________________
Re-ऋषिभाषितानि - गोयमा ! दवट्ठयाए सासया भावट्ठयाए असासया - इति । __इतश्च जीवानां नित्यत्वादिसिद्धिः, सुखादियोगात्, तथाहुः सूरयः - परिणामी खलु जीवो सुहादिजोगतो होइ णेयन्वो। णेगंतणिच्चपक्खे अणिच्चपक्खे य सो जुत्तो - इति ।
इतश्च तन्निश्चयः, तथाप्रतीतेः, यथोक्तम्- अनेकान्तात्मकं वस्तु गोचरः सर्वसंविदाम् - इति । तथाप्रतीतिश्च-योऽहं बालोऽभवम्, स एवाहं युवा। नाहं बालः, अहं युवा। इति सर्वानुभवसिद्धा। अन्यथा तु वज्रलेपायमानाः कृतनाशादिदोषाः। दत्तग्रहः, अधिगतस्मृतिः, क्त्वाप्रत्ययः, इत्यादीनामपि सर्वथानुपपत्तिरिति निपुणं निभालनीयम्।
ननु चैकस्मिन्नेव वस्तुनि कथं नित्यानित्यत्वोभयधर्मसम्भव इति चेत् ? यथैवेकस्मिन्नेव देवदत्ते पितृत्वपुत्रत्वभ्रातृत्वाद्यनेकधर्मसम्भव इति गृहाण। एतदनभ्युपगमे तु जगद्व्यवहारानुपपत्तिरेव, उक्तं च - जेण विणा लोगस्स वि ववहारो सव्वहा न निव्वडइ। तस्स भुवणेक्कगुरुणो नमो अणेगंतवायस्स - इति । स एष जिनप्रवचनाभिहितार्थो नयवादगहनलीन इत्याह
गंभीरं सव्वओभई सव्वभावविभावणं। धण्णा जिणाहितं मग्गं सम्मं वेदेति भावओ।।९-३६।।
गम्भीरम् - तुच्छमत्यगम्यतयाऽगाधाभिप्रायम्, यथोक्तम् - १. व्याख्याप्रज्ञप्तौ ।।७-२-२७४ ।। अत्र संसारित्वादिविशेषणमन्तरेण सामान्यत एव जीवानुद्दिश्याभिधानान्मुक्तजीवानामपि नित्यत्वाधुभवताऽभिहितेति भावनीयम् । २. धर्मसङ्ग्रहण्याम् ।।१९४ ।। ३. न्यायावतारे ।।२९।। ४. सन्मतितकें ।।३-६९।। प्रक्षिप्तेयमिति प्रवादः।
आर्षोपनिषद् - गंभीरं जिणवयणं दुम्विन्नेयमनिउणबुद्धीए। तो मज्झत्थीहि इम विभावणीयं पयत्तेण - इति । तमेव विशेषयति - सर्वतोभद्रम्सर्वप्रकाराद्विचार्यमाणं कल्याणनिबन्धनम्, उक्तं च - दूरे करणं दूरम्मि साहणं तह पभावणा दूरे। जिणधम्मसद्दहाणं पि तिक्खदुक्खाई निट्ठवइ - इति । तमेव विशेषयति - सर्वभावविभावनम् - कृत्स्नद्रव्य-पर्यायनिपुणचिन्तनचतुरम्। कमित्याह जिनाख्यातं मार्गम् - सर्वज्ञप्रतिपादितं सिद्धिसञ्चरम्, जिनप्रवचनार्थमिति हृदयम्, धन्याः - धर्मधनलब्धार एव, सम्यग् - तमेव सच्चं नीसंकं जं जिणेहिं पवेइयं - इति श्रद्धानसमन्विततया, वेदयन्ति - तदभिहिततत्त्वपरिणतिमनुभवन्ति, भावतः - भावनाज्ञानानुभावात्।
अन्यथा त्वभव्यस्यापि भवति नवपूर्वश्रुताधिगमः, अफलश्चासाविति भावनीयम्। इत्थं च भावनानुगतमेव ज्ञानं तत्त्वतो ज्ञानम्। न हि श्रुतमय्या प्रज्ञया भावनादृष्टज्ञातं ज्ञातं नाम। उपरागमात्रत्वात्, दृष्टवदपायेभ्योऽनिवृत्तेः। भावनाज्ञानमूले हि हिताहितयोः प्रवृत्तिनिवृत्ती। तस्माद्भावनादृष्टज्ञाताद्विपर्ययायोगः। ततश्च निसर्गत एव सर्वथा दोषोपरतिसिद्धिरिति पर्यवसितमाह।।
एवं से सिद्धे बुद्धे विरए विपावे दंते दविए अलंताई णो पुणरवि इच्चत्थं हव्वमागच्छइ त्ति बेमि।। एवमित्यादि प्राग्वत्। इति नवममहाकाश्यपाध्ययन आर्षोपनिषद्।
१. पुष्पमालायाम् । ।२५४ ।। २. पष्टिशतके ।।१२७।। ३. धर्मबिन्दौ ।।६/३०३८।।