________________
Re-ऋषिभाषितानि माण-सक्कारोवयार-संगहिते तेतलिपुत्तस्स सयणपरिजणे विरागं गते'त्ति को मे तं सद्दहिस्सती ?
सपरिजनम् - सपरिवारम्, इति नाम खेदे, मां अपरिजन' इति को मे तत् श्रद्धास्यति ? अत्र परिजनसद्भावमपेक्ष्य सपरिजनत्वम्, पराङ्मुखतया च ततोऽपेक्षितफलविरहादपरिजनत्वमिति ज्ञेयम्। एवं सपुत्रमपि नाम मां 'अपुत्र' इति को मे तत् श्रद्धास्यति ? एवं मित्र-वित्त-परिग्रहैरभिलापः सुगमः। परिग्रहः - दाराः।
दानम्- उत्सवादावभीष्टाऽऽभूषणादिवितरणम्, मानः - भावसारमात्मीयतया मननम्, सत्कारः - वस्त्रमाल्यादिप्रदानम्, उपचारः - व्यसनादौ प्रत्यवेक्षणप्रतितर्पणादिलक्षणः। एभिर्दानादिभिः सङ्ग्रहीतः सम्यक् स्वनिश्रायां रक्षितः, तेतलिपुत्रस्य स्वजनैः सहितः परिजनः स्वजनपरिजनः, विरागं गतः - तेतलिपुत्रविषयनिर्वेदमापन्नः, इति को मे तत् श्रद्धास्यति ?
अत्रान्तरेऽस्य समुत्पन्नो विकल्पः, नूनमभीक्ष्णं मन्निष्फलप्रतिबोधनकुपितया पोट्टिलदेवतया विहितमिदमित्याह
'जाति-कुल-रूव-विणओवयारसालिणी पोट्टिला मूसिकारधूता मिच्छं विप्पडिवन्ना' को मे तं सद्दहिस्सति ?
जाति:-मातृसत्का, कुलम्, पितृसत्कम्, रूपम्- शरीरसौन्दर्यम्, एतच्चाकृतौ गुणा वसन्तीति मिथ्याविप्रतिपत्ति१. ख-ज- सम्मत्तं पि णाम सदारं पि णागमसं। २. च- दाणमाणसक्कारोवयारसंगहिते त्ति को मे तं सहहिस्सति ?। ३. क-ख-ग-च-ज-तेतलिपुत्तस्स । घ-झ-त- तेतलिपुत्ते ससयण। ४. स्थानाङ्गे।।४-२।।
१२०
आर्षोपनिषद् - बाधकतयोक्तम्, विनयोपचारः - भर्तृपादप्रक्षालनादिकः, एभिविशिष्टैः शालिनी - शोभायमानाऽपि पोट्टिला मूषिकारदुहिता - कलादसुता, मिथ्या विप्रतिपन्ना - निर्दोषेऽपि मयि विरोधिभावमापन्ना। इति को मे तत् - अनन्तरोक्तं श्रद्धास्यति ?
आपद्गतो हि पुरुषः स्वकीयविज्ञानादिवैफल्यमनुपश्यनधिकतरं शोचते, इत्यन्याऽप्यस्य चिन्ता सञ्जाता - यथा सन्तु तावत्परिजनादेविप्रतिपत्तयः, मद्विज्ञानमेव शोचयामि, यत्तद्भावेऽप्येतादृशं व्यसनं प्राप्त इत्याह
'कालक्कमणीतिसत्थविसारदे तेतलिपुत्ते विसाद गते' त्ति को मे तं सद्दहिस्सति ?
कालक्रमेण पुराणपरम्परयाऽऽयातानि नीतिशास्त्राणि सामादिनीतिप्रतिपादकग्रन्थाः, तेषु विशारदः, अवन्ध्यतत्प्रयोगपटुप्रज्ञतया कोविदः। यथोक्तम्- तेयलिपुत्ते णामं अमच्चे सामदंडभेयउपप्पयाणनीइसुपउत्तनय विहण्णू - इति । सोऽयं तेतलिपुत्रो विषादं गतः - सुदुःसहमनःसन्तापमनुप्राप्तः, इति को मे तत् श्रद्धास्यति ? इदं पुनरश्रद्धेयतरमित्याहतेतलिपुत्तेण अमच्चेणं गिहं पविसित्ता तालपुडके विसे खातिते त्ति से वि य से विसे पडिहते' त्ति को मे तं सहहिस्सति ?, तेतलिपुत्तेणं अमच्चेणं महतिमहालयं रुक्खं दुरुहित्ता पासे छिण्णे 'तहा वि ण मए' त्ति को मे तं सद्दहिस्सति ?, तेतलिपुत्तेण महतिमहालयं
१. ज्ञाताधर्मकथाङ्गे।।१-१४।।