________________
Re- ऋषिभाषितानि निरुपाधिसुखोपपत्तेः। अन्यथा तु मुक्तौ प्रेक्षावत्प्रवृत्त्यनुपपत्तिरिति सूक्ष्ममीक्षणीयम्।
स्यादेतत्, सति हि धर्मिणि धर्माश्चिन्त्यन्ते इति निरर्थिकेयं सुखादिधर्मचिन्ता, आत्मलक्षणधर्मिण एव मुक्तावुच्छेदात्, तदुच्छेदस्यैव मुक्तिपदार्थत्वात्, तदवदाम - यथा निर्वाणकाले तु दीपो दग्ध्वा लयं व्रजेत्। तथा सर्वाणि कर्माणि योगी दग्ध्वा लयं व्रजेत् - इति चेत् ? न, कथमित्यत्राह- अस्तिलक्षणसद्भावात्। अयं भावः, मुक्तेः पूर्वं तदस्तित्वाभ्युपगमेनैव तत्रैकालिकास्तित्वस्याप्यभ्युपगतत्वात्, नाभावो विद्यते सतः - इतिन्यायात्। ततश्च मुक्त्यवस्थायामप्यवश्यं तत्सद्भावः स्वीकर्तव्यः। यतः सोऽस्तीतिलक्षणस्य विद्यमानत्वेन नास्याभाव आपादयितुं शक्यत इति। पूर्वतनपर्यायनाशोत्तरतदुत्पादस्तु स्यादेव, नैतावताऽन्वयिद्रव्यस्यात्मन उच्छेद इत्यलझ्या स्याद्वादमुद्रा। तदिदमुक्तम् - मुक्तः सन्नाभावः स्वालक्षण्यात् स्वतोऽर्थसिद्धेश्च । भावान्तरसङ्क्रान्तेः सर्वज्ञाज्ञोपदेशाच्च इति ।। ____एतेनाग्रिमचित्तानुत्पादलक्षणा मुक्तिरपि प्रत्याख्याता। मुक्तेरपुरुषार्थत्वापत्तेश्चेति दिक्।
इत्थं च सः - सिद्धात्मा, नित्यः सर्वदाऽवस्थितसिद्धस्वभावतया शाश्वतः, तथा परमः - आविर्भूतानन्तगुणात्मकात्मस्वरूपतयोत्कृष्टः। तदेतदनन्तरोक्तं ध्रुवम् - सुनिश्चितम्,
११४ -
आर्षोपनिषद् - आगमोपपत्तिसिद्धत्वादिति।
वस्तुतस्तु सर्वजीवानामपि शश्वत्ता, तद्भावाव्ययलक्षणनित्यतालक्षणयुक्तत्वात्, न चैवमेषां मनुष्यादिभावानुच्छेदप्रसङ्गः, पर्यायार्थतयाऽनित्यत्वात्, एतदेवाचष्टे
दव्वतो खित्ततो चेव कालतो भावतो तहा। णिच्चाणिच्चं तु विण्णेयं संसारे सव्वदेहिणं।।९-३५।।
द्रव्यतः, क्षेत्रतः, कालतः, भावतश्च, चैव - तथासमुच्चयार्थों, द्रव्यादिसर्वापेक्षयेति समासार्थः, किमित्याहनित्यानित्यम्- भावप्रधानत्वानिर्देशस्य शाश्वताशाश्वतत्वम्, तुःअवधारणार्थः, उत्पाद-व्ययध्रौव्ययुक्तं सदितिवस्तुलक्षणात्तदितरस्यावस्तुत्वमेवेति भावः। न च सर्वदेहिनामिति वक्ष्यमाणाज्जीवेतराणामवस्तुत्वाभिधानप्रसङ्गः, तथा च पुरुष एवेदं सर्वमित्यभ्युपगमेन वेदान्तमतप्रवेश इति वाच्यम्, उपलक्षणात् शेषवस्तुग्रहणात्। विज्ञेयम्- स्याद्वादसुधापरिणतिना ज्ञातव्यम्, एकान्तवादविषविकृतमतीनां तदवगमासम्भवात्। संसारे - सततमपि संसरणैकलक्षणे, सर्वदेहिनाम् निःशेषजीवानाम्।
न च मुक्तजीवानामवस्तुत्वप्रसङ्ग इति वाच्यम्, कथञ्चित्तेषामपि संसरणोपपत्तेः, प्रतिक्षणमपरापरपर्यायसंसृतिसद्भावात्। संवादी चात्र सिद्धान्तः - जीवा णं भंते ! किं सासया असासया ? गोयमा ! जीवा सिय सासया सिय असासया। से केणद्वेण भंते एवं वुच्चइ - जीवा सिय सासया सिय असासया ? १. ऋग्वेदे ।।१०.१०.२।।
१. क्षुरिकोपनिषदि ।।२१।। २. प्रशमरती ।।२९०।। ३. क-ख-ज- परमा। ग-घ-चछ-झ-त - परमो।