सरश्रामण्यपर्याय मासिकानशनेनोपपन्ना सुरलोके। इतश्च मरणमुपगतो राजा। अभिषिक्तस्तत्स्थाने तत्पुत्रः कनकध्वजः। स च पूर्वोपकारित्वेन बहुमेने तेतलिपुत्रम्। ततस्तेतलिपुत्रोऽमात्यो राजकृतैः सन्मानसत्काराभ्युत्थानपर्युपासनभोगोपनिमन्त्रणैरत्यन्तसुखितः सन् न सम्बुबोध पोट्टिलदेवेनाभीक्ष्णं प्रतिबोध्यमानोऽपि। ततः स पोट्टिलदेवोऽस्य राजमान्यतामनपाकृत्य प्रतिबोधसम्भवमपश्यन् राजानं तेतलिपुत्राद्विपरिणामयाञ्चकार। ततोऽवज्ञापरान् नृप-ईश्वर-बाह्याभ्यन्तरपर्षज्जनानवलोक्याशङ्कय च सर्वतोऽपायान् प्रयतेऽसौ मर्तुं विषादिप्रयोगः, विफलीभूताश्च ते प्रयोगा दिव्यानुभावेन। ततोऽतिविषमावस्थामुपयातस्तेतलिपुत्र इदं निजगाद "को कं ठावेइ ? णऽण्णत्थ सगाई कम्माईं इमाइं। सद्धेयं खलु भो ! समणा वदंती, सद्धेयं खलु माहणा०, आर्षोपनिषद् - अहमेगोऽसद्धेयं वदिस्सामि।" तेतलिपुत्तेण अरहता इसिणा बुइयं। कः कं स्थापयति ?, सुखे दुःखे वा, नान्यत्र स्वकानि कर्माणीमानि, बुद्धिस्थानि, निमित्तमात्रत्वादन्येषाम्, यदुक्तम् - सव्वो पुवकयाणं कम्माणं पावए फलविवागं। अवराहेसु गुणेसु य निमित्तमेत्तं परो होइ - इति । किन्त्विदमत्याश्चर्यावहं म उपस्थितमित्याह- श्रद्धेयम् - सुप्रत्येयम्, खलु भोः ! श्रमणा वदन्ति, आत्मपरलोकपुण्यपापादिकमर्थजातम्, अतीन्द्रियस्यापि तस्य प्रमाणाबाधितत्वेन श्रद्धानगोचरत्वात्। एवं श्रद्धेयं खलु ब्राह्मणा वदन्ति। अहं पुनरेकोऽश्रद्धेयं वदिष्यामि, पुत्रादिपरिवारयुक्तस्यात्यर्थं राजसम्मतस्य चापुत्रादित्वमराजसम्मतत्वं च विषपाशकजलाग्निभिरहिंस्यत्वं चात्मनः प्रतिपादयतो मम वचनस्य युक्तिबाधितत्वेन जनप्रतीतेरविषयत्वेनाश्रद्धेयत्वादिति। एवं तेतलिपुत्रेणार्हतर्षिणोदितम्। इमे च विशेषणेऽनागतनयापेक्षया, केवलोत्पत्त्पनन्तरं वा देशनायां स्वचरितानुवादं कुर्वन्तमपेक्ष्योक्त इति सम्भाव्यते। अश्रद्धेयं वदिष्यामीति प्रतिज्ञातं निर्वाहयति सपरिजणं ति णाम ममं 'अपरिजणो'त्ति को मे तं सद्दहिस्सती ? सपुत्तं पि णाम ममं अपुत्ते'त्ति को मे तं सद्दहिस्सती ? एवं समित्तं पि णाम ममं०?, सवित्तं पि णाम ममं० ?, सपरिग्गहं पि णाम ममं ?, 'दाण १. विस्तरार्थो ज्ञाताधर्मकथायाम् ।।१-१४ ।। २. देवस्य भावः, भू + क्यप् । १. सम्बोधसप्ततिकायाम् ।।१२०।।

Loading...

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141