Book Title: Rushibhashitani Part 1
Author(s): 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 72
________________ Re-ऋषिभाषितानि - दीपकाङ्गम्, तयोः क्षये - निःशेषतया दीपक उपयुक्ततया समाप्तभावे सति दीपकः सन्ततिम् - प्रतिक्षणमपरापरस्नेहपुद्गलनिर्मितापरापरज्योतिषां परम्परां त्यजति, स्नेहादिक्षये तन्निर्वाणनियमात्, तथाऽऽत्मा - जीवोऽपि, आदीयन्तेऽनेन जातिमरणानीत्यादानम् - कर्म, कम्मं च जाइमरणस्स मूलं - इत्यागमा । तस्य बन्धः-क्षीरनीरवज्जीवप्रदेशैरात्मीकरणम्, तस्य रोधः - निरुद्धभावः, कर्मबन्धविच्छेद इत्यर्थः, तस्मिन् सति भवसन्ततिम् - जन्मपरम्पराम्, त्यजतीत्यनुवर्तते। बन्धनिरोध इषद्मस्वाक्षरपञ्चकोद्गीरणमात्रतुल्यकालीयां शैलेष्यवस्थायां सत्तागताशेषकर्मक्षपणेनात्मनः सिद्धिसौधसमध्यासीनताभावेन भवसन्ततित्यागात्। एतेन - दीपो यथा निवृत्तिमभ्युपेतो, नैवावनिं गच्छति नान्तरिक्षम्। दिशं न काञ्चिद्विदिशं न काञ्चित्, स्नेहक्षयात् केवलमेति शान्तिम्।। जीवस्तथा निवृत्तिमभ्युपेतो नैवावनिं गच्छति नान्तरिक्षम्। दिशं न काञ्चिद् विदिशं न काञ्चित् स्नेहक्षयात् केवलमेति शान्तिम् - इति दीपकोदाहरणेनात्मसन्तत्युच्छेदसमर्थनस्यात्रावतारो निरुद्धः। भवसन्तत्या एव त्यागाभिधायकत्वेनैतस्यात्मसन्ततिविच्छेदपरत्वासम्भवात्। अत्र निदर्शनमाह दोसादाणे णिरुद्धम्मि सम्मं सत्थाणुसारिणा। पुवाउत्ते य विज्जाए खयं वाही णियच्छती।।९-२३।। दूषयति शरीरं पित्तादिप्रकोपापादनेनेति दोषः - अपथ्या१. उत्तराध्ययने । ।३२-७।। २. सौदरनन्दे ।।१६-२८/२९ ।। - आर्षोपनिषद् - हारादि, तदादानम् - रोगिकृततद्ग्रहणम्, तस्मिन् निरुद्धे रोगस्थितिपरिपाकादिहेतुना प्रतिबद्धे सति, सम्यक् काले मात्रया पथ्याहारौषधसेवनं यथा स्यात्तथा, शास्त्रानुसारिणा - चिकित्साग्रन्थाभिहितेन विधिना, पूर्वम् - तादृशविधिप्रयोगादक्तिनकाले, आयुक्ते - अज्ञानादिनाऽपथ्यसेवनजनित आसमन्ताद्वयाप्ते दोषविकारे, विध्याते - पथ्यसेवनादिना विलयमुपगते, व्याधिः - रोगविशेषः, क्षयं नियच्छति-निःशेषतया निवर्तते। नन्वस्त्वपथ्यसेवनं माऽस्तु व्याधिरित्येतन्निदर्शन एवास्माकमप्रतिपत्तिरित्यदृष्टान्त एष, प्रतिबन्धप्रतिपत्तेरास्पदं दृष्टान्त - इति तल्लक्षणविरहात्, अत एव दुर्नय उपनय इति चेत् ? न, तस्य व्याधिजनकत्वनियमात्, व्यभिचारपदापन्ने तु पुरुषाद्यपेक्षयाऽपथ्यत्वमेव नेति सुव्यवस्थितो नियमः। एतदेव दीपकालङ्कारेणाह मज्जं दोसा, विसं वण्ही, गहावेसो अणं अरी। धणं धम्मं च जीवाणं, विण्णेयं धुवमेव तं।।९-२४।। मद्यम्, दोषा:-अपथ्यसेवनादिलक्षणाः, विषम्, वह्निः , ग्रहावेशो भूतादिकृतः, ऋणम्, अरिः - रिपुः, धनम्, धर्मश्च पुण्यजनकानुष्ठानम्। तत् - अनन्तरोक्तं सर्वमपि जीवानां ध्रुवमेव - नियमात् स्वजन्यफलापादकं विज्ञेयम् - अवगन्तव्यम्। १. रोगस्थित्यनुसारेण प्रवृत्ती रोगिणो यथेतिनीत्या । २. प्रमाणनयतत्त्वालोके ।।३-४३ ।। अत्रानुमानप्रयोगः स्वयमूह्यः । ३. येन धर्मविशेषसादृश्येन प्रस्तुताप्रस्तुतानेकविषयवर्णना क्रियते स दीपकालङ्कारः। दृश्यतामस्मत्कृतं छन्दोऽलङ्कारनिरूपणम्। ४. न च लिङ्गव्यवत्ययः, प्राकृते धर्मपदस्योभयलिङ्गत्वात् ।

Loading...

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141