________________
• ऋषिभाषितानि
पासाणं गीवाए बंधित्ता अत्थाहाए पुक्खरिणीए अप्पा पक्खित्ते 'तत्थ वि य णं थाहे लद्धे' को मे तं सद्दहिस्सति ?, तेतलिपुत्तेण महतिमहालयं कट्ठरासिं पलीवेत्ता अप्पा पक्खित्ते 'से वि य से अगणिकाए विज्झाए' को मे तं सद्दहिस्सति ? तेतलिपुत्रेणामात्येन गृहं प्रविश्य तालपुटकं विषं
प्रतिबद्धसामर्थ्य
खादितम्। तस्यापि च तद्विषं प्रतिहतम् सञ्जातम्, इति को मे तत् श्रद्धास्यति ?
तथा तेतलिपुत्रेणामात्येन, महांश्चासावतिमहालयश्चेति महातिमहालय:, यद्वा लय इत्यस्य स्वार्थिकत्वान् महातिमहान् इत्यर्थः । तं वृक्षमारुह्य पाशश्छिन्न:, तथाऽपि न मृतः, इति को मे तत् श्रद्धास्यति ? अत्रानुक्तमपि ग्रीवायां पाशबन्धनादि ज्ञातव्यम् । यथोक्तम् - तते णं से तेतलिपुत्ते जेणेव असोगवणिया तेणेव उवागच्छति, उवागच्छित्ता पासगं गीवाए बंधति, बंधित्ता रुक्खं दुरुहति, दुरुहित्ता पासं रुक्खे बंधति, बंधित्ता अप्पाणं मुयति, तत्थ वि य से रज्जू छिन्ना - इति ।
अत्र यद्यपि छिन्नः - इत्यनेनैवामरणाऽऽक्षेपः, अत एवान्यत्ररज्जूछिन्ना को मेदं सद्दहिस्सति - इत्येवोक्तम्, तथापि यत् - तथापि न मृतः - इत्युक्तं तन्महातिमहतो वृक्षात् पतनस्यापि मृत्युहेतुत्वादिति सम्भाव्यते।
-
१२१
१. एतेन नागरजनप्रयुक्तविपप्रतिघातोपायोऽपोदितः । २ विपपदं प्राकृत उभयलिङ्गम् । ३. ज्ञाताधर्मकथाङ्गे ।।१-१४।। ४. ज्ञाता० । ।१-१४।।
आर्षोपनिषद्
तदनन्तरं तेतलिपुत्रेण महातिमहान्तं पाषाणं ग्रीवायां बद्ध्वाऽस्ताघायाम् – गभीरायाम्, पुष्करिण्याम् - लघुसरस्याम्, आत्मा-निजशरीरम्, प्रक्षिप्तः, मरणाशया तत्र सशिलं निमज्जनं कृतमित्याशयः । तत्रापि च स्ताघो लब्धः । पुष्करिण्यचिन्त्यरीत्या क्षणादेव तथाऽपास्तगाम्भीर्याऽभूत्, यथाहं पूर्णतया निमग्नोऽपि भावः। तत् को मे श्रद्धास्यति ? ततस्तेतलिपुत्रेण महातिमहान्तं काष्ठराशिं प्रदीप्याऽऽत्मा - स्वकायः, प्रक्षिप्तः, तन्मध्ये। तस्यापि च सोऽग्निकायो अनलचयः, विध्यातः, इति को मे तत् श्रद्धास्यति ? |
१२२
-
एवमपूरितमरणाशमत्यन्तं निर्वेदापन्नं तेतलिपुत्रं विज्ञाय पोट्टिलो देवस्तत्प्रतिबोधाय पोट्टिलारूपं विकुर्वति
तए णं सा पुट्टिला मूसियारधूता पंचवण्णाई सखिखिणिता वत्थाई पवर परिहिता अंतलिक्खपडिवण्णा एवं वयासी आउसो ! तेतलिपुत्ता ! एहि ता आयाणाहि पुरओ विच्छिण्णे गिरिसिहरकंदरप्पवाते; पिट्ठओ कंपेमाणे व्व मेइणितलं, साकड्ढते व पायवे, णिप्फोडेमाणे व्व अंबरतलं, सव्वतमोरासि व्व पिंडिते, पच्चक्खमिव सयं कर्तते, भीमरवं करेंते महावारणे समुट्ठिए; उभओ पासं चक्खुणिवाए सुपयंडधणुजंतविष्पमुक्का पुंखमेत्तावसेसा धरणिप्पवेसिणो सरा णिपतंति, हुयवहजालासहस्ससंकुलं समंततो पलित्तं धगधगेति सव्वारणं,