________________
११८
Re-ऋषिभाषितानि
॥ अथ दशमाध्ययनम् ।। अनन्तराध्ययने जिनवचनसम्परिभावनाफलत्वेन सिद्धिगतिरभिहिता, अत्र तु तन्निदर्शनमुच्यत इत्येवंसम्बन्धेनायातस्यास्याध्ययनस्येयं पूर्ववक्तव्यता - तेतलीपुरे कनकरथो राजा, पद्मावती राज्ञी, तेतलिपुत्रोऽमात्यः। स प्रव्रजितुकामां स्वपत्नी पोट्टिलां 'देवभूयं गतया त्वयाऽहं प्रतिबोध्यः' - इत्यङ्गीकारणपूर्वकं विससर्ज। साप्यधीत्यैकादशाङ्गानि परिपाल्यानल्पवत्सरश्रामण्यपर्याय मासिकानशनेनोपपन्ना सुरलोके।
इतश्च मरणमुपगतो राजा। अभिषिक्तस्तत्स्थाने तत्पुत्रः कनकध्वजः। स च पूर्वोपकारित्वेन बहुमेने तेतलिपुत्रम्। ततस्तेतलिपुत्रोऽमात्यो राजकृतैः सन्मानसत्काराभ्युत्थानपर्युपासनभोगोपनिमन्त्रणैरत्यन्तसुखितः सन् न सम्बुबोध पोट्टिलदेवेनाभीक्ष्णं प्रतिबोध्यमानोऽपि।
ततः स पोट्टिलदेवोऽस्य राजमान्यतामनपाकृत्य प्रतिबोधसम्भवमपश्यन् राजानं तेतलिपुत्राद्विपरिणामयाञ्चकार। ततोऽवज्ञापरान् नृप-ईश्वर-बाह्याभ्यन्तरपर्षज्जनानवलोक्याशङ्कय च सर्वतोऽपायान् प्रयतेऽसौ मर्तुं विषादिप्रयोगः, विफलीभूताश्च ते प्रयोगा दिव्यानुभावेन। ततोऽतिविषमावस्थामुपयातस्तेतलिपुत्र इदं निजगाद
"को कं ठावेइ ? णऽण्णत्थ सगाई कम्माईं इमाइं। सद्धेयं खलु भो ! समणा वदंती, सद्धेयं खलु माहणा०,
आर्षोपनिषद् - अहमेगोऽसद्धेयं वदिस्सामि।" तेतलिपुत्तेण अरहता इसिणा बुइयं।
कः कं स्थापयति ?, सुखे दुःखे वा, नान्यत्र स्वकानि कर्माणीमानि, बुद्धिस्थानि, निमित्तमात्रत्वादन्येषाम्, यदुक्तम् - सव्वो पुवकयाणं कम्माणं पावए फलविवागं। अवराहेसु गुणेसु य निमित्तमेत्तं परो होइ - इति ।
किन्त्विदमत्याश्चर्यावहं म उपस्थितमित्याह- श्रद्धेयम् - सुप्रत्येयम्, खलु भोः ! श्रमणा वदन्ति, आत्मपरलोकपुण्यपापादिकमर्थजातम्, अतीन्द्रियस्यापि तस्य प्रमाणाबाधितत्वेन श्रद्धानगोचरत्वात्। एवं श्रद्धेयं खलु ब्राह्मणा वदन्ति। अहं पुनरेकोऽश्रद्धेयं वदिष्यामि, पुत्रादिपरिवारयुक्तस्यात्यर्थं राजसम्मतस्य चापुत्रादित्वमराजसम्मतत्वं च विषपाशकजलाग्निभिरहिंस्यत्वं चात्मनः प्रतिपादयतो मम वचनस्य युक्तिबाधितत्वेन जनप्रतीतेरविषयत्वेनाश्रद्धेयत्वादिति। एवं तेतलिपुत्रेणार्हतर्षिणोदितम्। इमे च विशेषणेऽनागतनयापेक्षया, केवलोत्पत्त्पनन्तरं वा देशनायां स्वचरितानुवादं कुर्वन्तमपेक्ष्योक्त इति सम्भाव्यते। अश्रद्धेयं वदिष्यामीति प्रतिज्ञातं निर्वाहयति
सपरिजणं ति णाम ममं 'अपरिजणो'त्ति को मे तं सद्दहिस्सती ? सपुत्तं पि णाम ममं अपुत्ते'त्ति को मे तं सद्दहिस्सती ? एवं समित्तं पि णाम ममं०?, सवित्तं पि णाम ममं० ?, सपरिग्गहं पि णाम ममं ?, 'दाण
१. विस्तरार्थो ज्ञाताधर्मकथायाम् ।।१-१४ ।। २. देवस्य भावः, भू + क्यप् ।
१. सम्बोधसप्ततिकायाम् ।।१२०।।