Book Title: Rushibhashitani Part 1
Author(s): 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 71
________________ Re-ऋषिभाषितानि - युक्तात्मा, कथमित्याह- यतः पापम्- दुःखनिबन्धनमशुभं कर्म क्षपयति। ततश्च नाकारणं भवेत् कार्यमितिनीत्या दुःखानुत्थानम्। मिश्रेऽपि शुभाशुभोभयलक्षणेऽपि बन्धने - कर्मात्मके विद्यमाने सति। अत्रैवार्थे निदर्शनमाह- यथा मिश्रेऽपि ग्राहे - मालिकादिनानाभोगादिना कृते विषकुसुममिश्रितसुमनःसङ्ग्रहे सति विषपुष्पानां छर्दनम् - त्यागो विधीयते, इति न किञ्चिदनुपपन्नम्। न चैवं पुण्यक्षयासम्भवान्मुक्त्यनुपपत्तिरिति वाच्यम्, दशाविशेषापेक्षत्वात्। समुद्घातादौ पुण्यस्यापि क्षपणगोचरीकरणादिति। तस्मात् पापप्रतिघातेऽभियोगो विधेय एवेत्युपदेष्टि सम्मत्तं च दयं चेव सम्ममासज्ज दुल्लहं।। ण प्पमाएज्ज मेधावी, मम्मगाहं जहारिओ।।९-२१।। सम्यक्त्वम् - मिथ्यात्वमोहोपशमाद्याविभूतात्मपरिणामविशेषः, सम्यग्दर्शनमित्यर्थः, एतेन सज्ज्ञानग्रहः, सहभावित्वात्। तच्च दया - पृथिव्याद्यारम्भवर्जनव्यक्तीभवंश्चारित्रमोहक्षयोपशमाविर्भूत आत्मपरिणामविशेषः, चारित्रमित्यर्थः, ताम्, चैव समुच्चये, तदर्थश्च योजित एव। सम्यगासाद्य - परमार्थतः प्रतिपद्य, कीदृशमित्याह दुर्लभम्, मनुष्यत्वादिलब्धीनामुत्तरोत्तरदुष्प्राप्यत्वात्, तथा चागमः - दुल्लभे खलु माणुसे भवे चिरकालेण वि सव्वपाणिणं। गाढा य विवाग कम्मुणो समयं गोयम ! मा पमायए।। लभ्रूण वि माणुसत्तणं आयरियत्तं पुणरावि दुल्लहं। बहवे ९८ आर्षोपनिषद् - दसुया मिलक्खुया समयं गोयम ! मा पमायए।। लभ्रूण वि आयरियत्तणं अहीणपंचिदियता हु दुल्लहा। विगलिंदियता हु दीसई समयं गोयम ! मा पमायए।। अहीणपंचेदियत्तं पि से लभे उत्तमधम्मसुई हु दुल्लहा। कुतित्थिनिसेवए जणे समयं गोयम ! मा पमायए।। लभ्रूण पि उत्तमं सुई सद्दहणा पुणरावि दुल्लहा। मिच्छत्तनिसेवए जणे, समयं गोयम ! मा पमायए।। धम्म पि हु सद्दहतया दुल्लभया काएण फासया इह कामगुणेसु मुच्छिया समयं गोयम ! मा पमायए - इति । यत एवं तस्मात् न प्रमाद्येत - प्रतिपन्नगुणस्थानस्थैर्योत्तरगुणाभिलाषादिविधौ नैव प्रमादं कुर्यात्, मेधावी - भवसयसहस्सदुलहे जाइजरामरणसागरुत्तारे। जिणवयणमि गुणायर ! खणमवि मा काहिसि पमायं - इत्यादिप्रवचनपरिपूतप्रेक्षासम्पन्नः। अप्रमादातिशये निदर्शनमाह- यथाऽरिकः-शत्रुः, स्वार्थे कः, युध्यमानः सन् कथञ्चित् प्रतिपक्षस्य मर्मग्राहम् - मर्मणामेवातिदुःसहं दुर्मोक्षं च ग्रहणं यथा स्यात्तथा गृहीत्वाऽऽसन्नविजयतया नैव प्रमाद्यति, अन्यथा जयेतरव्यत्ययापत्तेः। एवं सम्यक्त्वादेरपि मोहरिपोर्मर्मग्राहनिभतया तत्क्षयमभिवाञ्छता तदासाद्य नैवेषदपि प्रमत्तेन भाव्यमित्याशयः। अप्रमादफलमाह णेह-वत्तिक्खए दीवो जहा चयति संतति। आयाणबंधरोहम्मि तहऽप्पा भवसंतई।।९-२२।। यथा स्नेहः-तैलम्, वर्तिः - 'वाट' - इति लोकप्रसिद्ध १. उत्तराध्ययने ।।१०/४, १६-२०।। २. उपदेशमालायाम् । १२३ ।।

Loading...

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141